हृद्रोग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्रोगः, पुं, कुम्भराशिः । इति शुद्धिदीपिका ॥ (हृदयस्य रोग इव ।) कामः । यथा, -- “हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ।” इति श्रीभागवतम् ॥ हृदयस्य रोगः ।) हृदयपीडा । तत्र हृद्रो- गस्य विप्रकृष्टं निदानमाह । “अत्युष्णगुर्व्वम्लकषायतिक्त- श्रमाभिघाताध्ययनप्रसङ्गैः । सञ्चिन्तनैर्व्वेगविधारणैश्च हृदामयः पञ्चविधः प्रदिष्टः ॥” प्रसङ्गः सततं सेवा । सञ्चिन्तनमतिचिन्ता राज- भयादिकमिति यावत् । पञ्चविधः वातिकः पैत्तिकः श्लैष्मिकः सान्निपातिकः क्रिमिज- श्चेति ॥ * ॥ तस्य संप्राप्तिपूर्व्वकं लक्षणमाह । “दूषयित्वा रसं दोषा विगुणा हृदयङ्गताः । हृदि वाधां प्रकुर्व्वन्ति हृद्रोगं तं प्रचक्षते ॥” विगुणाः दुष्टाः । वाधां दोषभेदे नानाविधां व्यथाम् । भङ्गवत् पीडामिति गयदासः ॥ * ॥ वातिकं हृद्रोगमाह । “आयम्यते मारुतजे हृदयं तुद्यते तथा । निर्मथ्यते दीर्य्यते च स्फोट्यते पाट्यतेऽपि च ॥” मारुतजे हृद्रोगे इति शेषः । आयम्यते व्यथया विस्तार्य्यत इव । तुद्यते सूचीभिरिव । निर्म- थ्यते मन्थानेनेव । दीर्य्यते करपत्रेण द्विधा क्रियत इव । स्फोट्यते आरयेव । पाट्यते कुठा- रेण बहुधा क्रियत इव ॥ * ॥ पैत्तिकमाह । “तृष्णोष्मदाहचोषाः स्युः पैत्तिके हृदये क्लमः । धूमायनञ्च मूर्च्छाच र्क्लदः शोषो मुखस्य च ॥” उष्मा शीतगात्रस्यैव शीतवाताभिलाषहेतु किञ्चिदन्तरौष्णम् । दाहः पार्श्वस्थेन वह्रिनेव दुःखहेतुर्गात्रसन्तापः । चोषः चूषणेनेव पीडा । हृदये क्लमः हृदयाकुलत्वं ग्लानिरित्यर्थः । धूमा- यनं कण्ठाद्धूमनिर्गम इव । क्लेदः किञ्चिद्दर्गन्धः सटित इव ॥ * ॥ श्लैष्मिकमाह । “गौरवं कफसंस्रावोऽरुचिस्तम्भोऽग्निमार्द्दवम् । माधुर्य्यमपि चास्यस्य वलासा वर्त्तते हृदि ॥” वलासा वर्त्तते हृदि कुपितकफव्याप्तेः । गौरवं हृदयस्य । स्तम्भो जडता । मार्दवं जलप्लुत- मिव । माधुर्य्यं मुखे ॥ * ॥ त्रिदोषजमाह । “विद्यात् त्रिदोषमप्येवं सर्व्वलिङ्गं हृदामयम् ॥” कृमिजमाह । कृमयो जायन्ते अस्मिन्निति कृमिज इति निरुक्तिः ॥ * ॥ तस्य निदान- पुर्व्विकां संप्राप्तिमाह । “त्रिदोषहेतुहृद्रोगे यो दुरात्मा निषेवते । तिलक्षीरगुडादींश्च ग्रन्थिस्तस्योपजायते ॥ मर्म्मैकदेशसंक्लेदं रसश्चाप्युपगच्छति । सक्लेदात् कृमयश्चास्य भवन्त्युपहतात्मनः ॥” मर्म्मैकदेशे हृदयैकदेशे संक्लेदं सटितत्वं रस उपगच्छति संक्लेदात् । रसस्य सटितत्वात् । उपहतात्मनः तिलाद्यहिताहारेण ॥ * ॥ तस्य लक्षणमाह । “उत्क्लेदः ष्ठोवनं तोदः शूलं हृल्लासकस्तमः । “शुण्ठी सौवर्च्चलं हिङ्गु पीत्वा हृदयरोगनुत् ।” इति च गारुडे । १८८ । ४३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्रोग¦ पु॰

