हेरम्ब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेरम्बः, पुं, (हे रणे शिवसमीपे वा रम्बते इति । रवि शब्दे + पचाद्यच् ।) गणेशः । इत्यमरः । १ । १ । ४१ ॥ महिषः । शौर्य्यगर्व्वितः । इति मेदिनी ॥ बुद्धविशेषः । तत्पर्य्यायः । हेरुकः २ चक्रसम्बरः ३ देवः ४ वज्रकपाली ५ निशुम्भो ६ शशि- शेखरः ७ वज्रटीकः ८ । इति त्रिकाण्ड- शेषः ॥ * ॥ अथ हेरम्बमन्त्रः । स च ऊकार- युक्तो गकारः सबिन्दुः प्रणवादिनमोऽन्तश्चतु- रक्षरः । निबन्धे । “पञ्चान्तको बिन्दुयुक्तो वामकर्णविभूषितः । तारादिहृदयान्तोऽयं हेरम्बमनुरीरितः । चतुर्वर्णात्मको नॄणां चतुर्वर्गफलप्रदः ॥” अस्य पूजाप्रयोगः । प्रातःकृत्यादिपीठन्यासान्तं विधाय गणेशोक्तपीठशक्तीः पीठमनुञ्च विन्यस्य ऋष्यादिन्यासं कुर्य्यात् । अस्य गणक ऋषि- र्गायत्त्री च्छन्दो हेरम्बा देवता गकारो बीजं विन्दुः शक्तिश्चतुर्व्वर्गसिद्ध्यर्ये विनियोगः । शिरसि गणकऋषये नमः । इत्यादि । ततः कराङ्ग- न्यासौ । गां गीं गूं गं गौं गः इत्येतैः षडङ्गानि कुर्य्यात् । तथा च । “षड्दीर्घभाजा बीजेन षडङ्गानि प्रकल्पयेत् ॥” ततो ध्यानम् । “मुक्ताकाञ्चननीलकुन्दघुसृणच्छायैस्त्रिनेत्रा- न्वितै- र्नागास्यैर्हरिवाहनं शशिधरं हेरम्बमर्क- प्रभम् । दृप्तं दानमभीतिमोदकरदान् टङ्कं शिरोऽक्षा- त्मिकां मालां मुद्गरमङ्कुशं त्रिशिखकं दोर्भिर्दधानं भजे ॥” एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कुर्य्यात् । ततो गणेशोक्तपीठपूजान्तं कृत्वा ओ~ हु~ हु~ महासिंहाय गां हेरम्बासनाय नम इत्यासनं पूजयेत् । तथा च निबन्धे । “प्रणवं कवचद्वन्द्वं महासिंहाय गां ततः । हेरम्बेति पदं पश्चात् आसनाय हृदन्ततः ॥ अयमासनमन्त्रः स्यात् प्रदद्यदिमुनासनम् ॥” इति ॥ पीठन्यासोऽप्येवं मन्त्रः । तत ओ~ मं मन्त्रेण मूर्त्तिं संकल्पयेत् । तथा च निबन्धे । “तारादिविघ्नबीजेन मूर्त्तिं तस्य प्रकल्पयेत् ।” पुनर्ध्यात्वावाहनादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधाय आवरणपूजामारभेत् । यथा अग्न्यादि- कोणे मध्ये दिक्षु च गां हृदयाय नम इत्या- दिना पूजयेत् । तद्वहिरिन्द्रादीन् वज्रादोंश्च सपूज्य धपादिविसर्जनान्तं कर्म्म समापयेत् । अस्य पुरश्चरणं त्रिलक्षजपः । तथा च । “त्रिलक्षञ्च जपेन्मन्त्रं दशांशं जुहुयात्ततः ।” होमद्रव्यं यथा, “लक्षत्रयं जपेन्मन्त्रमिक्षुदण्डैर्दशांशतः । अपूपैराज्ययुक्तैर्व्वा जुहुयान्मन्त्रसिद्धये ॥” * ॥ मन्त्रान्तरम् । गं क्षिप्रप्रसादनःय हृत् । तथा च निबन्धे । “सम्बर्त्तको नेत्रयुतः पार्श्वो वह्न्यासने स्थितः । प्रसादनाय हृन्मन्त्रं स्वबीजाद्यो दशाक्षरः ॥” अस्य पूजा प्रातःकृत्यादिपीठन्यासान्तं कर्म्म विधाय ऋष्यादिन्यासं कुर्य्यात् । शिरसि गणक- ऋषये नमः । मुखे विराट्छन्दसे नमः । हृदि क्षिप्रप्रसादनाय देवतायै नमः । तथा च निबन्धे । “गणको मुनिराख्यातो विराट् छन्द उदी- रितम् । क्षिपप्रसादनो विघ्नो देवतास्य प्रकीर्त्तिता । दीर्घयुक्तेन बीजेन षडङ्गानि प्रकल्पयेत् ॥” एकाक्षरवत् कराङ्गन्यासौ कृत्वा ध्यायेत् । “पाशाङ्कुशौ कल्पलतां विषाणं दधत्स्वशुण्डाहितबीजपूरः । रक्तस्त्रिनेत्रस्तरुणेन्द्रमौलि- र्हारोज्ज्वलो हस्तिमुखोऽवताद्वः ॥” इति धात्वा मानसैः संपूज्य शङ्खस्थापनं कृत्वा पीठपूजां विधाय पुनर्ध्यात्वावाहनादिपञ्चषुष्पा- ञ्जलिदानपर्य्यन्तं विधाय आवरणपूजामारभेत् । अग्न्यादिषु गां हृदयाय नम इत्यादिना पूजयेत् । तथा च निबन्धे । “अङ्गानि पूर्व्वमभ्यर्च्च्य विघ्नानष्टौ यजेत्ततः । पत्राग्रे पूजयेदेता ब्राह्म्याद्यास्तदनन्तरम् ॥” पत्रेषु । “विघ्नं विनायकं शूरं वीरं वरदसंज्ञकम् । इभवक्त्रं चैकरदं लम्बोदरं प्रपूजयेत् ॥” पत्राग्रेषु ब्राह्म्याद्यास्तद्वहिरिन्द्रादीन् वज्रा- दींश्च पूजयेत् । ततो धूपादिविसर्जनान्तं कर्म्म समापयेत् । अस्य पुरश्चरणं लक्षजपः । तथा च । “लक्षं जपेज्जपस्यान्ते जुहुयादयुतं तिलैः । मधुरत्रितयैव्वापि द्रव्यैरष्टाभिरीरितैः ॥” इति कृष्णानन्दकृततन्त्रसारः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेरम्ब पुं।

