विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ॡ दीर्घ ॡकारः । स तु दशमस्वरवर्णः । अस्यो- च्चारणस्थानं दन्तः । (यथा मुग्धबोधे । “ऌत्रयं तथदधनलसाः वो दन्त्याः” ।) स प्लुतश्च भवति । इति व्याकरणम् ॥ (उदात्तानुदात्तस्वरितभेदात् त्रिविधोऽपि प्रत्येकं पुनरनुनासिकानुनासिकभे- दात् षड्विधएव ।) “ॡकारं परमेशानि पूर्णचन्द्रसमप्रभम् । पञ्चदेवात्मकं वर्णं पञ्चप्राणात्मकं सदा ॥ गुणत्रयात्मकं वर्णं तथा विन्दुत्रयात्मकम् । चतुर्व्वर्गप्रदं देवि स्वयं परमकुण्डली” ॥ इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायां) अस्य लेखनप्रकारो यथा, -- “तत्क्रोडतुल्यरूपा च रेखा सा वैष्णवी स्मृता । तासु वन्द्याः सुरेशानि दुर्गा वाणी सरस्वता” ॥ इति वर्णोद्धारतन्त्रम् ॥ * ॥ तन्नामानि यथा, -- “ॡकारः कमला हर्षा हृषीकेशो मधुव्रतः । सूक्ष्मा कान्तिर्व्वामगण्डो रुद्रः कामोदरी सुरा ॥ शान्तिकृत् स्वस्तिका शक्रो मायावी लोलुपो वियत् । कुशमी सुस्थिरो माता नीलपीतो गजाननः ॥ कामिनी विश्वषा कालो नित्या शुद्धः शुचिः कृती । सूर्य्यो धैर्य्योत्कर्षिणी च एकाकी दनुजप्रसूः” ॥ इति तन्त्रशास्त्रम् ॥ (मातृकान्यासे वामगण्डे न्यस्यतया तन्नाम्नाप्यभिधानम् । मातृकान्यास- मन्त्रो यथा ॥ “ऌं नमो दक्षिणगण्डे ॡं नमो वामगण्डे” ॥ मुग्धबोधमते तन्त्रमते च ऌकारस्य दीर्घत्वमस्ति पाणिनिमते तु नास्ति । अत्रेदं ज्ञा- तव्यं ऌकारस्य दीर्घत्वाभावेऽपि “ऌति ॡवा” इति वार्त्तिकोक्तेः ॡकार एव तत्र विधेयः । तेन होतॣकार इत्यादौ ॡकारस्य व्यवहारः । मुग्ध- बोधेऽपि एतदनुसारेण एकमात्रद्विमात्रत्रिमा- त्रापेक्षा “ऌत्रयम्” इत्युक्तन्तेन न विरोधः ॥)

ॡ, व्य, देवनारी । नार्य्यात्मा । माता । इति मेदिनी ॥

ॡः, स्त्री, दैत्यस्त्री । इत्येकाक्षरकोषः ॥ दनुजमाता । कामधेनुमाता । इति कश्चिदेकाक्षरकोषः ॥

