ऋतु

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतुः, पुं, (ऋ + “अर्त्तेश्च तुः” । इति उणादिसूत्रेण १ । ७२ । तुः चकारात् कित् च ।) कालविशेषः । स तु षड्विधः यथा । मार्गपौषौ हिमः १ माघ- फाल्गुनौ शिशिरः २ चैत्रवैशाखौ वसन्तः ३ ज्यैष्ठाषाढौ ग्रीष्मः ४ श्रावणभाद्रौ वर्षाः ५ आ- श्विनकार्त्तिकौ शरत् ६ । इत्यमरः ॥ स त्रिविधो- ऽपि । कार्त्तिकाग्रहायणपौषमाघाः शीतः १ फाल्गुनचैत्रवैशाखज्यैष्ठाः ग्रीष्मः २ आषाढश्रावण- भाद्राश्विनाः वर्षाः ३ । द्विविधोऽपि । कार्त्तिका- दिषण्मासाः शीतः १ वैशाखादिषण्मासाः ग्रीष्मः २ ॥ इति स्मृतिः ॥ * ॥ (यदुक्तम् । “मासद्वयात्मकः कालः ऋतुः प्रोक्तो विचक्षणैः” । यत्र तु “द्वादश मासाः पञ्चर्त्तवः” इति श्रुतं तत्र त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः ॥ युम्मासु पुत्त्रा जायन्ते स्त्रियोऽयुम्मासु रात्रिषु । तस्मात् युग्मासु पत्त्रार्थी संविशेदार्त्तवे स्त्रियम् ॥ पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः । समेऽपुमान्पुंस्त्रियौ वा क्षीणेऽल्पे च विपर्य्ययः” ॥ “रजः सप्तदिनं यावत् ऋतुश्च भिषजां बर” ! । इति शारीरस्थाने प्रथमेऽध्याये हारीतेनोक्तम् ॥ “ऋतुस्तु द्वादशरात्रं भवति दृष्टार्त्तवम् ॥” “नियतं दिवसेऽतीते सङ्कुचत्यम्बुजं यथा । ऋतौ व्यतीते नार्य्यास्तु योनिः संव्रियते तथा ॥ मासेनोपचितं काले धमनीभ्यान्तदार्त्तवम् । ईषत् कृष्णं विगन्धञ्च वायुर्योनिमुखं नयेत् ॥ तद्वर्षाद्द्वादशात्काले वर्त्तमानमसृक् पुनः । जरापक्वशरीराणां याति पञ्चाशतः क्षयम्” ॥ इति शारीरस्थाने तृतीयेऽध्याये सुश्रुतेनोक्तम् ॥ “द्वादशाद्वत्सरादूर्द्ध्व मापञ्चाशत् समाः स्त्रियः । मासि मासि भगद्वारा प्रकृत्यैवार्त्तवं स्रवेत् ॥ आर्त्तवस्रावदिवसात् ऋतुः षोडशरात्रयः । गर्भग्रहणयोग्यस्तु स एव समयः स्मृतः” ॥ “सर्व्वासामेव चतुर्वर्णस्त्रीणां सर्व्ववादिसम्मतः । पूर्ब्बोक्तसमयः ग्रन्थान्तरेषु विषयः । तद्यथा । स्रानदिवसादूर्द्ध्वं द्वादशरात्रावधि ब्राह्मण्याः । दश- रात्रावधि क्षत्त्रियायाः । अष्टरात्रावधि तैश्यायाः । षड्रात्रावधि शूद्रायाः गर्भधारणे शक्तिः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “पद्मं सङ्कोचमायाति दिनेऽतीते यथा तथा । ऋतावतीते योनिः सा शुक्रं नातः प्रतीच्छति ॥ मासेनोपचितं रक्तं धमनीभ्यामृतौ पुनः । ईषत्कृष्णं विगन्धञ्च वायुर्योनिमु खन्नुदेत्” ॥ “ऋतुस्तु द्वादशनिशाः पूर्ब्बास्तिस्रश्च निन्दिताः” ॥ इति शारीरस्थाने प्रथमेऽध्याये वाभटेनोक्तम् ॥ शिवः । यथा महाभारते १३ । महादेवसहस्र- नामकथने १७ । १३९ । “ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः” ॥ विष्णुः । यथा, महाभारते १३ । विष्णुसहस्रनाम- कथने १४९ । ५८ । “ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः” ॥) दीप्तिः । इति मेदिनी । मासः । सुवीरः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतु पुं।

द्वौ_मासौ

समानार्थक:ऋतु

1।4।13।1।1

द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः। अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः॥

अवयव : पक्षद्वयौ

 : मार्गपौषाभ्यां_निष्पन्नः_ऋतुः, माघफाल्गुनाभ्यां_निष्पन्नः_ऋतुः, चैत्रवैशाखाभ्यां_निष्पन्नः_ऋतुः, ज्येष्ठाषाढाभ्याम्_ऋतुः, ग्रीष्मऋतुः, श्रावणभाद्राभ्यां_निष्पन्नः_ऋतुः, आश्विनकार्तिकाभ्यां_निष्पन्नः_ऋतुः

पदार्थ-विभागः : , द्रव्यम्, कालः

ऋतु पुं।

हेमन्तादयः_षड्

समानार्थक:ऋतु

1।4।20।1।1

षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्. संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

ऋतु पुं।

आर्तवम्

समानार्थक:रजस्,पुष्प,आर्तव,ऋतु

3।3।61।2।2

स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे। मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतु¦ पु॰ ऋ--तु किच्च। शिशिरः पुष्पसमयो ग्रीष्मो वर्षाशरद्धिमः। माघादिमासयुग्मैस्तु ऋतवः षट् क्रमादिमेइत्युक्ते

