सामग्री पर जाएँ

तृष्णा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्णा, स्त्री, (तृष + “तृषिशुषिरादिभ्यः कित् ।” उणां ३ । १२ । इति नः स च कित् ।) अना- त्मीयस्वीकारेच्छा । इति चण्डीटीकायां नागोजी- भट्टः ॥ सा लिप्सा । (यथा, रघुः । ८ । २ । “तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ॥”) पानेच्छा । इति मेदिनी । णे, १६ ॥ तत्- पर्य्यायः । उदन्या २ पिपासा ३ तृट् ४ तर्षः ५ इत्यमरः । ३ । ३ । ५१ ॥ तृषा ६ । इति शब्द- रत्नावली ॥ तर्पणम् ७ । इति जटाधरः ॥ * ॥ रोगविशेषः । तन्निदानं यथा, -- “वातात् पित्तात् कफात् तृष्णा सन्निपातात् द्रवक्षयात् । षष्ठी स्यादुपसर्गाच्च वातपित्ते तु कारणम् ॥ सर्व्वासु तत् प्रकोपो हि सौम्यधातुप्रशोषणात् । सर्व्वदेहे भ्रमात् कम्पतापकृद्दाहमोहकृत् ॥ जिह्वामूलगलक्लोमतालुतोयवहाः शिराः । संशोष्य तृष्णा जायन्ते तासां सामान्यलक्ष- णम् ॥ * ॥ मुखशोषो जलातृप्तिरन्नद्वेषः स्वरक्षयः । कण्ठोष्ठजिह्वाकार्क्कश्यं जिह्वानिष्क्रमणं क्लमः । प्रलापश्चित्तविभ्रंशो मृद्ग्रहोक्तास्तथामयाः । मरुतः क्षामता दैन्यं शङ्खतोदः शिरोभ्रमः ॥ गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः । शीताम्बुफेनवृद्धिश्च पित्तान्मूर्च्छास्यतिक्तता ॥ रक्तेक्षणत्वं सततं शोषो दाहोऽतिधूमकः । कफं रुणद्धि कुपितस्तोयवाहिषु मारुतः ॥ स्रोतःसु स कफस्तेन पङ्कवच्छोष्यते ततः । शूकैरिवाचितः कण्ठो निद्रामधुरवक्त्रता ॥ आत्मनः शिरसो जाड्यं स्तैमित्यच्छर्द्द्यरोचका । आलस्यमविपाकश्च यः स स्यात् सर्व्वलक्षणः ॥ आमोद्भवा च भक्ष्यस्य संरोधाद्बातपित्तजा । उष्णक्रान्तस्य सहसा शीताम्भो भजतस्तृषा ॥ तृष्णा वोर्द्ध्वं गतं कोष्ठं कुर्य्यात् पित्तरुजैव सा । या च पानातिपानोत्था तीक्ष्णाग्नेः स्नेह- पाकजा ॥ स्निग्धकट्वम्ललवणभोजनेन कफोद्भवा । तृष्णारसक्षयोक्तेन लक्षणेन क्षयात्मिका ॥ शोषमोहज्वराद्यस्य दीर्घरोगोपसर्गतः । यातृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता ॥” इति गारुडे तृष्णानिदानम् १५९ अध्यायः ॥ * ॥ कपित्थं कोलमम्लीका कुष्माण्डकमुपोदिका । खर्ज्जरं दाडिमं धात्री कर्कटी नलदाम्बु च ॥ जम्बीरं करमर्द्दञ्च वीजपूरं गवां पयः । मधूकपुष्पं ह्रीवेरं तिक्तानि मधुराणि च ॥ बालतालाम्बु शीताम्बु पयः पेटीप्रपानकम् । माक्षिकं सरसां तोयं शताह्वा नागकेशरम् । एलाजातीफलं पथ्या कुस्तुम्बुरु च टङ्गणम् । घनसारो गन्धसारः कौमुदी शिशिरानिलः चन्दनार्द्रप्रियाश्लेषो रत्नाभरणधारणम् । हिमानुलेपनञ्च स्यात् पथ्यमेतत्तृषातुरे ॥” अपथ्यानि यथा, -- “स्नेहाञ्जनस्वेदनधूमपान- व्यायामनस्यातपदन्तकाष्ठम् । गुर्व्वन्नमम्लं लवणं कषायं कटु स्त्रियं दुष्टजलानि तीक्ष्णम् ॥ एतानि सर्व्वाणि हिताभिलाषी तृष्णातुरो नैव भजेत् कदाचित् ॥” इति वैद्यकपथ्यापथ्यविधिग्रन्थे तृष्णाधिकारे ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्णा स्त्री।