ॡः, पुं, सर्व्वः । महादेवः । इति कश्चिदेकाक्षरकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ ॡकारः कमलाकर्षी हृषीकेशोमधुव्रतः। सूक्ष्मा कान्ति-र्वामगण्डोरुद्रःकामोदरी शुभा। दशमी सुस्थिरोमातानीलपीतोगजाननः। कामिनी विश्वपः कालोनित्यशुद्धःशुचिः कृती। सूर्य्योधैर्य्याकर्षिणी च एकाक्षी दनुजप्रसूः”। एकारादीनां वाचका तत्तच्छब्दे उक्ता। एषामधिष्ठातृदेव-ताश्च तत्रैवोक्ता यथा
“अकारे भीषणा कीर्त्तिर्विद्युज्जि-ह्वेति कीर्त्तिता। आकारे तामसी कालजिह्वाग्रा काल-भैरवी। इकारे गजिनी चण्डा ज्ञेया रुद्रभयङ्करी। ईकारे सूचिनी ख्याता चण्डीग्रा धूम्रभैरवी। उकारेकालरक्ताख्या प्रचण्डा चण्डवल्लभा। विद्या ह्यूकारगाप्रोक्ता तालजङ्घा कपालिनी। ऋकारे कालिका देवीपितृकालो भयङ्करो। ऋकारे स्यान्महारीद्री ज्वालिनी यो-गिनीत्यपि। संहारिणी ऌकारे स्यान्मेघनादोग्रवासिनी। रुद्रचण्डा कालरात्री ॡकारे च कपालिनी”। एका-रादीनमधिष्ठातृदेवताश्च एकारादिशब्दानामादौ दर्शिताःअकारादीना ध्येयरूपञ्च कामधेनुतन्त्रे दर्शितं यथा

¦ ॡकारं परमेशानि! पूर्णचन्द्रसमप्रभम्। पञ्चदेवात्मकं वर्णंपञ्चप्राणात्मकं सदा। गुणत्रयात्मकं वर्णं तथा विन्दु-त्रयात्मकम्। चतुर्ब्बर्गप्रदं देवि! स्वयं परमकुण्डलीम्। एकारादीनां ध्येयरूपाण्येकारादिशब्देषु उक्तानि”। इति वाचस्पत्ये स्वरविभागादि। व्यञ्जनवर्ण्णविभागादि( व्यञ्जनवर्ण्णाः त्रिविधाः स्पर्शान्तस्थोष्मभदात् तत्र कादयोमावसानाः स्पर्शाः, यरलवा अन्तःस्था शषसहा ऊष्माणः।
“आत्मा बुद्ध्या समेत्यार्थान् मनोयुङ्क्ते विवक्षया। मनःकायाग्निमाहन्ति स प्रेरयति मारुतम्। सोदीर्ण्णोमूर्द्ध्न्य-भिहतो वक्त्रमापद्य मारुतः। वर्ण्णान् जनयते तेषां विभागःपञ्चधा मतः। स्वरतः कालतः स्थानात् प्रयत्नानुपदानतः” इति शिक्षोक्तेः सर्वेषां वर्ण्णाना प्राणवायुजन्यत्वम्। तथाहिचेतनेन ज्ञातार्थविवक्षया तद्बोधकशब्दनिष्पादनाय प्रे-रितमन्तःकरण मूलाधारस्थितमनलं चालयति तच्चालित-श्चानलस्तत्स्थलस्थानिलचालनाय प्रभवति तच्चालितेन[Page1599-b+ 38] चानिलेन तत्रैव सूक्ष्मरूपेणोत्पादितः शब्दः परा वा-गित्यभिधीयते। ततोनाभिदेशपर्य्यन्तं चलितेन तेन तद्द शसंयोगादुत्पादितः शब्दः पश्यन्तीति कीर्त्त्यते एतद्द्व-यस्य सूक्ष्मसूक्ष्मतरतया ईश्वरयोगिमात्रगम्यता नास्म-दीयश्रुतिगोचरता। ततस्तेनैव हृदयदेशं परिसरता हृ-दयसंयोगेन निष्पादितः शब्दो मध्येत्युच्यते सा चस्वकर्णपिधानेन ध्वन्यात्मकतया सूक्ष्मरूपेण कदाचिदस्मा-कमपि समधिगम्या। ततो मूर्द्धपर्य्यन्तमाक्रमता तेनआहत्य मूर्द्धानं तत्प्रतिघातेन ततः परावृत्य मुखविवरेकण्ठादितत्तत्स्थानेषु स्वाभिघातेनोत्पादितः शब्दोवैखरीत्युच्यते। इत्येवं वर्ण्णोत्पत्तिस्तेषाञ्च विभागः पञ्चधातद्यथा स्वरतः

