सामग्री पर जाएँ

शरद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरत्, [द्] स्त्री, (शॄ हिंसायाम् + “शॄ दॄभ- सोऽदिः ।” उणा० १ । १२९ । इति अदिः ।) वत्सरः । (यथा, रघुः । १० । १ । “पृथिवीं शासतस्तस्य पाकशासनतेजसः । किञ्चिदूनमनूनर्द्धेः शरदामयुतं ययौ ॥”) ऋतुविशेषः । स चाश्विनकार्त्तिकमासद्वया- त्मकः । इत्यमरः ॥ तत्पर्य्यायः । शारदा २ कालप्रभातः ३ । इति शब्दरत्नावली ॥ काल- प्रभातम् ४ । इति त्रिकाण्डशेषः ॥ वर्षाव- सानः ५ मेघान्तः ६ प्रावृडत्ययः ७ । (यथा, रघुः । ४ । २४ । “सरितः कुर्व्वती गाधाः पथश्चाश्यानकर्द्दमान् । यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥”) तत्र जलगुणाः । “वर्षासु नाभसं वारि सेवतोद्भिदमेव वा । सर्व्वं शरदि हेमन्ते तडागं सारसन्तु वा ॥” * ॥ तत्र ग्राह्यवायुर्यथा, -- “वसन्ते दक्षिणो वातो भवेत् वर्षासु पश्चिमः । उत्तरः शारदे काले पूर्व्वो हेमन्तशैशिरे ॥” इति राजनिर्घण्टः ॥ * ॥ अपि च । “शारदञ्चानभिष्यन्दि लघु तत्परिकीर्त्तितम् । हैमन्तिकं जलं स्निग्धं बल्यं वृष्यं हितं गुरु ॥” इति राजवल्लभः ॥ * ॥ वैद्यकमते भाद्राश्विनमासात्मकः । केचित्तु । “ऋतुषट्कं समाख्यातं रवे राशिषु संक्र- मात् ॥ ग्रीष्मो मेषवृषौ प्रोक्तः प्रावृट् मिथुनकर्कटौ । सिंहकन्ये स्मृता वर्षा तुलावृश्चिकयोः शरत् । धनुर्ग्राहौ च हेमन्तो वसन्तः कुम्भमीनकौ ॥” अन्येतु । “शिशिरः पुष्पसमयो ग्रीष्मो वर्षा शरद्धिमः । माघादिमासयुग्मैः स्युरृतवः षट् क्रमादमी ॥” तस्या गुणाः । “शरदुष्णा पित्तकर्त्री नृणां मध्यबलावहा ।” इति भावप्रकाशः ॥ * ॥ तत्र जातफलम् । “नरः शरत्संज्ञकलब्धजन्मा भवेत् सुकर्म्मा मनुजस्तरस्वी । शुचिः सुशीलो गुणवान् सुमानी धनान्वितो राजकुलप्रपन्नः ॥” इति कोष्ठीप्रदीपः ॥ * ॥ तत्र वर्णनीयानि यथा । चन्द्रपटुता । रवि- पटुता । जलशुष्कता । अगस्त्यः । हंसः । वृषः । सर्पः । सप्तच्छदः । पद्मम् । श्वेतमेघः । धान्यम् । शिखिपक्षमदपातः । इति कविकल्पलता ॥

शरद्, स्त्री, (शॄ + अदिः ।) शरत् । इत्यमरः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरद् स्त्री।

आश्विनकार्तिकाभ्यां_निष्पन्नः_ऋतुः

समानार्थक:शरद्

1।4।19।2।3

निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः। स्त्रियां प्रावृट्स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

शरद् स्त्री।

संवत्सरः

समानार्थक:संवत्सर,वत्सर,अब्द,हायन,शरद्,संवत्

1।4।20।2।5

षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्. संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः॥

 : पूर्वे_अब्दे, पूर्वतरे_अब्दे, अस्मिन्_अब्दे

पदार्थ-विभागः : , द्रव्यम्, कालः

शरद् स्त्री।

वत्सरः

समानार्थक:अब्द,शरद्,वर्ष

3।3।93।1।2

धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत्. पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरद्¦ स्त्री घृ--अदि।

१ वत्सरे,

२ आश्विरकार्त्तिकमासात्मकेणृतौ च अमरः। तद्वारिगुणा भावप्र॰ उक्ता यथा
“वर्{??} माभमं वारि सेवेतौद्भिदमेव वा। सर्वं शरदिहेमन्ते तडागं सारसन्तु वा”। शारदं चानभिष्यन्दिलघु तत् परिकीर्त्तितम्। हैमन्तिकजलं स्निग्धं बल्यं वृष्यंहि{??}अं धृस” राजव॰। तत्रोत्तरवायुसेवनं हितं यथा
“{??}ग्ये दक्षिणो वातो भवेत् वर्षासु पश्चिमः। उत्तरःशारदे काले पूर्षो हेमन्तशैशिरे” राजनि॰। ऋतुशब्देहृ॰ दृश्यम्।
“शरदृतुश्च वैद्यकमते भाद्राश्विनमासा-त्भयः। तत्र वर्णनीयानि चन्द्रपटुता जलशुष्कताअगस्त्यः हंसः वृषः” कविकल्प॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरद्¦ f. (-रत् or रद्)
1. The season of autumn or the sultry season; the two months succeeding the rains; according to the VAIDIKAS, comprising the months BHA4DRA and A4SHWIN, and according to the PAURA4NIKAS, A4SHWIN and KA4RTIKA, fluctuating thus from AUGUST to NOVEMBER.
2. A year. E. शॄ to injure, अदि Una4di aff.; also with टाप् added शरदा |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरद् [śarad], f. [शॄ-अदि Uṇ.1.129]

The autumn, autumnal season (comprising the two months आश्विन and कार्तिक); यात्रायै चोदयामास तं शक्तेः प्रथमं शरद् R.4.24.

A year; त्वं जीव शरदः शतम्; शरदामयुतं ययौ R.1.1; U. 1.15; धारिणीभूतधारिण्योर्भव भर्ता शरच्छतम् M.1.15. -Comp. -अन्तः The end of autumn, winter. -अम्बुधरः an autumnal cloud. -उदाशयः an autumnal lake. -कामिन्m. a dog. -कालः the autumnal season. -घनः, -मेघः an autumnal cloud. -चन्द्रः (शरच्चन्द्रः) the autumnal moon. -ज्योत्स्ना (शरज्ज्योत्स्ना) autumnal moon-shine.-त्रियामा an autumnal night. -पद्मः, -द्मम् the white lotus. -पर्वन् n. the festival called Kojāgara; q. v.-मुखम् the commencement of autumn.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरद् f. (prob. fr. श्रा, शॄ)autumn (as the " time of ripening ") , the autumnal season (the sultry season of two months succeeding the rains ; in some parts of India comprising the months भाद्रand आश्विन, in other places आश्विनand कार्त्तिक, fluctuating thus from August to November) RV. etc.

शरद् f. a year (or pl. poetically for " years " See. वर्ष) ib.

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śarad. See Ṛtu.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=शरद्&oldid=504806" इत्यस्माद् प्रतिप्राप्तम्