गणेशः

समानार्थक:विनायक,विघ्नराज,द्वैमातुर,गणाधिप,एकदन्त,हेरम्ब,लम्बोदर,गजानन

1।1।38।2।2

विनायको विघ्नराजद्वैमातुरगणाधिपाः। अप्येकदन्तहेरम्बलम्बोदरगजाननाः॥

जनक : शिवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेरम्ब¦ m. (-म्बः)
1. GAN4E4S4A.
2. A buffalo.
3. A hero inflated with his own valour and prowess.
4. A Bud'dha or Baud'dha deity. E. हे calling or defying, रवि to sound, aff. अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेरम्बः [hērambḥ], [हे शिवे रम्बति रम्ब्-अच् अलुक् समा˚ Tv.]

N. of Gaṇeśa; जेता हेरम्बभृङ्गिप्रमुखगणचमूचक्रिणस्तारकारेः Mv. 2.17; हे हेरम्ब, किमम्ब, रोदिषि कथं, कर्णौ लुठत्यग्निभूः Subhāṣ.

A buffalo.

A boastful hero. -Comp. -जननी N. of Pārvatī (mother of Gaṇeśa).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेरम्ब n. N. of गणे-शMBh. Katha1s. etc. ( RTL. 218 )

हेरम्ब n. a buffalo Ma1lati1m

हेरम्ब n. a boastful hero L.

हेरम्ब n. a partic. बुद्ध(= हेरुक) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of विनायक. Br. III. ४२. 8.

"https://sa.wiktionary.org/w/index.php?title=हेरम्ब&oldid=506444" इत्यस्माद् प्रतिप्राप्तम्