वज्रः
संस्कृतम्
[सम्पाद्यताम्]- वज्रः, हीरं, हीरकः, हीरकमनि, अक्षज, मणिराज, वज्रमणी, अशनिग्रावन्, लोहजित्।
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमा विभक्तिः | वज्रः | वज्रौ | वज्राः |
सम्बोधनप्रथमा | वज्र | वज्रौ | वज्राः |
द्वितीया विभक्तिः | वज्रम् | वज्रौ | वज्रान् |
तृतीया विभक्तिः | वज्रेन | वज्राभ्याम् | वज्रैः |
चतुर्थी विभक्तिः | वज्राय | वज्राभ्याम् | वज्रेभ्यः |
पञ्चमी विभक्तिः | वज्रात् | वज्राभ्याम् | वज्रेभ्यः |
षष्ठी विभक्तिः | वज्रस्य | वज्रयोः | वज्रानाम् |
सप्तमी विभक्तिः | वज्रे | वज्रयोः | वज्रेषु |
नाम
[सम्पाद्यताम्]- वज्रः नाम मणिराजः।
अनुवादाः
[सम्पाद्यताम्]- आङ्ग्लम्-Diamond
- मलयालम्-
- हिन्दि-हीर(हीरक)
- बङ्गाळि-() ()
- फ़्रॆन्च्- (fr)
- रूसीय्- (ru) ()
- जेर्मन्-
- स्पानिष्- (es)
- तेलुगु-వజ్రము
- तमिल्-
- पोलिष्- (pl)
- कन्नड- ವಜ್ರ
उदाहरणानि
[सम्पाद्यताम्]- वज्रासनम्- योगाशने एक मुख्यं आसनम्।
- वज्रायुधम्-देवेन्द्र आयुधम्।
- वज्रोस्तवम्।
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वज्रः, पुं, (वज् + रन् ।) कोकिलाक्षवृक्षः । श्वेतकुशः । इति राजनिर्घण्टः ॥ सेहुण्ड- वृक्षः । इति भावप्रकाशः ॥ श्रीकृष्णप्रपौत्त्रः । यथा, -- “अनिरुद्धात् सुभद्रायां वज्रो नाम नृपोऽभवत् । प्रतिबाहुर्वज्रसुतश्चारुस्तस्य सुतोऽभवत् ॥” इति गारुडे १४४ अध्यायः ॥ अपि च । “प्रद्युम्न आसीत् प्रथमः पितृवद्रुक्मिणीसुतः । स रुक्मिणो दुहितरमुपयेमे महारथः ॥ तस्यां ततोऽनिरुद्धोऽभून्नागायुतबलान्वितः । स चापि रुक्मिणः पौत्त्रीं दौहित्रो जगृहे ततः ॥ वज्रस्तस्यामभूद्यस्तु मौषलादवशेषितः । प्रतिबाहुरभूत्तस्मात् सुबाहुस्तस्य चात्मजः ॥” इति श्रीभागवते १० स्कन्धे ९० अध्यायः ॥ * ॥ (विश्वामित्रपुत्त्रभेदः । यथा, महाभारते । १३ । ४ । ५१; ५९ । “वल्गुजङ्घश्च भगवान् गालवश्च महानृषिः । रुचिर्वज्रस्तथाख्यातः सालङ्कायन एव च ॥” “विश्वामित्रात्मजाः सर्व्वे मुनयो ब्रह्मवादिनः ॥”) विष्कम्भादिसप्तविंशतियोगान्तर्गतपञ्चदशयोगः । तस्याद्यनवदण्डा वर्ज्जनीया यथा, -- “त्यजादौ पञ्च विष्कम्भे सप्त शूले च नाडिकाः । गण्ड व्याघातयोः षट् च नव हर्षणवज्रयोः ॥ वैधृतिव्यतिपातौ च सभस्तौ परिवर्ज्जयेत् । शेषा यथार्थनामानो योगाः कार्य्येषु शोभनाः ॥” इति ज्योतिस्तत्त्वम् ॥ अत्र जातफलं यथा, -- “गुणी गुणज्ञो बलवान् महौजाः सद्रत्नवस्त्रादिपरीक्षकः स्यात् । वज्राभिधाने यदि चेत् प्रसूतो वज्रोपमः स्याद्रिपुकामिनीनाम् ॥” इवि कोष्ठीप्रदीपः ॥