हेमाद्रि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमाद्रिः, पुं, (हेममयोऽद्रिः ।) सुमेरुपर्व्वतः । इत्यमरः । १ । १ । ५२ ॥ क्षत्त्रियराजविशेषः ॥ स च चिन्तामणिकामधेनुकल्पद्रुमनामक- स्मृतिसंग्रहकारकः । यथा, -- “तस्यास्ति नाम हेमाद्रिः सर्व्वश्रीकरण- प्रभु निजोदारतया यश्च सर्व्वश्रीकरणप्रभुः ॥ अनेन चिन्तामणिकामधेनु- कल्पद्रुमानर्थिजनाय दत्तान् । विलोक्य शङ्के किममुष्य सर्व्व- गीर्व्वाणनाथोऽपि करप्रदोऽभूत् ॥ अथामुना धर्म्मकथादरिद्रं त्रैलोक्यमालोक्य कलेर्बलेन । तस्योपकारे दधतानुचिन्तां चिन्तामणिः प्रादुरकारि चारुः ॥ पञ्चखण्डात्मके शास्त्रे व्रतखण्डादनन्तरम् । दानखण्डमिदं तत्र द्वितीयमथ कथ्यते ॥” इति तत्कृतचतुर्व्वर्गचिन्तामणौ दानखण्डीय- श्लोकाः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमाद्रि पुं।

मेरुपर्वतः

समानार्थक:मेरु,सुमेरु,हेमाद्रि,रत्नसानु,सुरालय

1।1।49।2।3

मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका। मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमाद्रि¦ पु॰ हेममयोऽद्रिः।

१ सुमेरौ पर्वते अमरः। चतुर्वर्गचिन्तामणिमुक्ताफलादिग्रन्थकारके

२ विद्वद्भेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमाद्रि¦ m. (-द्रिः) The mountain Sume4ru. E. हेम gold, अद्रि mountain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेमाद्रि/ हेमा m. " -ggolden mountain " , मेरुor सुमेरुL.

हेमाद्रि/ हेमा m. N. of an author (son of काम-देव; he lived in the 13th century A.D. and wrote the encyclopaedical wk. चतुर्-वर्ग-चिन्तामणि, divided into 5 खण्डs , व्रत, दान, तीर्थ, मोक्ष, and परिशेष) Cat.

हेमाद्रि/ हेमा m. (with भट्ट)N. of the author of a Comm. on रघु-वंश

"https://sa.wiktionary.org/w/index.php?title=हेमाद्रि&oldid=275550" इत्यस्माद् प्रतिप्राप्तम्