सामग्री पर जाएँ

शाक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकम्, क्ली, पुं, (शक्यते भोक्तुमिति । शक + घञ् ।) पत्रपुष्पादि । साग इति हिन्दीभाषा । तत्- पर्य्यायः । हरितकम् २ शिग्रुः ३ । इत्यमरः ॥ सिग्रुः ४ । इति तट्टीका ॥ हारितकम् ५ । इति शब्दरत्नावली ॥ अथ शाकवर्गः । तत्र शाक- निरूपणम् । “पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा । शाकं षड्विधमुद्दिष्टं गुरु विद्यात् यथोत्तरम् ॥” अथ शाकानां गुणाः । “प्रायः शाकानि सर्व्वाणि विष्टम्भीनि गुरूणि च । रूक्षाणि बहुवर्च्चांसि सृष्टविण्मारुतानि च ॥ शाकं भिनत्ति वपुरस्थि निहन्ति नेत्रं वर्णं विनाशयति रक्तमथापि शुक्रम् । प्रज्ञाक्षयञ्च कुरुते पलितञ्च नूनं हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः ॥ शाकेषु सर्व्वे निवसन्ति रोगाः सहेतवो देहविनाशनाय । तस्माद्बुधः शाकविवर्जनञ्च कुर्य्यात्तथाम्लेषु स एव दोषः ॥” इति भावप्रकाशः ॥ अपि च । “सर्व्वशाकमचाक्षुष्यमलङ्घेयममैथुनम् । ऋते पटोलवास्तूककाकमाचीपुनर्नवाः ॥” इति राजवल्लभः ॥

शाकः, पुं, वृक्षविशेषः । सेगोन् इति भाषा । तत्पर्य्यायः । शाकवृक्षः २ शाकाख्यः ३ खर- पत्रः ४ अर्जुनोपमः ५ । इति रत्नमाला ॥ क्रकचपत्रः ६ शरपत्रः ७ अतिपत्रः ८ अही- रुहः ९ श्रेष्ठकाष्ठः १० स्थिरसारः ११ गृह- द्रुमः १२ । अस्य गुणाः । सारकत्वम् । पित्त- दाहश्रमापहत्वञ्च । अस्य वल्कलगुणाः । कफ- नाशित्वम् । मधुरत्वम् । रूक्षत्वम् । कषाय- सोऽपि विभज्य सप्त वर्षाणि पुत्त्रनामानि तेषु स्वात्मजान् पुरोजवमनोजववेपमानधूम्रानीक- चित्ररेफबहुरूपविश्वाधारसंज्ञान् निधाप्याधि- पतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश । एतेषां वर्षमर्य्यादागिरयो नद्यश्च सप्त सप्तैव । ईशान उरुशृङ्गो बलभद्रः शत- केशरः सहस्रस्रोता देवपालो महानस इति । अनघा आयूर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रश्रुतिर्निजधृतिरिति । तद्वर्षपुरुषा ऋत- व्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वा- त्मकं प्राणायामविधूतरजस्तमसः परमसमा- धिना यजन्ते । इति श्रीभागवते ५ स्कन्धे २० अध्यायः ॥ * ॥ युधिष्ठिरविक्रमादित्यशालि- वाहनादिशकनरपतीनामतीताब्दः । तस्य प्रमाणं दिनपञ्जिकायां द्रष्टव्यम् ॥ (शक्तिः । कर्म्म । यथा, ऋग्वेदे । ६ । २४ । ४ । “शचीवतस्ते पुरुशाक शाका गवामिव श्रुतयः सञ्चरणीः ॥” “हे पुरुशाक बहुकर्म्मन्निन्द्र शचीवतः प्रज्ञा- वतस्ते त्वदीयाः शाकाः शक्तयः कर्म्माणि वा ।” इति तद्भाष्ये सायणः ॥ * ॥ समर्थे, त्रि । यथा, ऋग्वेदे । ५ । ३० । १० । “सन्ता इन्द्रो असृजदस्य शाकै- र्यदीं सोमासः सुषुता अमन्दन् ॥” “शाकैः शक्तैर्म्मरुद्भिः सह ।” इति तद्भाष्ये सायणः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक पुं-नपुं।

वास्तुकादिशाकः

समानार्थक:शाक,हरितक,शिग्रु

2।9।34।2।1

दर्विः कम्बिः खजाका च स्यात्तर्दूर्दारुहस्तकः। अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका॥

