सामग्री पर जाएँ

इक्षु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुः, पुं, (इष्यतेऽभिलष्यतेऽसौ इति । इष् + क्सु ।) स्वनामख्याततृणं । आक् इति भाषा । तत्पर्य्यायः । रसालः २ । इत्यमरः ॥ कर्कोटकः ३ वंशः ४ कान्तारः ५ सुकुमारकः ६ अधिपत्रः ७ मधुतृणः ८ वृष्यः ९ गुडतृणः १० । इति राजनिर्घण्टः ॥ मृत्युपुष्पः ११ महारसः १२ असिपत्रः १३ को- शकारः १४ इक्षवः १५ । इति शन्दरत्नावली ॥ पयोधरः १६ । इति जटाधरः ॥ * ॥ तस्य भेदाः । वंशकः १ कान्तारः २ भीरुः ३ पौण्ड्रः ४ । इति रत्नमाला ॥ सामान्येक्षुगुणाः । रक्तपित्तनाशित्वं । बलशुक्रकफकारित्वं । पाके मधुरत्वं । स्निग्धत्वं । गुरुत्वं । शीतलत्वं । मूत्रशुद्धिकारित्वञ्च । तस्य मूले अतिमधुरत्वं । मध्ये मधरत्वं । ग्रन्थित्वज- ग्रभागेष लवणरसत्वञ्च । इति राजवल्लभः ॥ मूलादूर्द्ध्व मधुरत्वं । मध्ये अतिमधुरत्वं । अग्र क्रमाल्लवणत्वं नीरसत्वञ्च ॥ अभुक्ते इक्षुभक्षणगुणः । पित्तदातृत्वं । भुक्ते वातप्रकोपणत्वं । भुक्तिमध्ये गुरुतरत्वश्च ॥ इति राजनिर्घण्टः ॥ दन्तनिष्पी- डितेक्षुरसगुणाः । हिमत्वं । शुक्रकारित्वं । तृप्ति जनकत्वम् । जीवनहितकारित्वम् । वायुरक्तपित्त नाशित्वं । स्वादुत्वं । स्निग्धत्वं । प्रीतिदातृत्वं । रक्त- वर्द्धकत्वं । मुखप्रह्लादकारित्वं । धातुवर्द्धकत्वञ्च । इति राजवल्लभः ॥ अपि च । रक्तदोषभ्रमशमन- सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः” ॥ “वृष्यः शीतः स्थिरः स्निग्धो वृंहणो मधुरो रसः । श्लेष्मणो भक्षितस्येक्षोर्यान्त्रिकस्तु विदह्यते ॥ शैत्यात् प्रसादान्माधुर्य्यात् पौण्ड्रकाद्वंशको वरः” । इति चरकः ॥ तथा च सुश्रुते ॥ “इक्षवो मधुरा विपाका गुरवः शीताः स्निग्ध- बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः कृमिकफ- कराश्चेति ते चानेकविधाः । तद्यथा, -- “पौण्ड्रको भ्रीरुकश्चैव वंशकः शतपोरकः । कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ॥ नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् । इत्येता जातयः स्थौल्याद्गुणान् वक्ष्याम्यतः परम् ॥ सुशीतो मधुरः स्निग्धो वृंहणः श्लेष्मणः सरः । अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तथा ॥ आभ्यां तुल्यगुणः किञ्चित्सक्षारोवंशको मतः । वंशवच्छतपोरस्तु किञ्चिदुष्णः स वातहा ॥ कान्तारतापसाविक्षू वंशकानुगुणौ मतौ । एवंगुणस्तु काष्ठेक्षु; स तु वातप्रकोपणः ॥ सूचीपत्रो नीलपोरो नैपालो दीर्घपत्रकः । वातलाः कफपित्तघ्नाः सकषाया विदाहिनः ॥ कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः । अतीवमधुरो मूले मध्ये मधुर एव तु ॥ अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणो रसः । अविदाही कफकरो वातपित्तनिवारणः ॥ वक्त्रप्रह्लादनो वृष्यो दन्तनिष्पीडितो रसः । गुरुर्विदाही विष्टम्भी यान्त्रिकस्तु प्रकीर्त्तितः ॥ पक्वो गुरुः सरः स्निग्धः सुतीक्ष्णः कफवातनुत्” ॥) कोकिलाक्षवृक्षः । इति राजनिर्घण्टः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षु पुं।

इक्षुः

समानार्थक:रसाल,इक्षु

2।4।163।2।2

इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः। रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः॥