१ कालभेदे।
“ऋतुः स्वाभाविकः स्त्रीणां रात्रयःषोडश स्मृताः” इति मनूक्ते स्त्रीणां

२ शोणितदर्शनयोग्येगर्भधारणसमर्थे च काले
“ऋतौ भार्य्यामुपेयात्” श्रुतिः
“सकृत्सकुद्बृतावृतौ, ऋतुकालभिगामी स्यात्” मनुः। ऋतुरस्य प्राप्तः अण्। आर्त्तव स्त्रीरजसि न॰ आर्त्तवशब्दे

८०

८ पृष्ठे विवृतिः।

३ दीप्तौ

४ मासे च। मासद्वयात्मक( ऋतुश्च सौरश्चान्द्रश्च यथा काल॰ मा॰
“ऋतुशब्दस्यऋ गतावित्यस्माद्धातोर्निष्पन्नः। इयर्त्ति गच्छति अशोक-पुष्पविकासान् साधारणलिङ्गमिति वसन्तादिकालविशेषऋतुः। स च षद्धिधः
“षड्वा ऋतव इति” श्रुतेः। यत्त
“द्वादश मासाः पञ्चर्त्तव” इति श्रुतं तत्र हेमन्तशिशिरयो-रेकीकरणं विवक्षितं याजमानेषु पञ्चप्रयाजानुमन्त्रणमन्त्रेषुहेमन्तशिशिरयोरेकस्मिन्नेकेनैव पदेनैकीकरणमित्युक्तं तथाहि
“वसन्तमृतूनां प्रीणामि ग्रीष्ममृतूनां प्रीणामि वर्षाऋतूनां प्रीणामि शरदमृतूनां प्रीणामीति” चतुर्णां प्रया-जानां पृथक् पृथगनुमन्त्रणमन्त्रानाम्नाय पञ्चमप्रयाजस्यानुमन्त्रणे मन्त्र एवं श्रूयते
“हेमन्तशिशिरावृतूनां प्रीणा-मीति” एतदेवाभिप्रेत्य बह्वृचब्राह्मणे द्वादश मासाः पञ्च-र्त्तवो हेमन्तशिशिरयोः समासेनेति” यत्वनयोर्मन्त्रब्राह्म-णयोर्ष्ट्विवचनं ततस्वरूपद्वैविध्याभिप्रायेण शिशिरस्य षष्ठ-स्यान्तिमत्वात्तेनानुमन्त्रणीयस्य षष्ठप्रयाजस्याभावाच्च तस्यैवपञ्चमे हेमन्तेऽन्तर्भावोन्याय्यः। अतएव प्रयाजब्राह्मणे
“वसन्तमेवर्तूनामवरुन्ध” इत्यादिना चतुरः प्रयाजान् प्रशस्यपञ्चमे प्रयाजे केवलेन हेमन्तेन प्रशंसा
“स्वाहाकारं य-जति हेमन्तमेवावरुन्धे” इति। अस्तु नाम यथा तथा प-ञ्चसंख्या तथापि स्वरूपेण षोढा भिद्यते द्वादमासात्मकेसंवत्सरे एकैकस्य ऋतोर्मासद्वयात्मकत्वे सत्येकादश द्वादश-मासयोर्वर्ज यितुमशकत्वात् षष्ठर्तौ पृथगनुष्ठानविधा-नाच्च तच्चोपरिष्टदुदाहरिष्यामः। मासद्वयात्मकत्वंचाग्निचयने ऋतव्येष्टकोपधानब्राह्मणे श्रूयते।
“द्वन्द्वमु-पदधाति तस्मात् द्वन्द्वमृतव” इति। एकस्मिन् ऋतौ कयो-र्मासयोर्द्वन्द्वं ग्रहीतव्यमिति चेत् वसन्ताद्यृतुक्रमेण चैत्र-मासादि द्वन्द्वभिति ब्रूमः। तच्चेष्टकोपधानमन्त्रेषु श्रू-यते
“मधुश्च माधवश्च वासन्तिकावृतू”
“शुक्रश्च शुचिश्च ग्रै-ष्मावृतू”
“नभश्च नभस्यश्च वार्षिकावृतू” इषश्चोर्जश्च
“शार-दावृतू”
“सहश्च सहस्यश्च हैमन्तिकावृतू”
“तपश्च तपस्यश्च[Page1434-a+ 38] शिशिरावृतू” एषु च वाक्येषु ऋतू इति द्विवचनं मासाभि-प्रायम् अन्यथा षडृतव इति श्रूयमाणा षट्संख्या बाध्येत। अवयवावयविनोर्वसन्तादेरेकात्मत्वं सौत्रामणीयहौत्रमन्त्रेषुएकवचनेन व्यवहारादवगन्तव्यं
“वसन्तेन ऋतुना देवाः,ग्रीष्मेण ऋतुना देवा” इत्यादि हि तत्र पठ्यते तथैवाधान-ब्राह्मणे श्रूयते
“वसन्तो वै व्राह्मणस्यर्त्तुः, ग्रीष्मो वै राज-न्यस्यर्त्तुः, शरद्वैश्यस्यर्त्तुरिति” यद्यप्येते षडृतवो घटीयन्त्र-वन्नैरन्तर्य्येण प्रवर्त्तन्ते तथापि संवत्सरोपक्रमरूपत्वेनवसन्तस्य प्राथम्यं द्रष्टव्यम् एतदेवाभिप्रेत्य श्रूयते
“मुखं वाएतदृतूनां वसन्त” इति पूर्वोदाहृतेषु मन्त्रब्राह्मणेषु सर्वत्रवसन्तोपक्रमणाच्च वसन्तस्य प्राथम्यं ते च वसन्ताद्यृ-तवो द्विविधाः चान्द्राः सौराश्च। चैत्रादयश्चान्द्राः तच्चो-दाहृतं
“मधुश्च माधवश्चेत्यादिना” न च तत्र चैत्रादयो-नोक्ता इति शङ्कनीयं मध्वादिशब्दानां चैत्रादिपर्याय-त्वात्। अत एबाहुः
“चैत्रोमासी मधुःप्रोक्तो वैशाखोमाधवो मवत्। ज्यैष्ठमासस्तु शुक्रः स्यादाषाढः शु-चिरुच्यते। नभोमासः श्रावणः स्यान्नभस्यो भाद्र उच्यते। इषश्चाश्वयजोमासः कार्त्तिकश्चोर्जसंज्ञकः। सहीमासोमार्गशिरः सहस्यः पुष्पनामकः। माघमासस्तपाः प्रोक्तस्तपस्यः फाल्गुनः स्मृतः” इति। एतेषां चैत्राद्यात्मकानांवसन्तादीनां चन्द्रगतिपरिकल्प्यत्वाच्चान्द्रत्वम्। अतएव हो-तृमन्त्रेषु आम्नायते
