ओषधि

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधिः, स्त्री, (ओषो धीयतेऽत्र । ओष + धा + कि ।) फलपाकान्तवृक्षादिः । कदली धान्यमि- त्यादिः । इत्यमरः ॥ (यदाह मनुः । १ । ४६ । “उद्भिज्जाः स्थावरा ज्ञेया वीजकाण्डाप्ररोहिणः । ओषध्यः फलपाकान्ताः बहुपुष्पफलोपगाः” ॥ तथा, कुमारे १ । १० । “भवन्ति यत्रौषधयो रजन्याम्” । तथा ७ । १ “अथौषधीनामधिपस्य वृद्धौ” । “ओषधयः प्रशुष्यन्ति गवादीनां पयां- सिच । इति हारीते प्रथमस्थाने ॥ ४ अध्याये ॥ “ओषधीर्नामरूपाभ्यां जानते ह्यजपा वने । अविपाश्चैव गोपाश्च ये चान्ये वनवासिनः ॥ न नामज्ञानमात्रेण रूपज्ञानेन वा पुनः । ओषधीनाम्पराम्प्राप्तिं कश्चिद्वेदितुमर्हति ॥ योगविन्नामरूपज्ञस्तासां तत्त्वविदुच्यते । किं पुनर्यो विजानीयादोषधीः सर्व्वथा भिषक् ॥ योगमासान्तु यो विद्याद्देशकालोपपादितम् । पुरुषं पुरुषं वीक्ष्य स विज्ञेयो भिषक्तमः” ॥ इति चरके सूत्रस्याने ॥ १ अध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधि स्त्री।

फलपाकान्तसस्याः

समानार्थक:ओषधि

2।4।6।2।1

वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः। ओषध्यः फलपाकान्ताः स्युरवन्ध्यः फलेग्रहिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधि(धी)¦ स्त्री ओषः पाको धीयतेऽत्र ओष + धा--किजातिविषयत्वाद् स्त्रीत्वे वा ङीष् ओषधी च। फलपाका-न्ते व्रीहियवादौ स्थावरभेदे।{??}षधिश्च स्थावरभेदोयथाह सुश्रुतः
“तासां स्थावराश्चतुर्विधाः वनस्पतयो वृक्षावीरुध ओषधयः। तास्वपुष्पाः फलसन्तो वनस्पतयः। पुष्पफलवन्तो वृक्षाः प्रतानवत्यः स्तम्बिन्यश्च वीरुधः। फलपाकान्ता ओषधयः” मनुरप्याह
“उद्भिज्जाः स्थाव-राज्ञेया वीजकाण्डप्ररोहिणः। ओषध्यः फलपाकान्ताबहुपुष्पफलोपगाः। अपुष्पाः फलवन्तो ये ते वनस्पतयःस्मृताः। पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः। गुच्छगुल्मं तु विविधं तथैव तृणजातयः। वीजकाण्डरुहा-[Page1563-b+ 38] श्चैव प्रताना वल्ल्य एव च। तमसा बहुरूपेण वेष्टिताःकर्म्महेतुना। अन्तःसंज्ञाभवन्त्येते सुखदुःखसमन्विताः”। ओषधीनामुत्पत्तिः तन्निर्वचनञ्च”
“तां (आहु-तिम्) हैनां नाभिराधयांचकार केशमिश्रेव हासतां व्यौक्षदोषं धयेति तत ओषधयः समभवंस्तस्मा-दोषधयो नाम” शत॰ ब्रा॰

२ ,

२ ,

३ ,

५ दर्शितम्।
“ता-ञ्चाहुतिं तस्मिन्नग्नौ व्यौक्षत् अत्यजत् इदमाहुतिद्रव्यम्ओषं पक्वं कृत्वा धय पिवेति अग्नौ प्रक्षिप्तात्तस्मादोषधयःपृथिव्यां समभवन्” भा॰। निरु॰
“या ओषधीः पूर्वजा-ताः” इत्येतामृचमधिकृत्य अन्याऽपि निरुक्तिर्दर्शिता
“ओ-षधय ओषं धयन्तीति वौषत्येनाधयतोति वा दोषंधय-न्तीति वा”। सर्वत्र पृषो॰। भाग॰

