हृषीकेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृषीकेशः, पुं, (हृषीकाणां ईशः ।) विष्णुः । इत्यमरः । १ । १ । १८ ॥ हृषीकाणामिन्द्रियाणा- मीशो हृषीकेशः क्षेत्रज्ञरूपकत्वात् परमात्म- त्वाद्वा । इन्द्रियाणि यद्वशे वर्त्तन्ते स पर- मात्मा । इति शङ्कराचार्य्यः । पौराणिका- स्त्वाहुः । हृष्टा जगत् प्रीतकराः केशा रश्मयो- ऽस्य हृषीकेशः । पृषोदरादिः । अयं हि सूर्य्यरूपश्चन्द्ररूपश्च । तथा च मोक्षधर्म्मे । “सूर्य्याचन्द्रमसोः शश्वत् अशुभिः केशसंज्ञितैः । बोधयत् खापयच्चैव जगदुद्भिद्यते पृथक् । बोधनात् स्वापनाच्चैव जगतो हर्षणं भवेत् ॥ अग्नीसोमकृतैरेव कर्म्मभिः पाण्डुनन्दन ! । हृषीकेशोऽहमीशानो वरदो लोकभावनः ॥” इति भरतः ॥ अपि च । “हृषीकाणि नियम्याहं यतः प्रत्यक्षतां गतः । हृषीकेश इति ख्यातो नाम्नां तत्रैव संस्थितः ॥” इति वाराहे रुरुक्षेत्रहृषीकेशमहिमानामा- ध्यायः ॥ * ॥ “वृथा धर्म्मञ्चरिष्यन्ति कलौ तस्मिन् युगान्तिमे ॥ ये चान्यशापनिर्द्दग्धा गौतमस्य महात्मनः । सर्व्वे ते ह भविष्यन्ति ब्राह्मणद्यासु जातिषु ॥ विनिन्दन्ति हृषीकेशं ब्राह्मणान् ब्रह्मवादिनः । वेदवाह्या व्रताचारा दुराचारा वृथाश्रमाः ॥ मोहयन्ति जनान् सर्व्वान् दर्शयित्वा फलानि च । तमसाविष्टमनसो वैडालव्रतिकाधमाः ॥ कलौ रुद्रो महादेवो लोकानामीश्वरः परः ॥ न देवता भवो नृणां देवतानाञ्च दैवतम् । करिष्यत्यवताराणि शङ्करो नीललोहितः ॥ श्रौतस्मार्त्तप्रतिष्ठार्थं भक्तानां हितकाम्यया । उपदेक्ष्यन्ति तज्ज्ञानंशिष्याणां ब्रह्मसंहितम् ॥” इति कौर्म्मे २७ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृषीकेश पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।18।2।2

विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः। दामोदरो हृषीकेशः केशवो माधवः स्वभूः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृषीकेश¦ पु॰

६ त॰। विष्णौ अमरः। अन्तर्यामिव्राह्मणे तस्यसर्वनियन्तृत्वोक्तेः सर्वेन्द्रियप्रवर्त्तकत्थादीशत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृषीकेश¦ m. (-शः) VISHN4U. E. हृषीक an organ of sense, ईश lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृषीकेश See. below under हृषीक.

हृषीकेश/ हृषीके m. (perhaps = हृषी-केशSee. हृषी-वत्above ) id. (763934 -त्वn. ) MBh. Hariv. etc.

हृषीकेश/ हृषीके m. N. of the tenth month VarBr2S.

हृषीकेश/ हृषीके m. of a तीर्थCat.

हृषीकेश/ हृषीके m. of a poet ib.

हृषीकेश/ हृषीके m. lord of the senses (said of मनस्) BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an epithet of विष्णु; फलकम्:F1: Vi. I. १५. ६७; २२. ७५; V. 5. २१; ३०. 1.फलकम्:/F God विष्णु who appeared in the dream of Brahmadatta and got him released from worldly life to one of Siddhas; फलकम्:F2: Br. IV. ३४. ८०; M. २१. २५; १००. १९; १६७. ४२.फलकम्:/F in the तारकामय; फलकम्:F3: M. १७४. ३५; २४५. ८१, ८५; २४६. ३५; २४७. २७.फलकम्:/F ety. from हृषीक (Indriya) and ईश; फलकम्:F4: M. २४८. ४४-45.फलकम्:/F in भद्राश्व. फलकम्:F5: वा. ३५. २३.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=हृषीकेश&oldid=441368" इत्यस्माद् प्रतिप्राप्तम्