१ उदात्तानुदात्तस्वरितभेदात् अचांत्रैविध्यम् तथाकालतोऽपि

२ त्रैविध्यम्
“उदात्तमनुदात्तञ्चस्वरितञ्च स्वरास्तथा। ह्रस्वोदीर्घः प्लुतश्चेति कालतोनियमा अचि” इत्युक्तेः अचामेव स्वरवत्त्वात्तथात्वम्कालस्तु उच्चारणकालभेदः स च यद्यपि अचामेवोक्तस्तथापि
“एकमात्रोभवेद् ह्रस्वोद्विमात्रोदीर्घ उच्यते। त्रिमात्रस्तुप्लुतोज्ञेयो यञ्जनञ्चार्द्धमात्रकम्” इत्युक्तेः व्यञ्जनाना-मप्यर्द्धमात्राकालेनोच्चार्य्यत्वात् कालकृतविभागोऽस्त्येव। मात्राकालस्तु
“दशगुर्वक्षरैः पाणःषड्भिः प्राणैर्विनाडिका” इत्युक्तेः विनाडिकायाः पलात्मिकायाः षष्टितमभागरूपका-लार्द्धभागो मात्रा
“द्विमात्रो दीर्घ उच्यते” इत्युक्तेः दीर्षस्यगुरुतया पलषष्टितमभागत्वात् तथा च

१५ पञ्चदशानु-पलात्मककालः अर्द्धमात्राकालः त्रिंशदनुपलात्मकः कालःएकमात्राकालः, विपलात्मकः कालः द्विमात्रकालःसार्द्धविफलात्मक कालः त्रिमात्रकालः। तत्तत्कालो-च्चार्य्यत्वात् वर्ण्णानां कालकृतविभागवत्त्वम्। इत्यास्तुविशेषः स्वराणामिव व्यञ्जनानां न ह्रस्वादिविभागःकिन्तु सर्वेषामर्द्धमात्रत्वमेवेति। स्थानतो(

