हीरक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीरकः, पुं, (हीर एव । स्वार्थे कन् ।) रत्न- विशेषः । अयं श्वेतवर्णः बहुमूल्यः शुक्र- देवताकश्च । तत्पर्य्यायः । वज्रः २ हीरः ३ दधीच्यस्थि ४ वज्रकम् ५ । इति शब्दरत्नावली ॥ सूचीमुखम् ६ वरारकम् ७ रत्नमुख्यम् ८ वज्रपर्य्यायनाम ९ । विराटदेशजहीरकपर्य्यायः ॥ विराटजः १० राजपट्टः ११ राजावर्त्तः १२ । इति हेमचन्द्रः ॥ अस्य गुणाः । सारकत्वम् । शीतत्वम् । कषायत्वम् । स्वादुत्वम् । वान्ति- कारित्वम् । चक्षुर्हितकारित्वम् । धारणे पापा- लक्ष्मीनाशित्वञ्च । इति राजवल्लभः ॥ अन्यत् वज्रशब्दे द्रष्टव्यम् ॥ (यथास्य पर्य्यायादि । “हीरकः पुंसि वज्रोऽस्त्री चन्द्रो मणिवरश्च सः । स तु श्वेतः स्मृतो विप्रो लोहितः क्षत्त्रियः स्मृतः ॥ पीतो वैश्योऽसितः शूद्रश्चतुर्वर्णात्मकश्च सः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीरक¦ m. (-कः) The diamond. E. कन् added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीरकः [hīrakḥ], A diamond.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हीरक m. or n. a diamond (the gem is supposed to be presided over by शुक्रor Venus) Pan5car.

हीरक m. a kind of metre(= हीर) Col.

"https://sa.wiktionary.org/w/index.php?title=हीरक&oldid=273380" इत्यस्माद् प्रतिप्राप्तम्