रतिः
संस्कृतम्
[सम्पाद्यताम्]नाम
[सम्पाद्यताम्]अनुवादाः
[सम्पाद्यताम्]- आङ्गल-
- मलयालम्-രതി
- हिन्दि-()
- बङ्गाळि-() ()
- फ़्रॆन्च्- (fr)
- रूसीय्- (ru) ()
- जेर्मन्-
- स्पानिष्- (es)
- तेलुगु-
- तमिल्-
- पोलिष्- (pl)
- कन्नड- ()
उदाहरणानि
[सम्पाद्यताम्]कोशप्रामाण्यम्
[सम्पाद्यताम्]यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रतिः, स्त्री, (रम्यतेऽनया इति । रम् + क्तिन् ।) कामदेवपत्नी ॥ (अस्याः नामनिरुक्तिर्यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ४ । ९ । “मनो मथ्नाति सर्व्वेषां पञ्चबाणेन कामिनीम् । तन्नाम मन्मथस्तेन प्रवदन्ति मनीषिणः ॥ तस्य पुंसो वामपार्श्वात् कामस्य कामिनी वरा । बभूवातीव ललिता सर्व्वेषां मोहकारिणी ॥ रतिर्बभूव सर्व्वेषां तां दृष्ट्वा सस्मितां सतीम् । रतीति तेन तन्नाम प्रवदन्ति मनीषिणः ॥”) तस्य उत्पत्तिः नामकारणं कामपत्नीत्वञ्च यथा, दक्ष उवाच । “मद्देहजेयं कन्दर्प मद्रूपगुणशालिनी । एनां गृह्णीष्व भार्य्यार्थे भवतः सदृशी गुणैः ॥ एषा तव महातेजाः सर्व्वदा सहचारिणी । भविष्यति यथाकामं धर्म्मतो वशवर्त्तिनी ॥ मार्कण्डेय उवाच । इत्युक्त्वा प्रददौ दक्षो देहस्वेदजलोद्भवाम् । कन्दर्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम् ॥ तां वीक्ष्य मदनो रामां रत्याख्यां सुमनोहराम् । आत्माशुगेन विद्धोऽसौ मुमोह रतिरञ्जितः ॥” इति कालिकापुराणे ३ अध्यायः ॥ अनुरागः । (यथा, भागवते । १ । २ । ८ । “नोत्पादयेद् यदि रतिं श्रम एव हि केव- लम् ॥”) रतम् । (यथा, बृहत्संहितायाम् । ७४ । १८ । “कामिनीं प्रथमयौवनान्वितां मन्दवल्गुमृदुपीडितस्वनाम् । उत्स्तनीं समवलम्ब्य या रतिः सा न धातृभवनेऽस्ति मे मतिः ॥”) गुह्यम् । इति मेदिनी । ते । ४९ ॥ (अप्सरो- विशेषः । यथा, महाभारते । १३ । १९ । ४५ । “विद्युता प्रशमी दान्ता विद्योता रतिरेव च । एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः ॥” प्रीतिः । यथा, रामायणे । १ । १८ । २४ । “तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ॥” ‘रतिः प्रीतिः ।’ इति तट्टीकायां रामानुजः ॥) रतिबन्धा यथा, -- “न भवन्ति यदा नार्य्यस्तुष्टा वाद्यरते मताः । नानाविधैस्तथाबन्धै रन्तव्याः कामिभिः स्त्रियः ॥ पद्मासनो नागपाशो लतावेष्टोऽर्द्धसंपुटम् । कुलिशं सुन्दरश्चैव तथा केशर एव च ॥ हिल्लोलो नरसिं होऽपि विपरीतस्तथापरः । क्षुब्धो वै धेनुकश्चैवमुत्कण्ठस्तु ततः परम् । सिंहासनो रतिनागो विद्याधरस्तु षोडशः ॥” इति रतिमञ्जरी ॥ एतेषां लक्षणानि तत्तच्छब्दे द्रष्टव्यानि ॥
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रतिः [ratiḥ], f. [रम्-क्तिन्]
Pleasure, delight, satisfaction, joy; अकृतार्थे$पि मनसिजे रतिमुभयप्रार्थना कुरुते Ś.2.1.
Fondness for, devotion or attachment to, pleasure in (with loc.) प्रीतिः परा तात रतिश्च जाता Mb.3.112.11; पापे रतिं मा कृथाः Bh.2.77; स्वयोषिति रतिः 2.62; R.1.23; Ku.5.65.
Love, affection; S. D. thus defines it; रतिर्मनोनुकूले$र्थे मनसः प्रवणायितम् 27; cf. 26 also; (it is the Sthāyibhāva of the rasa called शृङ्गार q. v.) ससत्त्व- रतिदे नित्यं सदरामर्षनाशिनि Ki.15.27.
Sexual pleasure; दाक्षिण्योदकवाहिनी विगलिता याता स्वदेशं रतिः Mk.8.38; so रति- सर्वस्वम् q. v. below.
Sexual union, coition, copulation.
The goddess of love, the wife of Kāma or Cupid; साक्षात् कामं नवमिव रतिर्मालती माधवं यत् Māl.1.15; Ku.3. 23;4.45; R.6.2.
The pudenda.
N. of the sixth digit (कला) of the moon.
Ved. Rest, cessation.
N. of magical incantation recited over weapons; Rām.-Comp. -अङ्गम्, -कुहरम् pudendum muliebre. -कर a.
giving pleasure; रामो रतिकरः पितुः Rām.1.18.24.
enamoured. -रः a particular Samādhi. -कर्मन्, -क्रिया sexual union. -खेदः the languor of sexual enjoyment.
गृहम्, भवनम्, मन्दिरम् a pleasure house.
a brothel.
pudendum muliebre -तस्करः a seducer, ravisher. -दूतिः, -ती f. a love messenger; रतिदूतिपदेषु कोकिलाम् (आदिश) Ku.4.16. -नागः a mode of coitus. -पतिः, -प्रियः, -रमणः the god of love; अपि नाम मनागवतीर्णो$सि रतिरमणबाणगोचरम् Māl.1; दधति स्फुटं रतिपतेरिषवः शिततां यदुत्पलपलाशदृशः Śi.9.66; पूर्वं यत्र समं त्वया रतिपतेरासादिताः सिद्धयः Gīt. -पाश (-कः) a mode of coitus. -बन्धः a mode of coitus. -मदा f. an Apsaras.-मित्रः a mode of coitus. -रसः sexual pleasure. -रहस्यम् N. of an erotic work by Kokkoka. -लक्षम् sexual union.-लम्पट a. lustful, libidinous. -शक्तिः f. manly or virile power. -शूरः a man of great procreative power.-सर्वस्वम् the all-in-all or highest essence of sexual pleasure; करं व्याधुन्वत्या पिबसि रतिसर्वस्वमधरम् Ś.1.23.-सुन्दरः a mode of coitus.