स्पृहा

समानार्थक:दोहद,इच्छा,काङ्क्षा,स्पृहा,ईहा,तृष्,वाञ्छा,लिप्सा,मनोरथ,काम,अभिलाष,तर्ष,भग,रुचि,तृष्णा,श्रद्धा,प्रतियत्न,छन्दस्

3।3।51।2।1

त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः। तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

तृष्णा स्त्री।

पिपासा

समानार्थक:उदन्या,पिपासा,तृष्,तर्ष,तृष्णा

3।3।51।2।1

त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः। तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्णा¦ स्त्री॰ तृष नाकिच्च।

१ पिपासायां,

२ लोभे,

३ अप्राप्ताभि-लाषे च अमरः

४ रोगभेदे। तन्निदामादि भावप्र॰उक्तं यथा
“भयश्रमाभ्यां वलसङ्क्षयाद्वा ऊर्द्धं चितं पित्तविवर्द्ध-नैश्च। पित्तं सवातं कुपितं नराणां तालुप्रपन्नं जनयेत्पिपासाम्। स्रोतःस्वपांवाहिषु दूषितेषु दोषैश्च तृट् सम्भ-वतीह जन्तोः। तिस्रः स्मृतास्ता क्षतजा चतुर्थी क्षया-त्तथान्यामसमुद्भवा च। भुक्तोद्भवा सप्तमिकेति तासांनिबोध लिङ्गान्यनुपूर्वशस्तु”। नराणां चितं स्वस्थानएव सञ्चितं पित्तं सवातं पित्तविवर्द्धनैः कद्वम्लोष्णादिभिःकुपितम्। भयश्रसाभ्यां बलसङ्क्षयादुपवासादेश्च त्वातःकुपितः। तद्द्वयं ऊर्द्ध्वं प्रसरत् तालुप्रपन्नं सत् पिपासांजनयेत्। न केवलं तालुन्येव दूषिते तृष्णा भवतिकिन्तु जलवाहिस्रोतःस्वपि। अत आह। स्रोतःस्वित्यादि। नन्वत्र बहुवचनमयुक्तम्। यतो जलवहेद्वे स्रोतसी सुश्रुतेनोक्ते। उच्यते। तयोरेवानेकप्रता-नयोगान्न दोषः। अपांवाहिषु स्रोतःस्विति जिह्वादे-रप्युपलक्षणम्। यत आह चरकः।
“रसवाहिनीश्चधमनीर्जिह्वाहृदयगलतालुक्लोम च। संशोष्य नॄणां देहेकुरुतस्तृष्णामतिवलौ पित्तानिलाविति”। सङ्ख्यामाहतिस्र इत्यादि। तृष्णायाः सामान्यं लक्षणमाह। [Page3347-a+ 38]
“सततं यं पिवेत्तोयं न तृप्तिमधिगच्छति। मुहुःकाङ्क्षति तोयन्तुतं तृष्णार्द्दितमादिशेत्। वातजायालक्ष-णमाह। क्षामास्यता मारुतसम्भवायां तोदस्तदा शङ्ख-शिरःसु चापि। स्रोतोनिरोधो विरसञ्चवक्त्रं शीताभि-रद्भिश्च विवृद्धिमेति”। शङ्खशिरःसु शङ्खयोः शिरसि च। स्रोतो निरोधः। पित्तजामाह
“मूर्च्छान्नविद्वेषविलाप-दाहरक्तेक्षणत्वं प्रततश्च शोषः। शीताभिनन्दो मुख-तिक्तता च पित्तात्मिकायां परिधूपनञ्च”। विलापः प्रलापःप्रततश्च शोषः अविरतश्च शोषः। शीताभिनन्दः शी-तेच्छा। परिधूपनं कण्ठाद्धूमनिर्गम इव। कफजामाह।
“वास्पावरोधात् कफसंवृतेऽग्नौ तृष्णा बलासेन भवेन्नरस्य। निद्रागुरुत्वं मधुरास्यता च तयार्द्दितः शुष्यति चाति-मात्रम्”। अग्नौ जठराग्नौ। कफसंवृते स्वकारणकुपितेन कफेनोपरिष्टादाच्छादिते। वास्पावरोधात् अग्ने-रुष्मावरोधात्। अवरुद्धानलोष्मणाम्बु वहस्रोतःशोषणात्बलासेन कफेन नरस्य तृष्णा भवेत्। तया तृष्णयाअर्दितः पीडितः शुष्यति कृशो भवति। क्षतजामाह।