अवयव : इक्षुमूलम्

 : इक्षुभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षु¦ पु॰ इष्यतेऽसौ माधुर्य्यात् इष + क्मु। मधुररसयुते असि-पत्रे स्वनामख्याते वृक्षे। तद्भेदगुणादिकमुक्तंभावप्र॰। इक्षुर्दीर्घच्छदः प्रोक्तस्तथा भूमिरसोऽपि च। गुडमूलोऽसि-पत्रश्च तथामधुतृणः स्मृतः। इक्षवोरक्तपित्तघ्राबल्यावृष्याःकफप्रदाः। स्वादुपाकरसाः स्निग्धागुरवोमूत्रला हिमाः। अथेक्षुभेदाः
“पौण्ड्रकोभीरुकश्चापि बंशकः शतपोरकः। कान्तारस्तापसेक्ष्वश्च काण्डेक्षुः सूचिपत्रकः। नैपालोदीर्घप-त्रश्च नीलपोरोऽथ कोशकृत्। इत्येताजातयस्तेषां कथयामिगुणानपि। तत्र पौण्ड्रक्रभीरुकयोर्गुणाः वातपित्तप्रशमनोमधुरोरसपाकयोः। सुशीतोवृंहणोबल्यः पौण्ड्रकोभीरुकस्तथाअथ (कुशिया) कोशकतोगुणाः
“कोशकारो गुरुःशीतोरक्तपित्तक्षयापहः। अथ (काजला) कान्तारेक्षु गुणाः कान्तारे-क्षुर्गुरुर्वृष्पः श्लेष्मलोवृंहणः सरः। (वडौखा) वंशकगुणाः
“दीर्घपोरः सुकठिनः सक्षारो वंशकःस्मृतः। शतपोरकगुणाः
“शतपर्वाभबेत्किञ्चित्कोशकारगुणान्वितः। विशेषाक्तिं-[Page0909-b+ 38] चिद्रूक्षश्च सक्षारःपवनापहः” सुश्रुते तु काण्डेक्षु रित्यत्रकाष्ठेक्षुरिति पाठः इतोऽवशिष्टानां गुणास्तत्रोक्ता यथा
“कान्तारतापसाविक्षूवंशकानुकरौ गुणे। एवंगुणस्तुकाष्ठेक्षुःस तु वातप्रकोपणः। सूचीपत्रो नीलपोरो नैपालोदीर्घपत्रकः। वातलाःकफपित्तघ्नाः सकषाया विदाहिनः” भाव॰ प्र॰
“बालयुववृद्धेक्षुगुणाः बालैक्षुः कफं कुर्या-न्मेदोमेहकरश्च सः। युवा तु वातहृत्स्वादुरीषत्तीक्ष्णश्चवातनुत्। रक्तपित्तहरोवृद्धः क्षतहृद्बलवीर्यकृत्। अथा-ङ्गभेदेन गुणभेदः मूले तु मधुरोऽत्थर्थं मध्येऽपि मधुरःस्मृतः। अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणोरसः। अथ दन्तपीडितेक्षुरसस्य गुणाः दन्तनिष्पीडितस्येक्षोरसः पि-त्तास्रनाशनः। शर्करासमवीर्य्यःस्यादतिदाही कफप्रदः। अथयन्त्रपीडितेक्षुरस गुणाः मूलाग्रजन्तुग्रन्थ्यादिपीडनान्मल-सङ्गरात्। तस्माद्विदाही विष्टम्भी गुरुः स्याद्यान्त्रिकोरसः। अथ पर्य्युषितेक्षुरसगुणाः रसः पर्युषितोनेष्टोह्यम्लोवातापहो-गुरुर्विकफपित्तकरः शोषी भेदनश्चातिभूत्रलः। अथपक्वस्ये-क्षुरसस्य गुणाः इक्षोर्विकारास्तृड्दाहमूर्छापित्तास्रनाशनाः। गुरवोमधुरा बल्याः स्निग्धा वातहराःस्मृताः। वृष्यामोह-हराःख्याता वृंहणाविषहारिणः। अथ (झोला) फाणितस्यलक्षणंगुणाश्च इक्षोरसस्तु यः पक्वः किञ्चिद्गाढो बहुद्रवः। सएवेक्षुविकारेषु ख्यातःफाणितसंज्ञया। फाणितं गुर्वभि-ष्यन्दि वृंहणं कफशुक्रकृत्। वातपित्तश्रमान् हन्ति मूत्र-वस्तिविशोधनम्। अथ मत्स्यण्ड्याः (सारगुड) (राव) इतिख्याताया