“चन्द्रमाः षड्ढोता स ऋतून् कल्प-यति तथा” सूक्तविशेषे सूर्याचन्द्रमसौ प्रकृत्य आम्नायते
“पूर्वापरं चरन्तौ माययैतौ शिशू क्रीलन्तौ परियातो अ-ध्वरम्। विश्वान्यन्योभुवनाभिचष्ट ऋतूनन्योविदधज्जायतेपुनरिति” अत्र पुनर्जायत इति लिङ्गादनुविधाता चन्द्रइति अवगम्यते। नन्वस्त्वेवं मध्वादीनां चान्द्रमासानांवसन्ताद्यृतुत्वं संसर्पाख्यस्य तु त्रयोदशस्य चान्द्रमासस्यकथमृतुषु निर्वाहः। तन्माससद्भावश्चर्तुग्रहब्राह्मणे मन्त्रा-नुवादपुरस्मरमाम्नायते
“उपयामगृहीतोऽसि संसर्पोऽसिअहस्पत्यायत्ये स्वाहास्ति त्रयोदशोमास इत्याहुस्तमेव तत्प्रीणातीति” तथा प्रवर्ग्यब्राह्मणेऽपि
“अस्ति त्रयोद शो-मास इत्याहुः यत्त्रयोदश परिधिर्भवति तेनैव त्रयोदशंमासमवरुन्धे” इति। तदुत्पत्तिप्रकारोऽस्माभिर्मलमासनिर्णये वक्ष्यते। विद्यतामेवं त्रयोदशोमासस्तस्य का उप-पत्तिर्वसन्तादिषु ऋतुषु इति चेत् उच्यते किमथं सप्तमऋतुः? आहोस्विदुक्तेष्वैव षट्सु अन्तर्भावः? उतर्त्तुद्वयान्त-रालवर्त्ती कश्चिदनृतुरूपः? न तावत् पश्चिमः
“ऋतुरृतु-[Page1434-b+ 38] नानुद्यमान” इति ऋतूनां नैरतर्यश्रवणात्। नाप्य-ग्रिमः।
“षड्वा ऋतवः” इति षट्संख्यानियमात्। वसन्तादिवन्मन्त्रब्राह्मणयोर्नामान्तराश्रवणाच्च नापिमध्यमः मध्वादिषु अपाठात्। उच्यते ययोर्मासयोर्मध्येमलमासो दृश्यते तयोरुत्तरस्मिंस्तस्यान्तर्भावः। तथा चासौषष्टिदिवसात्मकोमलिनशुद्धभागद्वयात्मक इति मध्वादिशब्द-वाच्यत्वेनोक्तेष्वन्तर्भावान्न काप्यनुपपत्तिः। सौरेषु ऋतुषुबौघायनेन मीनमेषयोर्मेषवृषयोर्वा वसन्त इत्यभिधानात्मीनादित्वं मेषादित्वं च वैकल्पिकं वसन्तस्याङ्गीकृतम्। तथा च तदनुसारेण उत्तरे ग्रीष्मादयोऽपि यथायथंविकल्प्यन्ते। विनियोगश्चैषां ऋतुविशेषाणां श्रुतिस्मृतिपुराणेष्ववगम्यते। तत्र श्रुतिः।
“वसन्ते ब्राह्मणोऽग्नि-मादधीत, ग्रीष्मे राजन्य आदधीत, शरदि वैश्य आद-धीतेत्यादि” स्मृतिरपि
“वसन्ते ब्राह्मणं उपनयीत, ग्रीष्मे-राजन्यं शरदि वैश्यमिति” विष्णुधर्मोत्तरेऽपि परामूर्त्ति-व्रते वसन्ताद्यृतषु पृथक्पूजा विशेषतः कथिताः। तथा तत्रैववसन्ते स्नानानुलेपादिदानम् ग्रीष्मे मानकादिदानमुक्तंदेवीपुराणे। वर्षासु तिलदामं तथा शरद्यन्नदानं हेमन्तेवस्त्राग्निदानं शिशिरे वस्त्रदानमित्येतानि विष्णुधर्मोत्तरएवोक्तानि एवमन्यदप्युदोहार्य्यम्”।
“वसन्तेन ऋतुना देवा वसवस्त्रिवृतास्तुताः”
“ग्रीष्मेणऋतुना देवा रुद्राः पञ्चदशे स्तुताः”
“वर्षाभिरृतुना-दित्या स्तोमे सप्तदशे स्तुताः”
“शारदेन ऋतुना देवाएकविंश ऋभवस्तुताः”
“हेमन्तेन ऋतुना देवास्त्रिणवे म-रुतस्तुताः”
“शैशिरेण ऋतुना देवास्त्रयस्त्रिंशेऽमृतास्तुताःप्राखस्यात्” यजु॰ २१ , २३ , २४ , ३५ , २६ , २७ , २८ । सूर्य्यसिद्धान्तेतु सौरत्वमङ्गीकृतम्। यथा
“द्विराशिनाथा-ऋतवस्ततीऽपि शिशिरादयः। मेषादयो द्वादशैते मासास्तै-रैव वत्सरः”। ऋतुमध्ये च वत्सरारम्भकत्वं वसन्तस्यैवतच्च काल॰ मा॰ उक्तम् अतएव गीतायाम्
“ऋतूनां कुसुमा-कारः” इत्यनेन वसन्तस्य ऋतुषु प्रथमत्वेव भगद्विमूतित्वमु-क्तम्” म॰ त॰ ब्रह्मपु॰।
“चैत्रे मासि जगत् ब्रह्मा ससर्ज्जंप्रथमेऽहनि। शुक्लपक्षे समग्रन्तु तदा सूर्य्योदये सति। प्रवर्त्तयामास तदा कालस्य गणनामपि। ग्रहान्राशीनृ-तून् मासान् वत्सरान् वत्सराधिपान्”। मासर्त्तुवत्सराणा व्यक्तं चन्द्रत्वमुक्तम् ब्रह्मसिद्धान्तेऽपि
“चैत्रसि-तादेरुदयाद्भानोर्बर्षर्त्तुमासयुगकल्पाः। सृष्ट्यादौ लङ्काया-माह प्रवृत्ता दिनैर्वत्स” ! चैत्रसितादेश्चैत्रशुक्लप्रतिपदमा-[Page1435-a+ 38] रभ्येत्यर्थः दिनैस्तिथिभिः” म॰ त॰।

