जनपदः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
जनपदः, पुं, (जनस्य लोकस्य पदं आश्रयस्थानं यत्र । जनः पदं वस्तु यस्येति वा ।) देशः । (यथा, चाणक्यशतके । ३१ । “त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥” जनपदनामानि महाभारते भीष्मपर्व्वणि ९ अध्याये कथितानि अतस्तत्रैव विशेषतो द्रष्टव्यानि ॥) जनः । इति मेदिनी । दे, ४८ ॥