अवयव : शाकनालः

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक¦ पु॰ न॰ शक--घञ्।

१ पत्रपुष्पादौ अमरः

२ वृक्षनेदे पु॰(सेगुण) वृक्षे च

३ शक्तौ

४ शिरीषवृक्षे पु॰ शब्दरत्ना॰।

५ स्वराज्यावधि वत्सरप्रवर्त्तके राजभेदे

६ तदीये वत्सरेच पु॰ मेदि॰। श्यति सामर्थ्यं शो--क तस्य नेत्त्वम्। [Page5094-a+ 38]
“मूलपत्त्रे करीराग्रे फलकाण्डाधिरूढकम्। त्वक्पुष्पंकवकञ्चैव शाकं दशविधं स्मृतम्” इत्युक्तेषु

७ वृक्षा-दीनां पत्त्रादिषु न॰। तत्र

१ मूलं भूलकादेः।

२ पत्रंवास्तूकादेः।

३ करीरं वंशादेः।

४ अग्रं वेत्रादेः।

५ फलंकुष्माण्डादेः।

६ काण्डं उत्पलादेः।

७ अधिरूढं ताला-स्थिमज्जादेः।

८ त्वक् मातुलाङ्गादेः।

९ पुष्पं कोविदा-रादेः।

१० कवकं छत्रिकादेः। भावप्र॰ अन्यथोक्तं यथा
“पत्रं पुष्प फलं नालं कन्दं संस्वेदजं तथा। शाकं षड्-विधमुद्दिष्टं गुरु विद्याद्यथोत्तरम्”।
“प्रायः शाकानिसर्वाणि विष्टम्भीनि गुरूणि च। रूक्षाणि बहुवर्चांसिसृष्टविण्मारुतानि च। शाकं भिन्नत्ति वपुरस्थिनहन्ति नेत्रम् वर्णं विनाशयति रक्तमथापि शुक्रम्। प्रज्ञाक्षयं च कुरुते पलितञ्च नूनम् हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः”।