५ मासद्वयमात्रे
“मुख्यंश्राद्धं मासि मासि अपर्य्याप्तावृतुं प्रति” स्मृतिः। सुश्रुते ऋतुनिरूपणं तद्गुणलिङ्गादि च दर्शितं यथा
“अथात ऋतुचर्य्याध्यायं व्याख्यास्यामः कालोहि नामभगवान् स्वयम्भूरनादिमध्यनिधनोऽत्र रसव्यापत्सं पत्तीजीवितमरणे च मनुष्याणामायत्ते स सूक्ष्मामपि कलांन लीयत इति कालः सङ्कलयति कालयति वा भूता-नीति कालः। तस्य संवत्सरात्मनोभगवानादित्यो गति-विशेषेणाक्षिनिमेषकाष्ठाकलामुहूर्त्ताहोरात्रपक्षमासर्त्त्वय-नसंवत्सरयुगप्रविभागं करोति। तत्र लघ्वक्षरोच्चारणमा-त्रोऽक्षिनिमेषः। पञ्चदशाक्षिनिमेषाः काष्ठा। त्रिंश-त्काष्ठाः कला विशंतिकलोमुहूर्त्तः कलादशभागश्च। त्रिंशन्मुहूर्त्तमहोरात्रम्। पञ्चदशाहोरात्राणि पक्षः। सच द्विविधः शुक्लः कृष्णश्च तौ मासः। तत्र माघादयोद्वादश मासा द्विमासिकमृतुं कृत्वा षडृतवो भवन्ति। तेशिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः। तेषां तपस्तपस्यौ शि-शिरः। मधुमाधवौ वसन्तः। शुचिशुक्रौ ग्रीष्मः। नभी-नभस्यौ वर्षा। इषोर्जौ शरत्। सहःसहस्यौ हेमन्त इति। त एते शीतोष्णबर्षलक्षणाश्चन्द्रादित्ययोः कालविभागकर-त्वादयने द्वे भवतो दक्षिणमुत्तरञ्च। तयोर्दक्षिणं वर्षाश-रद्धेमन्तास्तेषु भगवानाप्याय्यते सोमोऽम्ललवणमधुराश्चरसा बलवन्तो भवन्त्युत्तरोत्तरञ्च सर्वप्राणिनां बलम-भिवर्द्धते। उत्तरञ्च शिशिरवसन्तग्रीष्मास्तेषु भगवानाप्या-य्यतेऽर्कस्तिक्तकषायकटुकाश्च रसा बलवन्तोभवन्त्युत्तरोत्तरञ्चसर्वपाणिनां बलमपहीयते। भवति चात्र। शीतांशुः क्लेद-ययुर्वीं विवस्वान् शोषयत्यपि। तावुभावपि संश्रित्य वायुःपालयति प्रजाः। अथ खल्वयने द्वे युगपत्संवसरो भवति। ते तु पञ्च युगभिति संज्ञां लभन्ते। स एष निमेषादियुगपर्य्यन्तः कालश्रक्रषत्परिवर्त्तमानः कालचक्रमुच्यत-इत्येके। इह तु वर्षाशरद्वेमन्तवसन्तग्रीष्मप्रावृषः षडृतवोभवन्ति दोषोपचयप्रकोपोपशमनिमित्तम्। ते तु भाद्रपदा-द्येनं द्विम सिकेन व्याख्याताः। तद्यथा भाद्रपदाश्वयुजौवर्षाः। कर्त्तिकमार्गशीर्षौ शरत्। पौषमाघौ हेमन्तः। फाल्गुनचैत्रौ वसन्तः। वैशाखज्यैष्ठौ ग्रीष्मः। आषाढ-श्रावणौ प्रावृडिति। तत्र वर्षास्वोषधयस्तरुण्योऽल्पवीर्याआपश्चाप्रसन्नाः क्षितिमलप्रायास्ता उपयुज्यमाना नभसिमेघावतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनांशीतवातविष्टब्धाग्नीनां विदह्यन्ते विदाहात् पित्तसञ्चयमा-[Page1435-b+ 38] पादयन्ति स सञ्चयः शरदि प्रविरलमेघे वियत्युपशुष्यतिपङ्केऽर्ककिरणप्रविलापितः पैत्तिकान् व्याधीन् जनयति। ताएवौषधयः कालपरिणामात्परिणतवीर्य्या बलवत्यो हेमन्तेभवन्त्यापश्च प्रसन्नाः स्निग्धा अत्यर्थं गुर्व्यस्ता उपयुज्यमानामन्दकिरणत्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानांदेहिनामविदग्धाः स्नेहाच्छैत्याद्गौरवादुपलेपाच्च श्लेष्मणःसञ्चयपापादयन्ति स सञ्चयो वसन्तेऽर्क्करश्मिप्रविलापितईषत्स्तब्धदेहानां देहिनां श्लैष्मिकान् व्याधीन् जनयति। ता एवौषधयो निदाघे निःसारा रूक्षा अतिमात्रं लघ्व्योभवन्त्यापश्च ता उपयुज्यमानाः सूर्य्यप्रतापोपशोषितदे-हानां देहिनां रौक्ष्याल्लघुत्वाद्वैशद्याच्च वायोः सञ्चयमापाद-यन्ति स सञ्चयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौक्लिन्नदेहानां प्राणिनां शीतवातवर्षेरितो वातिकान् व्याधीन्जनयति। एवमेष दोषाणां सञ्चयप्रकोपहेतुरुक्तः। तत्र वर्षाहेमन्तग्रीष्मेषु सञ्चितानां दोषाणां शरद्वसन्त-प्रावृट्सु च प्रकुपितानां निर्हरणं कर्त्तव्यम्। तत्र पै-त्तिकानां व्याधीनामुपशमो हेमन्ते, श्लैष्मिकाणां नि-दाघे, वातिकानां घनात्यये, स्वभावत एव, त एते सञ्चय-प्रकोपोपशमा व्याख्याताः। तत्र पूर्वाह्णे वसन्तस्य लिङ्गंमध्याह्णे ग्रीष्मस्य, अपराह्णे प्रावृषः, प्रदोषे वार्षिकम्,शारदमर्द्धरात्रे प्रत्यूषसि हैमन्तमुपलक्षयेत्। एवमहो-रात्रमपि वर्षमिव शीतोष्णवर्षलक्षणं दोषोपचयप्रको-पोपशमैर्जानीयात्। तत्राव्यापन्नेष्वृतुष्वव्यापन्ना ओष-धयो भवन्त्यापश्च ता उपयुज्यमानाः प्राणायुर्बलवीर्यौ-जस्कर्यो भवन्ति। तेषां व्यापदोऽदृष्टकारिताः। शीतो-ष्णवातवर्षाणि खलु विपरीतान्योषधीर्व्या पादयन्त्यपश्च,तासामुपयोगाद्विविधरोगप्रादुर्भावो मरको वा भवेदिति। तत्राव्यापन्नानामोषधीनामपाञ्चोपयोगः कदाचिदव्या-पन्नेष्वप्यृतुषु