३ ,

१० अ॰ स्थावराणांषड्भेदा उक्ताः यथा
“सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषांचयः। वनस्पत्योषधिलतात्वक्सारा वीरुधोद्रुमाः। उत्-स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः”

१९ ,

२० , श्लो॰।
“मुखमेव मुख्यः प्रथमः मुख्यसर्गः तस्थूषां स्थावरा-णाम्। षडविधत्वमेवाह ये पुष्पं विना फलन्ति ते वन-स्पतयः,

१ ओषधयः फलपाकान्ताः

२ , लता आरोहणा-पेक्षाः

३ त्वक्सारा वेण्वादयः

४ लता एव काठिन्येना-रोहणानपेक्षा वीरुधः,

५ ये पुष्पैः फलन्ति ते द्रुमाः

६ तेषां साधारणलक्षणमाह ऊर्द्ध्वं स्रोत आहारसञ्चारो येषांते तमःप्रधाना अव्यक्तचैतन्या अन्तःस्पर्शमेव जानन्तिनान्यत् तदप्यन्तरेव न बहिः, विशेषिणः अव्यवस्थितपार-णामाद्यनेकभेदवन्तः” श्रीधरः। तत्र भैषज्योपयोगिनीःकतिचिदोषधीः सुश्रुतो लक्षणसहिता दर्शयामास यथा
“अथ वक्ष्यामि विज्ञानमोषधीनां पृथक् पृथक्। मण्डलैःकपिलैश्चित्रैः सर्पाभा पञ्चपर्णिनी। पञ्चारत्निप्रमाणा याविज्ञेयाऽजगरी

१ बुधैः। निष्पत्रा कनकाभासा मूले द्व्यङ्गु-लसम्मिता। सर्पाकारा लोहितान्ता श्वेतकापोति

२ रुच्यते। द्विपर्णिनीं मूलभवामरुणां कृष्णमण्डलाम्। द्व्यरत्निमात्रांजानोयाद्नोनसीं

३ गोनसाकृतिम्। सक्षीरां रोमशां मृद्वींरसेनेक्षुरसोपमाम्। एवंरूपरसाञ्चापि कृष्णकापोति

४ । मादिशेत्। कृष्णसर्पस्वरूपेण वाराही

५ कन्दसम्भवा। एकपत्रा महावीर्य्या भिन्नाञ्जनसमप्रभा। छत्रातिच्छत्रक

६ ,

७ विद्याद्रक्षोघ्ने कन्दसम्भवे। जरामृत्युनिवारिण्यौ श्वेत-कापोतिसंस्थिते। कान्तर्द्वादशभिः पत्रैर्म्मयूराङ्गरुहो-पमैः। कन्दजा काञ्चनक्षीरी कन्या

८ नाम महौषधी। करेणुः

९ सुबहुक्षीरा कन्देन गजरूपिणी। हस्तिकर्ण-[Page1564-a+ 38] पलाशस्य तुल्यपर्णा द्विपर्णिनी। अजास्तनाभकन्दा तुसक्षीरा क्षुपरूपिणी। अजा

१० महौषधी ज्ञेया शङ्खकुन्दे-न्दुपाण्डुरा। श्वेतां विचित्रकुसुमां काकादन्या समां क्षु-पाम्। चक्रका

११ मोषधीं विद्याज्जरामृत्युनिवारिणीम्। मूलिनी पञ्चभिः पत्रैः सुरक्तांशुककोमलैः। आदित्य-पर्णिनी

१२ ज्ञेया सदादित्यानुवर्त्तिनी। कनकाभा जलान्तेषुसर्वतः परिसर्पति। सक्षीरा पद्मिनीप्रख्या देवी ब्रह्म-सुवर्चला

१३ । अरत्निमात्रक्षुपका पत्रैर्द्व्यङ्गुलसम्मितैः। पुष्पैर्नीलोत्पलाकारैः फलैश्चाञ्जनसन्निमैः। श्रावणी

