सामग्री पर जाएँ

मनसा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनसा, स्त्री, (मनः भक्ताभीष्टपूरणाय मननं अस्त्यस्या इति । मनस् + अर्श आदित्वादच् । ततष्टाप् । यद्वा, मनं मननमहङ्कारमिति यावत् स्यति नाशयतीति । सो + कः ।) देवी- विशेषः । तत्पर्य्यायः । कद्रुः २ मनसादेवी ३ विषहरी ४ । इति जटाधरः ॥ अस्याः प्रणाम- मन्त्रः । “आस्तीकस्य मुनेर्माता भगिनी वासुकेस्तथा । जरत्कारुमुनेः पत्नी मनसादेवि ! नमोऽस्तु ते ॥” इति तस्याः पूजापद्धतिः ॥ तस्या नाम्नां व्युत्पत्तिर्यथा, -- श्रीनारायण उवाच । “श्रूयतां मनसाख्यानं यत् श्रुतं धर्म्मवक्त्रतः । कन्या सा च भगवती कश्यपस्य च मानसी ॥ तेनेयं मनसादेवी मनसा या च दीव्यति । मनसा ध्यायते या वा परमात्मानमीश्वरी ॥ तेन सा मनसादेवी योगेन तेन दीव्यति । आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी ॥ त्रियुगञ्च तपस्तप्त्वा कृष्णस्य परमात्मनः । जरत्कारुशरीरञ्च दृष्ट्वा यत् क्षीणमीश्वरः ॥ गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः । वाञ्छितञ्च ददौ तस्यै कृपया च कृपानिधिः ॥ पूजाञ्च कारयामास चकार च पुनः पुनः । स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः ॥ भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा । जगद्गौरीति विख्याता तेन सा पूजिता सती ॥ शिवशिष्या च सा देवी तेन शैवीति कीर्त्तिता । विष्णुभक्तातीव शश्वद्वैष्णवी तेन नारद ! ॥ नागानां प्राणरक्षित्री यज्ञे जन्मेजयस्य च । नागेश्वरीति विख्याता सा नागभगिनीति च ॥ विषं संहर्त्तुमीशा सा तेन विषहरीति सा । सिद्धं योगं हरात् प्राप तेनातिसिद्धयोगिनी । महाज्ञानञ्च गोप्यञ्च मृतसञ्जीवनीं पराम् । धन्वन्तरिरुवाच । नमः सिद्धिस्वरूपायै सिद्धिदायै नमो नमः । नमः कश्यपकन्यायै वरदायै नमो नमः ॥ नमः शङ्करकन्यायै शङ्करायै नमो नमः । नमस्ते नागवाहिन्यै नागेश्वर्य्यै नमो नमः ॥ नमो नागभगिन्यै च योगिन्यै च नमो नमः । नमोऽस्तीकजनन्यै च जनन्यै जगतां नमः ॥ नमो जरत्कारुनाम्ने जरत्कारुस्त्रियै नमः ॥ नमश्चिरं तपस्विन्यै सुखदायै नमो नमः । नमस्तपःस्वरूपायै फलदायै नमो नमः ॥ सुशीलायै च साध्व्यै च शान्तायै ते नमो नमः । इत्येवमुक्त्वा भक्त्या च प्रणनाम प्रयत्नतः ॥ तुष्टा देवी वरं दत्त्वा सत्वरं स्वालयं ययौ ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे धन्वन्तरिदर्प- भङ्गमनसाविजयो नाम ५१ अध्यायः ॥ * ॥ (कामरूपस्थितनदीविशेषः । यथा, कालिका- पुराणे । ७४ । ३३ । “ततस्तु मनसा नाम नदी पुण्यतमा परा । सरित्सा मनसाख्या तु तृणबिन्द्ववतारिता ॥ वैशाखं सकलं मासं यस्यां स्नात्वा नरोत्तमः । विष्णुलोकमवाप्यैव ततो मोक्षमवाप्नुयात् ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनसा¦ स्त्री मनं मननं स्यति सो--क। आस्तीकस्य मुने-र्मातरि वासुकिभगिन्याम् जरत्कारुपत्न्यां नाम्नाजरत्कारौ जटा॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनसा¦ f. (-सा) The goddess of the serpent race, and the particular pro- tectress against their venom. E. मनस् the mind, aff. टाप्; the object of love, and devotion.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनसा [manasā], N. of a daughter of Kaśyapa, sister of the serpent king, Ananta, wife of the sage जरत्कारु and mother of the sage अस्तिक; so मनसादेवी. -Comp. -पञ्चमी the fifth day in the dark half of Āṣāḍha.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनसा f. See. 1. मनसा

मनसा f. N. of a partic. goddess (described as consisting of a particle of प्रकृतिand as daughter of कश्यप. sister of the serpent-king अनन्त, wife of the मुनिजरत्-कारु, mother of the मुनिआस्तीकand protectress of men from the venom of serpents ; See. विष-हरी) Pan5car.

मनसा f. of a किं-नरीKa1ran2d2.

मनसा instr. of मनस्, in comp.

मनसा ind. 156778

"https://sa.wiktionary.org/w/index.php?title=मनसा&oldid=323096" इत्यस्माद् प्रतिप्राप्तम्