कृत्यापिशाचरक्षःक्रोधाधर्मैरुपध्वस्यन्ते जन-पदाः। विषौषधीपुष्पगन्धेन वायुनोपनीतेनाक्रम्यते योदेशस्त्रत्र दोषप्रकृत्यविशेषेण कासश्वासवमथुप्रतिश्यायशि-रोरुग्ज्वरैरुपतप्यन्ते ग्रहनक्षत्रचरितैर्वा गृहदारशयना-सनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भा-वैर्वा। तत्र स्थानपरित्यागशान्तिकर्मप्रायश्चित्तमङ्गलजप-होमोपहारेज्याञ्जलिनमस्कारतपोनियमदयादानदीक्षा-भ्युपगमदेवताब्राह्मणगुरुपरैर्भवितव्यमेवं साधु भवति। ऋतूनामत ऊर्द्ध्वमव्यापन्नानां लक्षणान्युपदेक्ष्यामः। वायुवात्युत्तरः शीतो रजोधूमाकुला दिशः। छन्नस्तु-[Page1436-a+ 38] षारः सविता हिमानद्धा जलाशयाः। दर्पिता ध्वा-ङ्क्षखड्गाह्वमहिषोरभ्रकुञ्जराः। लोध्रप्रियङ्गुपुन्नागाः पु-ष्पिता हिमसाह्वये। शिशिरे शीतमधिकं वातवृष्ट्या-कुला दिशः। शेषं हेमन्तवत्सर्वं विज्ञेयं लक्षणं बुधैः। दिशो वसन्ते विमलाः काननैरुपशोभिताः। किंशु-काम्भोजवकुलचूताशोकादिपुष्पितैः। कोकिलाः षट्पद-गणैरुपगोता मनीहराः। दक्षिणानिलसंवीताः सु-सुखाः पल्वलोज्ज्वलाः। ग्रीष्मे तीक्ष्णांशुरादित्यो मा-रुतो नैरृतोऽसुखः। भूस्तप्ता सरितस्तन्व्यो दिशः प्र-ज्वलिता इव। भ्रान्तचक्राह्वयुगलाः पयःपानाकुलामृगाः। ध्वस्तवीरुत्तृणलताविपर्ण्णङ्कितपादपाः। प्रा-वृष्यम्बरमानद्धं पश्चिमानिलकर्षितैः। अम्बुदैर्विद्युदुद्योत-प्रस्रुतैस्तुमुलस्वनैः। कोमलश्यामशस्पाढ्या शक्रगोपो-ज्ज्वला मही। कदम्बनीपकुटजसर्जकेतकिभूषिता। तत्रवर्षामु नद्यम्भःपूरोद्भग्नतटद्रु माः। वाप्यः प्रोत्फुल्लकु-मुदनीलोत्पलविराजिताः। मूरव्यक्तस्थलश्वभ्रा बहुशस्यो-पशोभिता। नातिगर्जत्स्रवन्मेघनिरुद्धार्कग्रहं नभः। वभ्रुरुष्णः शरद्यर्कः श्वेताभ्रविमलं नभः। तथा सरां-स्यम्बुरुहैर्भान्ति हंसांसघट्टितैः। पङ्कशुष्कद्रुमाकीर्ण्णा नि-म्रोन्नतसमेषु भूः। वाणसप्ताह्वबन्धूककाशासनविराजिता। स्वगुणैरतियुक्तेषु विपरीतेषु वा पुनः। विष मेष्वपिवा दोषाः कुप्यन्त्यृतुषु देहिनाम्। हरेद्वसन्ते श्लेष्माणंपिर्त्त शरदि निर्हरेत्। वर्षासु शमयेद्वायुं प्राग्विकार-समुच्छ्रयात्” ऋतुचार्य्याध्यायः। आ॰ त॰ ऋतुगुणादि यथा
“मासैर्द्विसंख्यैर्माघाद्यैः क्रमात् षडृतवः” स्मृताः। हे-मन्ते कुपिताद्वायोः स्वाद्वम्ललवणान्रसान्। गोधूभपिष्टमां-सेक्षुक्षीरोत्थविकृतिर्भजेत्। नवमन्नं रसान् तैलं शौचेतप्तोदकं नरः। शक्त्यार्ककिरणान् स्वेदं पादत्राणञ्चसर्वदा। उष्णस्वभावैर्लघुभिः प्रावृतः शयनं भजेत्। अयमेव विधिः कार्य्यः शिशिरेऽपि विशेषतः। वसन्ते कुपितःश्लेष्मा ह्यग्निमान्द्यं करोत्यतः। तीक्ष्णं वमननस्यादिकवलग्रहमञ्जनम्। व्यायामोद्वर्त्तनं धूमं शौचे तप्तोदकंभजेत्। पुराणयवगोधूमक्षौद्रजाङ्गलमांसभुक्। गुरूष्णस्निग्धमधुरं दिवा स्वप्नञ्च वर्जयेत्। स्वादु शीतं द्रवंस्निग्धमनुपानं सशर्करम्। घृतं पयः सशाल्यम्लंभजन् ग्रीष्मे न सीदति। मध्याह्ने शीतले सुप्यात् निशिवातहिमाश्रिते। लवणाम्लकटूष्णानि व्यायामञ्चात्र वर्ज-{??}। वर्षास्वग्निवले हीने कुप्यन्ते पवनादयः। अग्नेः[Page1436-b+ 38] संवर्द्धकं द्रव्यं जीर्णधान्यं रसान् लघु। जाङ्गलं पिशितंमुद्गान् दिव्यं कौपं जलं शुचि। वृक्षाम्ललवणं स्नेहंसंशुष्कं क्षौद्रमेव च। नदीजलौदनञ्चाहःस्वप्नायासातपां-स्त्यजेत्। शरदि कुपिते पित्ते विरेकं रक्तमोक्षणम्। स्वादुतिक्तकषायेक्षुशालिमुद्गसरोजलम्। तुषारक्षरसौ-हित्यदधितैलरसातपान्। अम्लतीक्ष्णदिवास्वप्नप्राची-वातान् विवर्जयेत्। नित्यं सर्वरसास्वादः स्वस्वाधिक्य-मृतावृतौ। ऋतूनां शेषसप्ताहे सेवितव्यः पराक्रमः। तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येन प्रवत्तैते। अजातानांविकाराणामनुत्पत्तिकरञ्च यत्। व्यायामादपतर्पणा-दभिभवाद्भङ्गात् क्षयाज्जागरात् वेगानाञ्च विधारणा-दतिशुचः शैत्यादतित्रासतः। रूक्षक्षोभकषायतिक्तकटुकै-रेभिः प्रकोपं व्रजेद्वायुर्वारिधरागमे परिणते चान्ने ऽप-राह्णेऽपि च। कट्वम्लोष्णविदाहितीक्ष्णलवणक्रोधोपवासात-पस्त्रीसम्पर्कतिलातसीदधिसुरासूक्तारनालादिभिः। भुङ्क्षेजीर्य्यति भोजने च शरदि ग्रीष्मे सति प्राणिनाम् म-ध्याह्ने च तथार्द्धरात्रसमये पित्तप्रकोपं व्रजेत्। गुरुमधुररसातिस्निग्धदुग्धेक्षुभक्ष्यद्रवदधिदिननिद्रासूपसर्पिःप्रपूरैः। तुहिनपतनकाले श्लेष्मणः संप्रकोपः प्रभवति दिवसादौभुक्तमात्रे वसन्ते”।