“क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजामतातु”। क्षतस्य शस्त्रादिक्षतयुक्तस्य। रुक् पीडा। क्षय-जामाह।
“रसक्षयाद् या क्षयसम्भवा सा तयाभिभू-तस्तु निशादिनेषु। पेपीयतेऽम्भः स सुखं न याति तांसन्निपातादिति केचिदाहुः। रसक्षयोक्तानि च लक्ष-णानि तस्यामशेषेण भिषग् व्यवस्येत्”। रसक्षयलक्षणानिसुश्रुतेनोक्तानि
“रसक्षये हृत्पीडा कम्पः शोषः शून्यतातृष्णा चेति”। व्यवस्येत् जानीयात्। आमजामाह।
“त्रिदोषलिङ्गामसमुद्भवा च हृच्छूलनिष्ठीवनसादकर्त्री”। भुक्तोद्भवामाह।
“स्निग्धं तथाम्लं लवणञ्च भुक्तं गुर्वन्नसेवासु तृषां करोति”। लवणञ्चेति चकारात् कटु च। उपसर्गजामाह
“क्षीणस्वरः प्रताय्यं दीनाननहृदय-शुष्कगलतालुः। भवति खलु सोपसर्गात् तृष्णा साशोषिणी कष्टा”। शोषिणी धातुशोषिणी। उपसर्गानाह।
“ज्वरमोहं क्षयः श्वासो बाधिर्य्यं कास एव च। बहि-र्निर्गतजिह्वत्वं सप्तैते तदुपद्रवाः”। तद्युक्तायां अरिष्ट-त्वञ्चाह
“ज्वरमोहक्षयकासश्वासाद्युपसृष्टदेहिनाम्। सर्वास्त्वतिप्रसक्तारोग कृशानां वमिप्रसक्तानाम्। घोरो-पद्रवयुक्तास्तृष्णा मरणाय विज्ञेयाः”। आदिशब्दादती-सारादीनां ग्रहणम्। अतिप्रसक्ताः निरन्तराः। घोरो-पद्रवयुक्ताः अतीव मुखशोषादियुताः। [Page3347-b+ 38] तृष्णाशब्दस्य वरुत्रीशब्देन द्वन्द्वे उभयपदे प्रकृतिखरः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्णा¦ f. (-ष्णा)
1. Thirst.
2. Desire, wish. E. तृष् to thirst, न Unadi aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्णा [tṛṣṇā], [तृष् न किच्च]

Thirst (lit. and fig.); तृष्णां चेह परित्यज्य को दरिद्रः क ईश्वरः H.1.164; Ṛs.1.15.

Desire, strong desire, greedy, avidity, desire of gain; तृष्णां छिन्द्धि Bh.2.77;3.5; R.8.2. -Comp. -क्षयः cessation of desire, tranquility of mind, contentment.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्णा f. thirst , i , vii , ix AV. S3Br. etc.

तृष्णा f. desire , avidity (chiefly ifc. ) R. Ragh. BhP. etc.

तृष्णा f. Avidity as mother of दम्भ( Prab. ii , 11/12 ) , daughter of Death ( मृत्युVP. i , 7 , 31 ; or मारLalit. xxiv , 20 ), generated by वेदनाand generating उपादान( Buddh. )

तृष्णा f. See. अति-.

"https://sa.wiktionary.org/w/index.php?title=तृष्णा&oldid=500038" इत्यस्माद् प्रतिप्राप्तम्