लक्षणं गुणाश्च इक्षोरसोयः संपक्वोघनः किंचि-द्द्रवान्वितः। मन्थवत्स्यन्दते यस्मात् मत्स्यण्डीति ततःस्मृता। मत्स्यण्डी भेदिनी बल्या लघ्वी पित्तानिलापहा। मधुरा वृंहणी वृष्या रक्तदोषापहा स्मृता। अथ(ढिमे गुड) गुडस्य लक्षणं गुणाश्च इक्षोरसोयःसम्पक्वोजायतेलोष्टवद्दृढः। स गुडोगौडदेशे तुमत्स्यण्ड्येव गुडोमतः। गुडोवृष्योगुरुः स्निग्धोवातघ्नोमूत्रशोघनः। नातिपित्तहरो मेदःकफक्रमिबलप्रदः। अथ नवपुराणगुडगुणाः गुडोनवः कफश्वासकास-क्रमिहरोऽग्निकृत्। पित्तघ्नो मधुरः स्निग्धो वातघ्नो-ऽसृक्प्रसादनः स पुराणोऽधिकगुणो बुधैः पय्यतमस्मृतः” द्रव्यभेदेन युक्तस्य गुडस्य गुणाः श्लेष्माणमाशुविनिहन्ति सदार्द्रकेण पित्तं निहन्ति च तदेव हरीत-कीभिः। शुण्ठ्या समं हरति वातमशेषमित्थ दोषत्र-यक्षयकराय नमो गुडाय” (खांड) खण्डस्य गुणाः[Page0910-a+ 38] खण्डन्तु मधुरं वृष्यं चक्षुष्यं वृंहणंहिमम्। वातपित्तहरंस्निग्धं बल्यं वातहरं परम्। (चिनि) सितायाःलक्षणं गुणाश्च खण्डन्तु सिकतारूपं सुश्वेतं शर्करासिता। सिता सुमधुरा रुच्या वातपित्तास्रदाहहृत्। सूर्च्छाच्छर्दिज्वरान् हन्ति सुशीता शुक्रकारिणी। अथ
“(मिचरि) सितोपलगुणाः भवेत् पुष्पसिता शीतारक्तपित्तहरी मता। सितोपलनिभा लघ्वी वातपित्तहराहिमा। शर्करा छर्द्यतीसारतृड्दाहरक्तपित्तनुत्। यथा यथैव नैर्मल्यं मधुरत्वं तथा तथा। स्नेहगौरव-शैत्यानि सरत्वं च तथा तथा” इति भावप्र॰ इक्षुवर्गः। एतत्प्रसङ्गात् सुश्रुते खण्डादिजातद्रव्याणामन्यद्रव्यजातशर्क-राणाञ्च गुणा उक्ता यथा।
“यो यो मत्स्यण्डिकाखण्ड-शर्कराणां स्वको गुणः। तेन तेर्नव निर्देश्यास्तेषां विस्रा-वणे गुणाः। सारस्थिता सुविमला निःक्षारा च यथा-यथा। तथा तथा गुणवती विज्ञेया शर्करा बुधैः। मधु-शर्करा पुनश्छर्द्यतीसारहरी रूक्षा छेदनी प्रह्लादनी कषायमधुरा मधुरविपाका च। यवासशर्करा मधुरकषायातिक्तानुरसा श्लेष्महरी सरा चेति। यावत्यः शर्कराःप्रोक्ताः सर्वा दाहप्रणाशनाः। रक्तपित्तप्रशमनाश्छर्दिसू-र्च्छातृषापहाः। रूक्षं मधूकपुष्पोत्थं फाणितं वातपित्त-कृत्। कफघ्नं मधुरं पाके कषायं वस्तिदूषणम्”
“मन्दाक्रान्ता वितरति रसं नेक्षुयष्टिः कदाऽपिछन्दो॰। श्रीफलञ्चेक्षुदण्डश्च विप्राणां तु बलिर्मतः” कालिकापु॰
“कुष्माण्डमिक्षुदण्डांश्च” देवी पु॰ इक्षी-र्विकारः अण्। ऐक्षव गुडादौ त्रि॰।
“ऐक्षव गुड-वर्जितम्” स्मृतिः। इक्षूणां भवनं क्षेत्रं शाकटच् शाक-नच् च वा तद्भवने क्षेत्रे। इक्षूणां छाया। इक्षु-च्छायम् न॰
“इक्षुच्छायानिषादिन्य” रघुः अत्रआनिषादिन्य इतिच्छेदः सि॰ कौ॰ इक्षूणां वनम्। अवन-स्पतित्वात् नित्यं णत्वम् इक्षुवणम्।