६ कालमात्रे ऋतुधाशब्दे उदा॰।

७ तदभिमानिदेवे पु॰। ऋतव्यशब्दे उदा॰।

८ विष्णौ पु॰।
“ऋतुः सुदर्शनःकालः” विष्णुस॰।
“कालात्मना ऋतुशब्देन लक्ष्यते इति ऋतुः” भा॰।
“प्रधानपुरुषक्षोभकंयत्कालाख्यं रूपं तदृतुशब्देन लक्ष्यते” आनन्दगि॰। ऋतुरस्य प्राप्तः अण्। आर्त्तव प्राप्तर्त्तुके त्रि॰ स्त्रियांङीप्। छन्दसि घस् सित्त्वान्न गुणः। ऋत्विय तदर्थेत्रि॰। ऋतुर्देवताऽस्य यत्। ऋतव्य ऋतुदेवताके इष्टकादौ।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतु¦ m. (-तुः)
1. A season, (the Hindu year is divided into six seasons, each consisting of two months.)
2. The menstrual evacuation.
3. The time favourable for procreation, or sixteen days in each month.
4. A month.
5. A kind of collyrium.
6. Light. E. ऋ to go, तु Una4di aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतुः [ṛtuḥ], [ऋ-तु-किच्च Uṇ1.71]