३ )विभागोयथा
“कष्टौ स्थानानि वर्ण्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु चेति” सामा-न्यत उक्त्वा वर्णभेदेन स्थानविशेषः शिक्षायामुक्तः यथा
“हकारं पञ्चमैर्य्युक्तमन्तःस्थाभिश्च संयुतम्। औरस्यन्तंविजानीयात् कण्ठ्यमाहुरसंयुतम्। कण्ठ्यावहाविचुय-शास्तालव्या ओष्ठजावुपू। स्युर्मूर्द्धन्या ऋट्रषा हन्त्याऌतुलसाः स्मृताः। जिह्वामूले तु कुः प्रोक्तः दन्तोष्ठ्योवः स्मृतो वुधैः। ए ऐ तु कण्ठ्यतालव्यावोऔ कण्ठोष्ठजौ स्मृतौ। अर्द्धमात्रा तु कण्ठ्या स्यादेकारैकारयो[Page1600-a+ 38] र्भवेत्। ओकारौकारयोस्तद्वदिति”
“अनुस्वारयमानाञ्चनासिका स्थानमुच्यते। अयोगवाहा विज्ञेया आश्रय-स्थानभागिनः” इति च। यद्यपि सर्ब्बेषां वर्णानामुच्चारणेकण्ठव्यापार आवश्यकस्तथापि चकाराद्युच्चारणे ताल्वा-दिव्यापारोऽधिकोऽप्यपेक्षित इति तन्मात्रामात्रकृतत्वेनवर्णानां वैलक्षण्यम्।
“जिह्वामूले तु कुः प्रोक्तः” इतिपाणिनिशिक्षाभिधानात् कवर्गस्य कण्ठमूलीयत्वम् कण्ठ्य-त्वव्यवहारस्तु कण्ठशब्दस्य कण्ठमूलपरतया भाक्त एव तव-र्गस्य दन्तभूलीयत्वेऽपि दन्त्यत्ववत् अन्यथा भग्नदन्तस्य तद-नुच्चारापत्तेः। जिह्वामूलीयस्य आश्रयस्थानभागित्वेनोक्तेःतदाश्रयस्य कोरपि जिह्वामूलस्थानत्वौचित्यात्। दन्तो-ष्ठ्योवैत्यादाबुभयोरेव वकारस्थानत्वं नतु प्रत्येकस्थ तथासतिदन्त्यौष्ठ्यैत्येव परिशिक्ष्येत। अतस्तस्य दन्तौष्ठोभवकार्य्य-भाक्त्वम् एवमग्रेऽपि द्रष्टव्यम्। यमानां प्रातिशाख्यप्रसि-द्धानां कं खं गं घं इत्येषां यम्प्रत्त्याहारसंज्ञाबोधितानाञ्चनासिकापि स्थानमधिकमुपदिश्यते। तत्र च यमेत्युपलक्षणम्
“अमोऽनुनासिका नह्रौ” इत्युक्त्या हकाररकारभिन्नानाम्अम्प्रत्याहारबोधितानाम् नासिकास्थानत्वविधानात्नासामनुगतः स्थानत्वेनेत्यनुनासिक शब्दव्युत्पत्त्या नासि-कास्थानत्वप्राप्तेश्च। तत्र नह्राविति पुनः हकाररकारयोःपर्य्युदासः।
“मुखनासिकावचनोऽनुनासिकः” पा॰ सूत्रेमुखपदस्य कण्ठादितत्तत्स्थानपरतया यमानामुभयस्था-नत्वम्। अयोगवाहा अनुस्वाराः विसर्गाश्च जिह्वामूली-योपाध्मानीययोरपि विसर्गविशेषरूपत्वेनाश्रयस्थान भागि-त्वम्। आश्रयस्थानभागित्वञ्च यमाश्रित्यैते उच्चार्य्यन्तेतत्स्थानभागित्वमतः विसर्गस्य कखयोः परयोर्जिह्वामूलो-च्चार्य्यमाणयोराश्रयत्वेन तत्स्थानभागित्वात् जिह्वामूलीय-रूपान्वितनामता समुन्नेया। पफयोः परयोरोष्ठोच्चार्य्यमा-णायोराश्रयत्वेनोपाध्मानीयता। उश्च पश्च आध्मायेते अ-नेन स्थानेनेति व्युत्पत्तेः उपाध्मानशब्द ओष्ठवचनः। तत्स्थानोच्चार्य्यत्वादन्वितनामता चावधेया। अतएव कौ-मुद्यां
“जिहुमूलीयस्य जिह्वामूलमुपाध्मानीयस्योष्ठौ” इत्यु-क्तम्। यद्यपि सर्व्वेषां वर्णानामाकाशस्थानत्वं करण-त्वञ्च कण्ठादीनां तदुत्पत्तौ युक्तं तथापि तेषां स्थानत्व-व्यवहारः ताल्वादौ वर्णाभिव्यञ्जकवर्णजनकवायुसंयोगा-धारे वर्णाधारत्वारोपेण भाक्त एव। तत्तत्स्थानेषु जि-ह्वाग्रादिसम्बन्धेन वर्णोत्पत्त्या जिह्वाग्रादिस्थिते तत्-सम्बन्धजनकप्रयत्नविशेषे आभ्यन्तरप्रयत्नवाच्ये स्पृष्टता-[Page1600-b+ 38] दावेव करणत्वव्यवहारः इति मञ्जूषायां स्थितम्। प्रयत्नाः