८ द्वीपभेदे मत्स्यपु॰

१२

१ अ॰तत्प्रमाणाद्युक्तं यथा
“शाकद्वीपस्य वक्ष्यामि यथावदिह निश्चयम्। कथ्यमानंनियोधध्वं शाकं द्वीपं द्विजोत्तमाः!। जम्बूद्वीपस्य वि-स्ताराद्द्विगुणस्तस्य विस्तरः। विस्तारात् द्विगुणश्चापिपरीणाहः समन्ततः। तेनावृतः समुद्रोऽयं द्वितीयोणवणोदकः। तत्र पुण्या जनपदा चिराच्च म्रियतेजनः। कुत एव च दुर्भिक्षं क्षपातेजोयुतेष्विह। तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषिताः। शाकद्वीपा-दिषु स्येषु सप्त सप्त नगास्त्रिषु। ऋज्वायताः प्रति-दिशं निविष्टाः पर्वतोत्तमाः। रत्नाकराद्रिनामानःसालुमन्तो महाचिताः। समोदिताः प्रतिदिशं द्वीपवि-स्तारमानतः। उभवत्रावगाढौ च लवणक्षीरसागरौ। शाकद्वीप्रे तु वक्ष्यामि सप्त दिव्यान् महाचलान्। देवर्षि-गन्धर्वयुतः प्रथमो मेरुरुच्यते। प्रागायतः स सौवर्णचदयो नाम पर्वतः। तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्त्यप-यान्ति च। तस्यापरेण सुमहान् जलधारो महा-गिरिः। स वै चन्द्रः समाख्यातः सर्वौवधिसमन्वितः। तस्मान्नित्यमुपादत्ते वासवः परमञ्जलम्। नारदो नामचैवोक्तो दुर्गशैलो महाचितः। तत्राचलौ समुत्पन्नौ पूर्वंनारदपर्वतौ। तस्यापरेण सुमहान् श्यामो नाम महा-गिरिः। यत्र श्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल। स एव दुन्दुभिर्नाम श्यामपर्वतसन्निभः। शब्दमृत्युःपुरा तस्मिन् दुन्दुभिस्ताडितः सुरैः। रत्नमालान्तरमयःशाल्मलश्चान्तरालकृत्। तस्यापरेण रजतो महानस्तो-[Page5094-b+ 38] गिरिः स्मृतः। स वै सोमक इत्युक्तो देवैर्वत्रामृतंपुरा। अमृतञ्चाहृतञ्चेव मातुरर्थे गरुत्मता। तस्या-परे चाम्बिकेयः सुमनाश्चैव स स्मृतः। हिरण्याक्षोवराहेण तस्मिन् शैले निषूदितः। आम्बिकेयात् परोरम्यः सर्वाषधिनिवेशितः। विभ्राजस्तु समाख्यातःस्फाटिकस्तु महान् निरिः। यस्माद्विभ्राजते वह्निर्वि-भ्राजस्तेन स स्मृतः। सैवेह केशवेत्युक्तो यतो वायुःप्रवाति च। तेषां वर्षाणि वक्ष्यामि पर्वतानां द्विजो-त्तमाः। शृणुध्वं नामतस्तानि यथावदनुपूर्वशः। द्वि-नामान्येव वर्षाणि यथैव गिरयस्तथा। उदयस्योदयंवर्षं जलधारेति विश्रुतम्। नाम्ना गतभयं नाम वर्षंतत् प्रथमं स्मृतम्। द्वितीयं जलधारस्य सुकुमारमितिस्मृतम्। तदेव शैशिरं नाम वर्षं तत् परिकीर्त्तितम्। नारदस्य च कौमारन्तदेव च सुखोदयम्। श्यामपर्वत-वर्षं तदनीचकमिति स्मृतम्। आनन्दकमिति प्रोक्तंतदेव मुनिभिः शुभम्। सोमकस्य शुभं वर्षं विज्ञयंकुसुमोत्करम्। तदेवासितमित्युक्तं वर्षं सोमकसंज्ञितम्। आम्बिकेयस्य मैनाकं क्षेमकञ्चैव तत् स्मृतम्। तदेवध्रुवमित्युक्तं वर्षं विभ्राजसंज्ञितम्। द्वीपस्य परि-णाहञ्च ह्रस्वदीर्घत्वमेव च। जम्बूद्वीपेन संख्यातं तस्यमध्ये वनस्पतिम्। शाको नाम महावृक्षः प्रजास्तस्यसहानुगाः। एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः। विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह। तत्र पुण्याजनपदाश्चातुर्वर्ण्यसमन्विताः। तेषु नद्यश्च सप्तैव प्रति-वर्षं समुद्रगाः। द्विनाम्ना चैव ताः सर्वा गङ्गा सप्तविधास्मृता। प्रथमा सुकुमारीति गङ्गा शिवजला शुभा। मुनितप्ता च नाम्नैषा नदी सम्परिकीर्त्तिता। सुकुमारीतपःसिद्धा द्वितीया नामतः सती। नन्दा च पावनीचैव तृतीया परिकीर्त्तिता। शिविका च चतुथीस्यात् द्विविधा च पुनः स्मृता। इक्षुश्च पञ्चमी श्वेथातथैव च पुनः कुहूः। वेणुका चामृता चैव षष्ठो सम्प-रिकीर्त्तिता। सुकृता च गभस्ती च सप्तमी परिकी-र्त्तिता। एताः सप्त महाभागाः! प्रतिवर्षं शिवोदकाः। भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम्। अभिगच्छन्तिताश्चान्या नदनद्यः सरांसि च। बहूदकपरिस्रावायतो वर्षति वासवः। तासान्तु नामधेयानि परिमाणंतथैव च। न शक्यं परिसंख्यातुं पुण्यास्ताः सरि-दुत्तमाः। ताः पिबन्ति सदा हृष्टा नदीर्जन्पदास्तु ते। [Page5095-a+ 38] एते शान्तभयाः प्रीक्ताः प्रमोदा ये च वै शिवाः। आनन्दाश्च सुखाश्चैव क्षेमकाश्च नरैः सह। वर्णाश्रमा-चारयुता देशास्ते सप्त विश्रुताः। आरोग्या बलिनश्चैवसर्वे मरणवर्जिताः। अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी पुनः। न तत्रास्ति युगावस्था चतुर्युगकृताक्वचित्। त्रेतायुगसमः कालस्तथा तत्र प्रवर्त्तते। शाकद्वीपादिषु ज्ञेयं पञ्चस्वंतषु सर्वशः। देशस्य तु विचा-रेण कालः स्वाभाविकः स्मृतः। न तेषु सङ्करः क-श्चित् वर्णाश्वमकृतः क्वचित्। धर्मस्य चाव्यभीचारादेका-न्तसुखिनो जनाः। न तेषु माया लोभो वा ईर्ष्यासूयाभयं कुतः। विपर्ययो न तेष्वस्ति तद्वै स्वाभाविकंस्मृतम्। कालो मैव च तेष्वस्ति न दण्डो न च दा-ण्डिकः। स्वधर्मेण च धर्मज्ञास्ते रक्षन्ति परस्परम्”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक¦ mn. (-कः-कं) A pot-herb in general, any leaf, flower, fruit, stalk, root, &c., used as a vegetable. m. (-कः)
1. One of the seven Dw4ipas or divisions of the world; the sixth, surrounded by the sea of milk or white sea.
2. Power, strength.
3. The Sirisha-tree, (Acacia sirisa.)
4. The Teak-tree, (Tectona grandis.)
5. An era, a period usually commencing with some celebrated prince, as YUDISHT'HIRA VIKRAMA4DITYA, S4A4LIVA4HAN4A, &c., thence denominated SA4KE4- S4WARAS, &c.; the term in ordinary use is applied especially to the era of SA4LIVA4HAN4A, commencing 76 or 78 years after the Christian era. E. शक् to be able, घञ् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकः [śākḥ] कम् [kam], कम् [शक्-घञ्] A vegetable, pot-herb, herb, any edible leaf, fruit or root used as a vegetable; दिल्लीश्वरो वा जगदीश्वरो वा मनोरथान् पूरयितुं समर्थः । अन्यैर्नृपालैः परिदीयमानं शाकाय वा स्याल्लवणाय वा स्यात् Jag.; वेत्रशाककुजे शैले Ki.15.18.