A season, period of the year, commonly reckoned to be six; शिशिरश्च वसन्तश्च ग्रीष्मो वर्षाः शरद्धिमः; sometimes only five; शिशिर and हिम or हेमन्त being counted together; cf. पञ्चर्तवो हेमन्तशिशिरयोः समासेन Ait. Br. वसन्तश्चैत्रवैशाखौ ज्येष्ठाषाढौ च ग्रीष्मकौ । वर्षा श्रावणभाद्राभ्यां शरदश्विनकार्तिकौ ॥ मार्गपौषौ च हेमन्तः शिशिरो माघफाल्गुनौ ॥ गोरक्षसंहिता.

An epoch, a period, any fixed or appointed time.

Menstruation, courses, menstrual discharge.

A period favourable for conception; वरमृतुषु नैवाभिगमनम् Pt.1; ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः Ms.3.46,9.7; Y.1.11,79.

Any fit season or right time.

Fixed order or rule; द्वा यन्तारा भवतस्तथ ऋतुः Rv.1.162.19.

Light, splendour.

A month.

N. of Viṣṇu.

A symbolical expression for the number 'six'.

A kind of collyrium.

Comp. अन्तः the close of a season.

termination of menstruation.

कालः, समयः, वेला the time of menstruation, time favourable for conception, i. e. 16 nights from menstrual discharge; see ऋतु above.

the duration of a season. -गणः the seasons taken collectively. -गामिन् a. having intercourse with a wife (at the time fit for conception, i. e. after the period of menstruation). -ग्रहः a libation offered to the seasons, a kind of sacrifice. -चर्या f. seasonal proceeding; अथातः संप्रवक्ष्यामि ऋतुचर्यास्तु वाजिनाम् Bhoja's Śālihotra 92. -जुष्f. A woman enjoying intercourse at the time fit for procreation; Ks. -धामन् m. N. of Viṣṇu

पतिः the lord of seasons, i. e. the spring.

N. of Agni; Rv.1.2.1.

N. of other deities; Av.3.1.9. -पर्णः N. of a king of Ayodhyā; son of Ayutāyu, a descendant of Ikṣvāku. [Nala, king of Niṣadha, entered into his service after he had lost his kingdom and suffered very great adversity. He was 'profoundly skilled in dice'; and he exchanged with Nala this skill for his skill in horsemanship; and by virtue of it the king succeeded in taking Nala to Kuṇḍinapura before Damayantī had put into execution her resolve of taking a second husband]. -पर्यायः, -वृत्तिः the revolution of the seasons; cf. Ms.1.29. -पशुः An animal to be sacrificed at a particular season. -पाः m. N. of Indra. -पात्रम् the cup in which the libation is offered. -प्राप्त a. fertile, fruitful. -प्रैषः N. of particular invocations spoken before the sacrifice to the seasons. Ait. Br.5.9.3,4. -मुखम् the beginning or first day of a season. -याजः a sacrifice offered to the seasons. -राजः the spring.

लिङ्गम् a characteristic or sign of the season (as the blossom of the mango tree in spring); यथर्तुलिङ्गान्यृतवः स्वयमेवर्तुपर्यये Ms. 1.3.

a symptom of menstruation. -लोका f. N. of particular bricks; Śat. Br.1. -ष्ठा (स्था) a. fixed at the proper seasons; Vāj.17.3. -संहारः 'collection of the seasons, N. of Kālidāsa's work on the six seasons.

सन्धिः the junction of two seasons.

the last day in the bright fortnight (पौर्णमासी) and in the dark one (दर्श). -सात्म्यम् diet &c. suited to the season.-स्तोमः a kind of sacrifice. -स्नाता a woman who has bathed after menstruation and who is, therefore, fit for sexual intercourse; धर्मलोपभयाद्राज्ञीमृतुस्नाताभिमां स्मरन् R.1.76. -स्नानम् bathing after menstruation.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतु m. ( Un2. i , 72 ) any settled point of time , fixed time , time appointed for any action ( esp. for sacrifices and other regular worship) , right or fit time RV. AV. VS.

ऋतु m. an epoch , period ( esp. a division or part of the year) , season (the number of the divisions of the year is in ancient times , three , five , six , seven , twelve , thirteen , and twenty-four ; in later time six seasons are enumerated , viz. वसन्त, " spring " ; ग्रीष्म, " the hot season " ; वर्षाs ( f. pl. nom. ) , " the rainy season " S3arad , " autumn " ; हेमन्त, " winter " ; and शिशिर, " the cool season " ; the seasons are not unfrequently personified , addressed in मन्त्रs , and worshipped by libations) RV. AV. VS. etc. MBh. Mn. etc.

ऋतु m. symbolical expression for the number six VarBr2S. Su1ryas. etc.

ऋतु m. the menstrual discharge (in women) , the time after the courses (favourable for procreation ; according to Bhpr. sixteen days after their appearance) Sus3r. MBh. Mn. etc.

ऋतु m. sexual union at the above time Mn. ix , 93 MBh.

ऋतु m. fixed order , order , rule([ BRD. ]) RV. i , 162 , 19

ऋतु m. light , splendour L.

ऋतु m. a particular mineral L.

