हृदय

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदयम्, क्ली, (ह्रियते विषयैरिति । हृ + “वृह्रोः षुग्दुकौ च । उणा० ४ । १०० । इति कयन् दुक् च ।) बुक्कम् । वक्षः । मनः । यथा, -- “उरस्यपि च वुक्वायां हृदयं मानसेऽपि च ॥” इति त्रिकाण्डशेषः ॥ वुक्काग्रमासं हृदयं हृदिति । चत्वारि हृदये । केचित्तु वुक्कात् पृथगेव हृदयान्तर्गते मांस- विशेषे पद्माकारे हृदयादिद्वयमाहुः । धातो- रनेकार्थत्वात् । इत्यमरटीकायां भरतः । २ । ६ । ६४ ॥ अत्र अनाहतनामकद्वादशदलपद्ममस्ति । यथा, “आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्द्धे चतुष्के । वासान्ते वादिलान्ते ड-फ-क-ठसहिते कण्ठदेशे स्वराणां हक्षौ कोदण्डमध्ये सकलदलगतं वर्णरूपं नमामि ॥” इति षट्चक्रभेदः ॥ किञ्च । “तस्योर्द्ध्वे हृदि पङ्कजं सुललितं वन्धूककान्त्यु- ज्ज्वलं काद्यैर्द्वादशवर्णकैरुपकृतं सिन्दूररागाञ्चितैः ॥ नामानाहतसंज्ञकं सुरतरुं वाञ्छातिरिक्तप्रदं वायोर्मण्डलमत्र धूमसदृशं षट्कोणशोभान्वि- तम् ॥” इति षट्चक्रक्रमः ॥ * ॥ तस्य शुभाशुभलक्षणं यथा, -- “समोन्नतञ्च हृदयमकल्प्यं मांसलं पृथु । नृपाणामधमानाञ्ज खरलोमशिरालकम् ॥” इति गारुडे ६६ अध्यायः ॥ (तथास्य विवृतिः । “अर्थे दश महामूलः समासक्ता महाफलाः । महच्चार्थश्च हृदयं पर्य्यायैरुच्यते बुधैः ॥ षडङ्गमङ्गविज्ञानमिन्द्रियाण्यर्थपञ्चकम् । आत्सा च सगुणश्चेतः चिन्त्यञ्च हृदि संश्रितम् ॥ प्रतिष्ठार्थं हि भावानामेषां हृदयमिष्यते । गोपानसीनामागारकर्णिके वार्थचिन्तकैः । तस्यापघातान्मूर्च्छायं भेदान्मरणमिच्छति ॥ यद्धि तत् स्पर्शविज्ञानन्धारितन्तत्र संश्रितम् । तत्परस्यौजसः स्थानन्तत्र चैतन्यसंग्रहः ॥ हृदयं महदर्यश्च तस्मादुक्ताश्चिकित्सकैः । तेन मूलेन महता महामूला मता दश ॥” इति चरके सूत्रस्थाने त्रिंशेऽध्याये ॥ “हृदयमिति कृतवीर्य्यो बुद्धेर्मनसश्च स्थानत्वात् ॥” इति सुश्रुते शारीरस्थाने तृतीयेऽध्याये ॥ “शोणितकफप्रसादजं हृदयं तदाश्रया हि धमन्यः प्राणवहाः । तस्याधो वामतः प्लीहा फुस्फुसश्च दक्षिणतो यकृत् क्लोम च ॥ तद्धृदयं विशेषेण चेतानास्थानमतस्तस्मिंस्तमसा- वृते सर्व्वप्राणिनः स्वपन्ति । भवति चात्र । पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् । जाग्रतस्तद्विकशति स्वपतश्च निमीलति ॥” इति च सुश्रुते शारीरस्थाने चतुर्थेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदय नपुं।

मनस्

समानार्थक:चित्त,चेतस्,हृदय,स्वान्त,हृद्,मानस,मनस्

1।4।31।2।3

जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता। चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः॥

वैशिष्ट्यवत् : वासना,मनोविकारः,अहङ्कारः,अभिमानः,मदः,मनःपीडा

पदार्थ-विभागः : , मनः

हृदय नपुं।

हृदयकमलम्

समानार्थक:हृदय,हृद्

2।6।64।2।3

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्. बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदय¦ न॰ हृ--कयन् दुक्च।