४ आभ्यन्तरप्रयत्नाः अनुप्रदानानि

५ बाह्यप्रयत्नास्तरपि वर्ण्णानां विभागः। तत्र वर्ण्णभेदे प्रयत्नभेदादिकंबाह्याभ्यन्तरप्रयत्नस्वरूपनिरूपणपूर्व्वशं शब्दार्थरत्नेऽणा-भिर्निरूपितं यथाआभ्यन्तरप्रयत्नास्तु वर्णोत्पत्तेः प्राग्भाविनः, बाह्यास्तुतदुत्पत्तेः पश्चाद्भाविन इति विवेकः। तथा हि नाभि-देशात् प्रयत्नप्रेरितः प्राणवायुरूर्द्ध्वमाक्रमन्नुरःप्रभृतीनिस्थानान्याहत्य वर्णान् तदभिव्यञ्जकध्वनींश्च उत्पाद-यति तत्र वर्णोत्पत्तेः प्राक् जिह्वाग्रोपाग्रमध्यमूलानितत्तद्वर्णोत्पत्तिस्थानं ताल्वादिकं यदा सम्यक् स्पृशन्तितदा स्पृष्टता प्रयत्नः, यदा ईषत् स्पृशन्ति तदा ईषत्-स्पृष्टता, तेषां समीपावस्थाने संवृतता, दूरावस्थाने विवृतताइत्येवनाभ्यन्तरप्रयत्नभेदैः वर्णानां भेदाः। अतएवइचवर्गयशानां तालव्यत्वाविशेषेऽपि चवर्गोच्चारणे कर्त्तव्येतालुस्थाने जिह्वाग्रादीनां सम्यक्स्पर्शः, यकारो-च्चारणे तु ईषत्स्पर्शः, शकारोच्चारणे समीपावस्थानम् इव-र्ण्णोच्चारणे दूरावस्थानमिति भेदः। एतेषां चाभ्यन्तरत्वम्ओष्ठप्रभृतिकाकलीध्वनिजनककाकलस्थानपर्य्यन्तरूपास्या-न्तर्गततत्तत्स्थानेषु जिह्वाग्रादीनां प्रागुक्तस्पर्शादिचतुष्टय-रूपाभ्यन्तरकार्य्यकारित्वात् वर्णोत्पत्त्यव्यवहितप्राग्भावि-त्वाच्च बोध्यम्। विवारसंवारौ तु गलबिलस्य विकाशावि-काशात्मकौ बाह्यौ प्रयत्नौ विवृतसंवृताभ्यां भिन्नायेवतयोः समीपदूरावस्थानात्मकत्वादिति विवेक्तव्यम्। अथ वर्ण्णभेदेनाभ्यन्तरप्रयत्नभेदस्तावदभिधीयते। तत्र का-दिमावसानानां स्पृष्टता, अतएव तेषां सम्यक्स्पर्श-वत्त्वेन स्पर्शपदवाच्यता। यणः ईषत्स्पृष्टता। तेषा-ञ्च स्पृष्टविवृतयोर्म्मध्यस्थितत्वेन लौकिकव्यवहारेष्वपिशषसहानां वर्ग्याणाञ्च मध्यस्थितत्वेन चान्तःस्थाशब्द-वाचाता। शसषहानाम् अचाञ्च विवृतता। शषसहानाञ्चऊष्मशब्दाभिधेयवायुप्रधानत्वात् ऊष्मशब्दवाच्यता। अचाञ्चस्वयंराजमानत्वात् उदात्तादिस्वरवत्त्वाच्च स्वराभिधेयता
“अचः स्वयं विराजन्ते” इत्युक्तेः
“उदात्तमनुदात्तञ्चस्वरितञ्च स्वरास्त्रयः। ह्रस्वोदीर्घः प्लुतश्चेति कालतो नि-यमा अचि” इति चोक्तेः। तत्र ह्रस्वस्य संवृतता।
“संवृतंत्वेकमात्रंस्यात् विवृतन्तु द्विमात्रकम्” इत्युक्तेः ह्रस्वस्यैक-मात्रतया प्रयोगे संवृतता प्रक्रियायान्तु विवृततैव। तत्रमूलं
“अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शतस्तथा। [Page1601-a+ 38] शेषाः स्पृष्टा हलः प्रोक्ता” इति शिक्षावाक्यमेव वोध्यम्। अत्राचः स्पर्शाभावरूपविवृतत्ववन्तः यणः यरलवास्त्वीषत्पृष्टा इत्यर्थः नेमैत्यर्द्धवाची। शलः शषसहा नेमस्पृष्टाअर्द्धस्पृष्टा अर्थादर्द्धविवृताः
“स्वराणामूष्मणाञ्चैव विवृतंकरणं स्मृतम्” इत्येकवाक्यत्वात्। एते च स्थानप्रयत्नाःसवर्णसंज्ञायामुपयुक्ताः। बाह्यप्रयत्नास्तु आन्तरतम्यपरी-क्षायामेवोपयोगिनैति
“तुल्यास्यप्रयत्नं सवर्णमिति” पा॰सूत्रभाष्यादौ स्पष्टम्। तेन तकारस्थाने विवारश्वासघो-षाल्पप्राणरूपबाह्यप्रयत्नसाम्येन चकारटकारादेश इति
“स्थानेऽन्तरतमः” इति सूत्रभाष्ये स्पष्टम् बहुसमान-धर्म्मत्वमेवान्तरतम्ये हेतुरिति बोध्यम्। बाह्याः प्रयत्नाश्चाष्टविधाः काकलकाधास्थलगलबिलसङ्कोचविकाशश्वासोत्पादकध्वनिविशेषघोषाल्पघोषप्राणा-ल्पचमहत्त्वरूपकार्य्यकरा यथाक्रमं विवारसंवारश्वास-नादघोषाघोषाल्पप्राणमहाप्राणनामानो मन्तव्याः। प्रयत्नप्रेरितो बायुर्व्वर्णानभिव्यञ्ज्य यत्नविशेषेण गलबिल-विकाशादीनपि सम्पादयति अतो गलबिलविकाशादि-करत्वादास्यवहिर्द्देशकार्य्यकरत्वात् चैते बाह्या इति। ते च
“खयां यमाः खयः + कं पौ विसर्गः शरएव च। एतेश्वासानुप्रदाना अघोघाश्च बिवृण्वते। कण्टम्, अन्येतु घोषाः स्युः संवारा नादमागिनः। अयुग्मा वर्गयम-गायणश्चाल्पासवः स्मृताः” इतिसिद्धान्तकौमुद्युक्तदिशाव-सेयाः। खयां स्थाने जाता ये यमाः कं खं गं घं इत्येतेप्रातिशाख्यप्रसिद्धाः स्वयः, जिह्वामूलोयोपध्मानीयविसर्गाःशरः शषसाश्च एते श्वासा अघोषाः कण्ठं विवृण्वत च। अन्ये एतद्भिन्नाः सर्वेवर्णा घोषसंवारनादरूपबाह्यप्रयत्न-वन्तः। वर्गीयप्रथमतृतीयपञ्चमवर्णाः पूर्व्वोक्ताः प्रथम-तृतीयवर्गजातयमाश्च यणः यरलवाः एते अल्पप्राणा-स्तद्भिकाः सर्व्वे महाप्राणाः इति विवेकः। तदेवं परस्परविभाजकैर्बाह्याभ्यन्तरप्रयत्नैः स्वरकाल-विशेषैर्वर्ण्णानां परस्परविलक्षणरूपता। प्रासद्धा हि वर्ण्णाःपुरस्कृत्यैव कञ्चिद्विशेषम् विलक्षणतामासादयन्ति तत्रवर्ण्णविभाजकानि सूचोपत्रे दृश्यानिताव्यादौ विन्यस्तवर्ण्णानां फलमुक्तं वृत्तरत्ना॰ टी॰ यथागणप्रसङ्गेनाक्षरशुद्धिरप्यभिधीयते
“अक्षरे परिश्रुद्धे चनायको भूतिमृच्छात इत्युक्तेरक्षरश्रुर्द्धेरावश्यकत्वात्।