ऋतु m. N. of a ऋषि

ऋतु m. of the twelfth मनु.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Sutapa god. Br. IV. 1. १४.
(II)--an अमिताभ god. Br. IV. 1. १६. [page१-266+ ४०]
(III)--wife समत्ती; with the sun in the हेमन्त वा. २८. ३१; ५२. १६.
(IV)--one of the twenty Sutapa गणस्। वा. १००. १५.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṛtu, ‘season,’ is a term repeatedly mentioned from the Rigveda[१] onwards, Three seasons of the year are often alluded to,[२] but the names are not usually specified. In one passage of the Rigveda[३] spring (vasanta), summer (grīṣma), and autumn (śarad) are given. The Rigveda knows also the rainy season (prā-vṛṣ) and the winter (himā, hemanta). A more usual[४] division (not found in the Rigveda) is into five seasons, vasanta, grīṣma, varṣā, śarad, hemama-siśira, but occasionally the five are otherwise divided, varṣā-śarad being made one season.[५] Sometimes six[६] seasons are reckoned, hemanta and śiśira being divided, so that the six seasons can be made parallel to the twelve months of the year. A still more artificial arrangement[७] makes the seasons seven, possibly by reckoning the intercalary month as a season, as Weber and Zimmer[८] hold, or more probably because of the predilection for the number seven, as Roth[९] suggests. Occasionally the word ṛtu is applied to the months.[१०] The last season, according to the Śatapatha Brāhmaṇa,[११] is hemanta.

The growth of the division of the seasons from three to five is rightly explained by Zimmer[१२] as indicating the advance of the Vedic Indians towards the east. It is not Rigvedic, but dominates the later Saṃhitās. Traces of an earlier division of the year into winter and summer do not appear clearly in the Rigveda, where the appropriate words himā and samā are merely general appellations of the year, and where śarad[१३] is commoner than either as a designation of the year, because it denotes the harvest, a time of overwhelming importance to a young agricultural people. The division of the year in one passage of the Atharvaveda[१४] into two periods of six months is merely formal, and in no way an indication of old tradition.

  1. i. 49, 3;
    84, 18, etc.
  2. Cf. Rv. i. 164, 2 (tri-nābhi), 48 (trīṇi nabhyāni);
    also perhaps the Ṛbhus as the genii of the three seasons and the three dawns. Cf. Macdonell, Vedic Mythology, p. 133;
    Hillebrandt, Vedische Mythologie, 2, 33 et seq.: Śatapatha Brāhmaṇa, xiv. 1, 1, 28, and the cāturmāsyāni, or four-monthly sacrifices performed at the beginning of the seasons in the ritual (Weber, Naxatra, 2, 329 et seq.).
  3. x. 90, 6. Hillebrandt, op. cit., 2, 35, finds in Rv. v. 14, 4: ix. 91, 6, reference to three seasons in the triad gāvaḥ (? spring), āpaḥ (rains), svar (= gharma), and in the ritual literature (Āpastamba Śrauta Sūtra, viii. 4, 2) in the threefold division into ṛta, gharma, and oṣadhi.
  4. Av. viii. 2, 22;
    9, 15;
    xiii. 1, 18;
    Taittirīya Saṃhitā, i. 6, 2, 3;
    iv. 3, 3, 1. 2;
    v. 1, 10, 3;
    3, 1, 2;
    4. 12, 2;
    6. 10, 1;
    7, 2, 4;
    vii. 1, 18, 1. 2;
    Maitrāyaṇī Saṃhitā, i. 7, 3;
    iii. 4, 8;
    13, 1;
    Kāṭhaka Saṃhitā, iv. 14;
    ix. 16;
    Vājasaneyi Saṃhitā, x. 10-14;
    Śatapatha Brāhmaṇa, i. 3, 5, 11;
    vi. 2, 2, 3. etc.;
    Taittirīya Brāhmaṇa, iii. 10, 4, 1;
    11, 10, 4, etc. Cf. Rv. i, 164, 13. See also Weber, op. cit., 2, 352.
  5. Satapatha Brāhmaṇa, xiii. 6, 1, 10. 11.
  6. Av. vi. 55, 2;
    xii. 1, 36;
    Taittīrīya Saṃhitā, v. 1, 5, 2;
    7, 3;
    2. 6, 1, etc.;
    Maitrāyaṇī Saṃhitā, i. 7, 3;
    iii. 11, 12;
    Kāṭhaka Saṃhitā, viii. 6;
    Vājasaneyi Saṃhitā, xxi. 23-28;
    Satapatha Brāhmaṇa, i. 7, 2, 21;
    ii. 4, 2, 24;
    xii. 8, 2, 34;
    Taittirīya Brāhmaṇa, ii. 6, 19, etc. Cf. also Rv. i. 23, 15, as interpreted by Roth, St. Petersburg Dictionary, s.v. indu.
  7. Av. vi. 61, 2;
    viii. 9, 18;
    Śatapatha Brāhmaṇa, viii. 5, 1, 15;
    ix. 1, 2, 31;
    2, 3, 45;
    3, 1, 19;
    5, 2, 8;
    perhaps Av. iv. 11, 9, and of. Rv. i. 164. 1.
  8. Indische Studien, 18, 44;
    Altindisches Leben, 374.
  9. St. Petersburg Dictionary, s.v. ṛtu. Cf. Hopkins, Religions of India, 18, 33.
  10. Av. xv. 4;
    Taittirīya Saṃhitā, iv. 4, 11, 1;
    Vājasaneyi Saṃhitā, xiii. 25;
    xiv. 6. 15. 26. 27;
    xv. 57, etc.
  11. i. 5. 3. 13.
  12. Op. cit., 373.
  13. Hopkins, American Journal of Philology, 15, 159, 160: Weber, Indische Studien, 17, 232;
    Bühler, Zcitschrift der Deutschen Morgenländischen Gesellschaft, 41, 28.
  14. viii. 9, 17. Cf. Zimmer, 372.
"https://sa.wiktionary.org/w/index.php?title=ऋतु&oldid=507281" इत्यस्माद् पुनः प्राप्तिः