१४ महतीज्ञेया कनकाभा पयस्विनी। श्रावणीपाण्डुराभासामहाश्रावणिलक्षणा। गोलोमी

१५ चाजलोमी

१६ च रोमशेकन्दसम्भवे। हंस{??}दी

१७ च विच्छिन्नैः पत्रैर्मूलसमुद्भवैःअथवा शङ्खपुष्पी च

१८ समाना सर्वरूपतः। वेगेन महता-विष्टा सर्पनिर्म्मोकसन्निभा। एषा वेगवती

१९ नाम जायतेह्यम्बुदक्षवे। सप्तादौ सर्वरूपिण्यो याह्यौषध्यः प्रकी-र्त्तिताः। तासामुद्धरणं कार्य्यं मन्त्रेणानेन सर्वदा। महेन्द्ररामकृष्णानां वारणानां गवामपि। तपसा तेजसावापि प्रशाम्यध्वं शिवाय वै। मन्त्रेणानेन मतिमान्सर्व्वानप्यभिमन्त्रयेत्। अश्रद्दधानैरलसैः कृतघ्नैः पापकर्म्म-भिः। नैवासादयितुं शक्याः सोमाः

२० सीमसमास्तथा। पीतावशेषममृतं देवैर्ब्रह्मपुरोगमैः। निहितं सोमवीर्य्यासुसोमे चाप्यौषधीपतौ। देवसुन्दे ह्रदवरे तथा सिन्धौमहानदे। दृश्यते च जलान्तेषु मध्ये ब्रह्मसुवर्च्चला। आदित्यपर्णिनी ज्ञेया तथैव हि हिमक्षये। दृश्यतेऽ-जगरी नित्यं गोनसी चाम्बुदागमे। काश्मीरेषु सरोदिव्यं नाम्ना क्षुद्रकमानसम्। करेणुस्तत्र कन्या च छत्रा-तिच्छत्रके तथा। गोलोमी चाजलीमी च महती श्रावणीतथा। वसन्ते कृष्णसर्पाख्या गोनसी च प्रदृश्यते। कौ-शिकीं सरितं तीर्त्त्वा सञ्जयन्त्यास्तु पूर्व्वतः। क्षितिप्रदेशोवल्मीकैराचितो योजनत्रयम्। विज्ञेया तत्र कापोतीश्वेता वल्मीकमूर्द्धसु। मलये नलसेतौ च वेगवत्योषधीध्रुवा। कार्त्तिक्यां पौर्णमास्याञ्च भक्षयेत्तामुपोषितः। सोमवच्चात्र वर्त्तेत फलं तावच्च कीर्त्तितम्। सर्वा विचे-यास्त्वौषध्यः सोमे चाप्यर्बुदे गिरौ। सशृङ्गैर्देवचरितैर-म्बुदानीकभेदिमिः। व्याप्तस्तीर्थैश्च विख्यातैः सिद्धर्षि-सुरसेवितैः। गुह्याभिर्भीमरूपाभिः सिंहनादितकुक्षिभिः। गजालोडित तोयाभिरापगाभिः समन्ततः। विविधैर्धातु-भिश्चित्रैः सर्वत्रैवोपशोभितः। नदीसु शैलेष सरस्सु वापि[Page1564-b+ 38] पुण्येष्वरण्येषु तथाश्रमेषु। सर्वत्र सर्वाः परिमार्गितव्याःसर्वत्र भूमिर्हि वसूनि धत्ते”। शारिवाप्रभृत्योषधीनांलक्षणादिकं भावप्र॰ दर्शितं तत्तच्छब्दे उक्तं यथास्थानंवक्ष्यते च। वैदिककर्म्मोपयोगिन्य ओषधयो ग्राम्यारण्य-भेदेन चतुर्दशविधाः यथा
“तिलमाषव्रीहियवाः प्रिय-ङ्गवो गोधूमाश्चेति सप्त ग्राम्याः ओषधयः। वेणुश्यामाकनीवारजर्त्तिला गवेधुका मर्कटका गार्मुताश्चेति सप्तआरण्याः ओषधयः” इति तैत्तरीयसंभाष्ये