“अवणात् सस्पत्तिर्भवति शमिवर्णाद्धनशतान्युवर्णाद-ख्यातिः, सरभसमृवर्णात् वराहतात्। तथाह्येचः सौख्यं[Page1601-b+ 35] ङ्ञणरहितादक्षरगणात् पदादौ विन्यासात् भरबह-लपूर्बैर्विरहितात्”। भरबहलास्तत्पूर्वाणि यान्यचराणि तैर्विरहितादित्यर्थः। हल्वर्णानां फलान्युक्तानि-तत्रैव।
“कः खो गो घश्च लक्ष्मीं वितरति, वियशोङ,स्तथा चः सुखं छः प्रीतिं, जोमित्रलाभं, भयमरण-करौ झ्ञो, टठौ खेददुःखे,। डः शोभां, ढो विशोभां,भ्रमणमथ च णस्तस्तु ख, थस्तु युद्धं, दो, धः, सौख्यं,मुदं, नः, सुखभयमरणक्लेशदुःखं पवर्गः। या लक्ष्मीं,रस्तु दाहं, व्यसनमथ लवौ शः सुखं, षस्तु खेदं, सः-सौख्यं, हस्तु खेदं, विलयमपि च लः, क्षः समृद्धिंकरोति। संयुक्तं चेह न स्यात् सुखभरणपटुर्वर्णविन्या-सयोगं पद्यादौ, गद्यवक्त्रे, वचसि च सकले, प्राकृतादौस-मोऽयम्”। एतेषां फलाधारनिरूपणमपि तत्रैव
“नायकोवर्ण्यते यत्र फलं तस्य समादिशेत्। अन्यथा तु कृतेकाव्ये कवेर्दोषावहं फलम्”। तस्य प्रतिप्रसवोऽप्युक्तः।
“देवता वर्ण्यते यत्र क्वापि काव्ये कवीश्वरैः। मित्रामित्र-विचारा वा न तत्र फलकल्पना। देवतावाचकाः शब्दा येच भद्रादिवाचकाः”। इति वाचस्पत्ये व्यञ्जनवर्णविभागादि। कव्यञ्जनवर्ण्णभेदः ककारः कण्ठ्यः अर्द्धमात्रः। तस्य तन्त्रेवाचकाः शब्दा वर्ण्णाभिधाने उक्ता यथा।
“कः क्रोधीशो महाकाली कामदेवःप्रकाशकः। कपाली तेजसःशान्तिर्वासुदेवोजयानलः। चक्री प्रजापतिः सृष्टिर्दक्ष-स्कन्धो विशार्म्पातः। अनन्तः पार्थिवोविन्दुस्तापिनी पर-मात्मकः। वर्गाद्यश्च मुखी ब्रह्मा वर्णाद्योऽम्भःशिवोज-लम्। माहेश्वरो तुला पुष्पं मङ्गलश्चरणं करः। निव्या-कामेश्वरी मुख्यः कामरूपो गजेन्द्रकः। श्रीपुरंरमणो-रङ्ग कुसुमा परमार्थकः”।

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ॡ the tenth vowel of the alphabet (the corresponding long vowel to ऌ, entirely artificial and only appearing in the works of some grammarians and lexicographers).

ॡ m. शिवL.

ॡ f. the mother of the cow of plenty

ॡ f. the mother of the दानवs

ॡ f. wife of a दैत्य

ॡ f. mother

ॡ f. divine female

ॡ f. female nature.

"https://sa.wiktionary.org/w/index.php?title=ॡ&oldid=506469" इत्यस्माद् पुनः प्राप्तिः