१ मनसि

२ वक्षसि च त्रिका॰। हृद्एति इण--अच्। परब्रह्मणि
“हृद्ययं तस्माद्धृदयम्” छा॰ उ॰[Page5433-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदय¦ n. (-यं)
1. The mind, the seat or faculty of thought and feeling.
2. Knowledge.
3. Science.
4. The essence of anything. E. हृ to take, कयन् Una4di aff., दुक् augment.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदयम् [hṛdayam], 1 The heart, soul, mind; हृदये दिग्धशरैरिवाहतः Ku.4.25; so अयोहृदयः R.9.9; पाषाणहृदय &c.

The bosom, chest, breast; बाणभिन्नहृदया निपेतुषी R.11.19.

Love, affection.

The interior or essence of anything.

The secret science; अश्व˚, अक्ष˚ &c.; ऋतुपर्णो नलसखो यो$श्वविद्यामयान्नलात् । दत्वा$क्षहृदयं चास्मै सर्वकामस्तु तत्सुतः ॥ Bhag.9.9.17.

True or divine knowledge.

The Veda.

Wish, intention; एवं विरिञ्चादिभिरीडितस्तद्विज्ञाय तेषां हृदयं तथैव Bhāg.8.6.16.

= अहंकारम् q. v.; मनो विसृजते भावं बुद्धिरध्यवसायिनी । हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना Mb.12.248.1. -Comp. -आत्मन् m. a heron. -आविध्a. heart-rending, heart-piercing; रोचनैर्भूषितां पम्पामस्माकं हृदयाविधम् Bk.6.73. -ईशः, -ईश्वरः a husband. (-शा, -री f.)

a wife.

a mistress. -उदङ्कः heaving of the heart. -उद्वेष्टनम् contraction of the heart.-उन्मादकर a. bewitching hearts. -कम्पः tremor of the heart, palpitation. -क्लमः weakness of the heart.-क्षोभः agitation of the heart. -ग्रन्थिः anything which binds the soul or grieves the heart (as अविद्यारूपसंसार- बन्धन); भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः Muṇd.2.2.8. -ग्रहः spasm of the heart. -ग्राहिन् a. heart-captivating.-चोरः one who steals the heart or affections. -छिद् a. heart-rending, heart-piercing. -जः a son. -ज्ञ a. knowing the heart or its secret. -दाहिन् a. heart-burning.-दीपः, -दीपकः N. of a glossary of materia medica by Vopadeva. -दौर्बल्यम् faint-heartedness. -पुरुषः beating of the heart. -प्रमाथिन् a. agitating the heart; क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम् M.3.1. -प्रस्तर a. cruel. -रज्जुः (in geom.) a central line. -रोगः, -शल्यम् a thorn or wound in the heart, a heartdisease; P.VI.3.51; समुत्खाता नन्दा नव हृदयशल्या इव भुवः Mu.1.13.

लेखः knowledge.

heart-ache, anxiety. -विध्, -वेधिन् a. heart-piercing. -विरोधः oppression of the heart. -वृत्ति f. disposition of the heart. -शैथिल्यम् depression, faintheartedness. -शोषणa. heart-withering. -संघट्टः paralysis of the heart.-संमित a. breast-high. -स्थ a. being or cherished in the heart. -स्थानम् the breast, bosom.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृदय n. ( ifc. f( आ). )the heart (or region of the heart as the seat of feelings and sensations ; हृदये-कृ, " to take to heart ") , soul , mind (as the seat of mental operations ; चपल-हृदय, " fickle-minded ") RV. etc.

हृदय n. the heart or interior of the body RV. AV. TBr. MBh.

हृदय n. the heart or centre or core or essence or best or dearest or most secret part of anything AV. etc.

हृदय n. true or divine knowledge MW.

हृदय n. the वेदib.

हृदय n. science ib.

हृदय n. (with प्रजापतेः)N. of a सामन्IndSt.

हृदय m. a partic. Sunday BhavP.

हृदय mfn. going to the heart Bha1gP. (fr. हृद्+ अयSch. )

"https://sa.wiktionary.org/w/index.php?title=हृदय&oldid=274189" इत्यस्माद् पुनः प्राप्तिः