२ कोफिलावृक्षे चराजनि॰।

३ इच्छायाम्

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षु¦ m. (-क्षुः) The sugar-cane. E. इष् to desire, and क्सु affix or ईक्ष् to see, असुन् affix and ई made short.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुः [ikṣuḥ], [इष्यते$सौ माधुर्यात्, इष्-क्सु Uṇ.3.157]

Sugarcane; परि त्वा परितत्नुनेक्षुणागामविद्विषे Av.1.34.5.

N. of another tree कोफिला.

Wish, desire. -Comp. -कन्दा A pumpion gourd, Cucurbita Pepo. (Mar. कोहाळें).-काण्डः, -ण्डम् N. of two different species of sugarcane (काश and मुञ्जतृण). -कान्तः A class of the six storeyed buildings (Mānasāra 24.55). -कुट्टकः a gatherer of sugar-cane. -गन्धः Saccharum Spontaneum (Mar. लघु- गोखरू). -गन्धिका Convolvulus paniculatus (भूमिकूष्माण्ड).-ज a. produced from sugar-cane. -तुल्या = अनिक्षुः.-दण्डः, -यष्टिः f. the stem or cane of Saccharum Officinale. -दर्भा a kind of grass. -दा N. of a river.

नेत्रम् a kind of sugar-cane.

the eye of sugarcane. (Mar. पेरावरील डोळा). -पत्रः a kind of grain (Mar. जोंधळे). -पाकः molasses. -प्रः N. of a tree (शरवृक्ष). -बालिका a kind of grass (काश).

भक्षिका a meal of sugar and molasses.

A machine for crushing sugarcane. -भक्षिती a woman who eats a sugar-cane. -मती, -मालिनी, मालवी N. of a river.-मूलम् the root of sugar-cane; a kind of sugar-cane.-मेहः diabetes or diabetes mellitus (cf. मधुमेह).-मेहिन् a. diabetic. -यन्त्रम् a sugar-mill. -योनिः [इक्षोरिव योनिः यस्य] Saccharum Officinarum (पुण्ड्रकइक्षु).

रसः the juice of sugar-cane.

molasses, unrefined sugar.

a kind of काश grass; -रसोदः One of the seas. ˚क्वाथः raw or unrefined sugar, molasses. -वणम् a sugar-cane wood. -वल्लरी, -वल्ली the common yellow cane. -वारि n., -समुद्रः the sea of syrup, one of the seven seas. -वालिका (also इक्ष्वालिका) [इक्षुरिव वलति वल्- ण्वुल्]

N. of a tree (Mar. तालिमखाना.).

the काश grass.

वाटिका, वाटी a kind of sugar-cane (पुण्ड्रक).

a garden of sugar-canes.

विकारः sugar, molasses.

any sweetmeat. -शाकटम्, -शाकिनम् a field fit for planting the sugar-cane. -सारः molasses, raw or unrefined sugar.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षु m. (2. इष्Un2. iii , 157 ), the sugar-cane AV. i , 34 , 5 Kaus3. A1s3vGr2. Mn. etc.

इक्षु m. (twelve species of it are enumerated Sus3r. )

इक्षु m. the stem of the sugar-cane Mn.

इक्षु m. eyelash VS. TS. etc.

इक्षु m. N. of a king VP.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a tree peculiar to हरिवर्ष. Br. II. १७. 7.
(II) (क्रतु)--a R. of शाकद्वीप, from the side of the Himalayas. Br. II. १९. ९६; M. १२२. ३२; वा. ४९. ९३; Vi. II. 4. ६५.
(III)--one of the seven oceans; see इक्षुरसोदा। Br. IV. ३१. १८; M. 2. ३४.
(IV)--a R. from the side of the हिमालयस्, in the भारतवर्ष. M. ११४. २२; वा. ४५. ९६.
(V)--a R. joining the नर्मदा; very holy. A bath here makes one lord of a देवगण. M. १९१. ४९-50.

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ikṣu, the generic name for the sugar-cane, is first found in the Atharvaveda[] and the later Saṃhitās.[] Whether it grew wild, or was cultivated, does not appear from the references.

  1. i. 34, 5.
  2. Maitrāyaṇī Saṃhitā, iii. 7, 9;
    iv. 2, 9 (ikṣu-kāṇḍa). In Vājasaneyi Saṃhitā, xxv. 1;
    Taittirīya Saṃhiṭā, vii. 3, 16, 1;
    Kāṭhaka Aśvamedha, in. 8, ‘eyelash’ is meant. Cf. Zimmer, Altindisches Leben, 72;
    Roth, St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=इक्षु&oldid=491672" इत्यस्माद् प्रतिप्राप्तम्