६ त॰। हृदयस्य रोगभेदे हृदामयोऽप्यत्र। भावप्र॰ तस्य निदानादि तल्लक्षणं चोक्तं यथा
“हृद्रोगस्य विप्रकृष्टनिदानमाह
“अत्युष्णगुर्व{??}कषायतिक्तश्रमाभिघाताध्यशनप्रसङ्गे। सञ्चिन्तनैर्वेगवि-धारणैश्च हृदामयः पञ्चविधः प्रदिष्टः”। प्रसङ्गःसततं सेवा। सञ्चिन्तनम् अतिचिन्ता राजभयादि-जमिति। हृदामयः स च पञ्चविधः वातिकः पैत्तिकःश्लैष्मिकः सान्निपातिकः क्रिमिजश्चेति। तस्य संप्राप्ति-पूर्वकं लक्षणमाह।
“दूपयित्वा रसं दोषा विगुणाहृदयङ्गताः। हृदि वाधां प्रकुर्वन्ति हृद्रोगन्तं प्रचक्षते”। विगुणाः दष्टाः बाघां दोषभेदेन नानाविधां व्यथाम्। भङ्गवत्पीडामिति गणदासः। वातिकं हृद्रोगमाह
“आयम्यते मारुतजे हृदयन्तुद्यते तथा। निर्मथ्यतेदीर्य्यते च स्फोट्यते पाट्यतेऽपि वा”। मारुतजे हृद्रीगइति शेषः। आयम्यते व्यथया विस्तार्य्यते इव। तु-[Page5434-a+ 38] द्यते सूचीमिरिव विध्यते। निर्मथ्यते मथनेनेव दीर्य्यते करपत्रेण द्विधाक्रियत इव। स्फोट्यते अस्त्रेणेवपाट्यते कुठारेण बहुधाक्रियत इव। अथ पैत्तिकमाह
“तृष्णोष्मदाहचोषाः स्युः पैत्तिके हृदये क्लमः। धूमा-यनञ्च मूर्च्छा च स्वेदः शोषो मुखस्य च”। उष्मा शीतगात्रस्येव शीतवाताभिलाषहेतुः किञ्चिदिवौष्ण्यम्। दाहःपार्श्वस्थेन वह्निनेव दुःखहेतुर्गात्रस्य सन्तापः। चोषःचूषणेनेव पीडा। हृदये क्लमः हृदयाकुलत्वं ग्लानि-वदित्यर्थः। धूमायनम् कण्ठाद्धूमनिर्गमः। क्लेदः कि-ञ्चिद्दुर्{??}न्धः शटित इव। वातश्लैष्मिकमाह
“गौरवंकफसंस्रावोऽरुचिस्तम्भोऽग्निमार्दवम्। माधूर्य्यमपि चा-स्यस्य बलासावतते हृदि”। बलासावतते हृदि कुपितकफव्याप्ते गौरवं हृदयस्य। स्तम्भो जडता। माधुर्य्यंजलप्लुतमिव माधुर्य्यं मुखे। त्रिदोषजमाह
“विद्या-त्त्रिदोषमप्येवं सर्वलिङ्गकृदामयम्”। क्रिमिजमाहक्रिमयो जायन्ते अस्मिनिति क्रिमिज इति निरुक्तिः। तस्य विप्रकृष्टनिदानपूर्विका सम्प्राप्तिमाह
“त्रिदोष-हेतुहृद्रोगे यो दुरात्मा निषेवते। तिलक्षीरगुडादींश्चग्रन्थिस्तस्योपजायते। मर्मैकदेशे संक्लेदं रसश्चाप्युप-गच्छति। संक्लेदात् कृमवश्चास्य पतन्त्युपहतात्मनः”। मर्मैकदेशे हृदयैकदेशे संक्लेदं शटितत्वं रस उपग-च्छति। संक्लेदात् रसस्य शटितत्वात् उपहतात्मनःतिलाद्यहिताहारेण। तस्य लक्षणमाह
“उत्क्लेदःष्टीवनन्तोदः शूलं हृल्लासकस्तमः। अरुचिः श्यावने-त्रत्वं शोषश्च कृमिजे भवेत्”। उत्क्लेदः वमनमिवोप-स्थितम्। शोषो यक्ष्म। हृद्रोगस्योपद्रवानाह
“क्लोम-सादा भ्रमः शोषो ज्ञेयास्तेषामुपद्रवाः। कृषिजे तुकृमीणां ये श्लैष्मिकाणां हि ते मताः”। क्लोम्नः पिषा-सास्थानस्य सादः शोषः। शोषो मुखस्य। तेषांहृद्रीगाणां, क्रिमिजे तु हृद्रोगे श्लैष्मिकाणां कृमीणाम्ये उपद्रवा हृकासात् स्रवणान्ता विपाकादयस्ते माताः”

२ कुम्भराशौ शुद्धिदीपिका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्रोग¦ m. (-गः)
1. Heart-burn.
2. Any disease of the heart.
3. Sorrow, grief, anguish.
4. Love.
5. The sign Aquarius of the zodiac, (in this sense more properly of Greek origin: see ह्रद्रोग।) E. हृद् the heart, रोग disease; also हृदयरोग |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्रोग/ हृद्--रोग m. (for हृद्रोगSee. s.v. ) id. RV. Sus3r. VarBr2S. etc.

हृद्रोग m. (fr. Gk. ? ; for हृद्-रोगSee. p. 1302 , col. 2) the zodiacal sign Aquarius VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=हृद्रोग&oldid=274672" इत्यस्माद् प्रतिप्राप्तम्