कः Power, strength, energy.

The teak tree.

The Śirīṣa tree; यस्मिन् शाको नाम महीरुहः Bhāg.5.2.24.

N. of a people; see शक.

An era; especially the era of Śālivāhana.

N. of the sixth Dvīpa. -Comp. -अङ्गम् pepper. -अम्लम् hogplum. ˚भेदनम् sorrel. -अष्टमी the 8th day of the dark half of फाल्गुन (on which vegetables are offered to पितृs). -आख्यः the teak tree. (-ख्यम्) a vegetable.-आहारः a vegetarian (living only on herbs &c.).-कलम्बकः leek, garlic. -चुक्रिका the tamarind.-तरुः the teak tree.

पणः a measure equal to a handful.

a handful of vegetables. -पत्रः the Śigru tree (Mar. शेवगा). -पात्रम् a vegetable dish. -पार्थिवः a king fond of an era; see मध्यमपदलोपिन् -प्रति ind. a little of herbs. -योग्यः coriander. -रसः edible vegetable juice. -राज्, -राजः Chenododium (Mar. चाकवत); also शाकवीर. -विन्दकः see बिल्व. -वृक्षः the teak tree.-व्रतम् a vow of abstinence from vegetables. -शाकटम्, -शाकिनम् a field of vegetables, a kitchen-garden.-श्रेष्ठा the egg-plant (Mar. वांगें).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक m. (fr. शक्)power , might , help , aid RV.

शाक m. helpful , a helper , friend ib.

शाक n. (or m. g. अर्धर्चा-दि; of doubtful derivation , and scarcely to be connected with 1. शाक)a potherb , vegetable , greens Gr2S3rS. Mn. MBh. etc.

शाक n. any vegetable food Gaut.

शाक m. the Teak tree , Tectona Grandis Gr2S3rS. MBh. etc.

शाक m. Acacia Sirissa L.

शाक m. N. of a द्वीप(the sixth of the seven द्वीपs , called after the Teak tree growing there , surrounded by the sea of milk or white sea , and inhabited by the ऋत-व्रतs , सत्य-व्रतs , दान-व्रतs , and अनु-व्रतs) MBh. Pur.

शाक m. or n. (?) N. of a place Col.

शाक m. N. of a man g. कुञ्जा-दि.

शाक mfn. (fr. शक)relating to the शकs or Indoscythians

शाक mn. ( scil. संवत्सर, अब्दetc. ) the शकera (also शाक-काल; See. शकक्) VarBr2S. Sch.

शाक m. (also) a general N. for any era

शाक m. ( pl. )N. of a people( w.r. for शक) Buddh.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is शाकद्वीप; the hill after which the द्वीप is named. फलकम्:F2: M. १२३. ३६.फलकम्:/F ^1 भा. V. I. ३२.

(II)--the tree in the midst of शाकद्वीपम्. वा. ४९. ८८; Vi. II. 4. ६३. [page३-397+ ३१]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāka : m.: Name of a tree of the Śākadvīpa.

Described as famous (vikhyāta) and a big tree (mahādruma); it is situated in the middle of that Dvīpa (tasya madhye mahādrumaḥ//śāko nāma mahārāja tasya dvīpasya madhyagaḥ/) 6. 12. 25-26.


_______________________________
*2nd word in right half of page p456_mci (+offset) in original book.

Mahabharata Cultural Index

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāka : m.: Name of a tree of the Śākadvīpa.

Described as famous (vikhyāta) and a big tree (mahādruma); it is situated in the middle of that Dvīpa (tasya madhye mahādrumaḥ//śāko nāma mahārāja tasya dvīpasya madhyagaḥ/) 6. 12. 25-26.


_______________________________
*2nd word in right half of page p456_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शाक&oldid=504844" इत्यस्माद् प्रतिप्राप्तम्