४ र्थकाण्डे

५ प्रपाठके

६ अनुवाके।
“अथौषधीनामधि-पस्य वृद्धौ”
“महीषधीं नक्तमिवात्मभासः” कुमा॰
“भोगीव मन्त्रौषधिरुद्धवीर्य्यः”।
“नवोदयं नाथमिवो-षधीनाम्” रघुः। ओषधीनामृतुभेदे गुणविशेषा ॠतु-शब्दे

१४

३५ पृ॰ उक्ताः।

२ देवपत्न्याञ्च।
“देवानां हैता-मग्रे पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वद्दधु-स्ताभिरेवैनामेतद्दधाति ता है ता ओषधय एवौषधयो वैदेवानां पत्न्य ओषधिभिर्हीदं सर्वं हितमोषधिभिरेवैना-मेतद्दथाति” शत॰ ब्रा॰

६ ,

५ ,

४ ,

४ ।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधि¦ f. (-धिः) An annual plant or herb, one that dies after becoming ripe. E. ओष heat, and धा to have, कि affix; or with ङीष्, ओषधी; or with इञ् affix, औषधि।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधिः [ōṣadhiḥ] धी [dhī], धी f. [ओषः पाको धीयते अत्र-धा-कि Tv.]

A herb, plant (in general); ओषध्यः फलपाकान्ताः Ms.1.46; cf. संजीवन˚.

A medicinal plant or drug.

An annual plant or herb which dies after becoming ripe.-Comp. -ईशः, -गर्भः, -नाथः the moon (as presiding over and feeding plants); cf. पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः Bg.15.13; R.2.73; Ku.7.1; Ś.4.2.-ज a. produced from plants. (-जः) fire; ज्वलयतौषधिजेन कृशानना Ki.5.14.

धरः, पतिः a dealer in medicinal drugs.

a physician.

the moon; अमृतद्रवैर्विदधदब्ज- दृशामपमार्गमोषधिपतिः स्म करैः Śi.9.36 (where it means 'physician' also).

The Soma plant.

Camphor.-प्रस्थः the capital of Himālaya; तत्प्रयातौषधिप्रस्थं स्थितये हिमवत्पुरम् Ku.6.33,36. -वनस्पतिम् Herbs and trees.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधि/ ओष-धि f. ( etym. doubtful ; probably fr. ओषabove , " light-containing " See. S3Br. ii , 2 , 4 , 5 Nir. ix , 27 )a herb , plant , simple , esp. any medicinal herb RV. AV. S3Br. MBh. etc.

ओषधि/ ओष-धि f. an annual plant or herb (which dies after becoming ripe) Mn. i , 46 , etc. Sus3r. i , 4 , 16 ; 18 Ya1jn5. etc.

ओषधि/ ओष-धि f. a remedy in general Sus3r. i , 4 , 15.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Oṣadhi : f. (pl.): Plants used as missiles ?

Described as ‘shining’ (dīpyamānāḥ); held by Aśvinau when they got ready to strike at Kṛṣṇa and Arjuna at the Khāṇḍava forest 1. 218. 32, 37.


_______________________________
*1st word in right half of page p95_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Oṣadhi : f. (pl.): Plants used as missiles ?

Described as ‘shining’ (dīpyamānāḥ); held by Aśvinau when they got ready to strike at Kṛṣṇa and Arjuna at the Khāṇḍava forest 1. 218. 32, 37.


_______________________________
*1st word in right half of page p95_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Oṣadhi.--Roughly speaking, the vegetable world is divided in Vedic literature[१] between Oṣadhi or Vīrudh ‘plants’ and Vana or Vṛkṣa ‘trees.’ Oṣadhi is employed in opposition to Vīrudh to denote plants as possessing a healing power or some other quality useful to men, while Vīrudh is rather a generic term for minor vegetable growths, but sometimes,[२] when occurring beside Oṣadhi, signifies those plants which do not possess medicinal properties.

A list of the minor parts of which a plant is made up is given in the later Saṃhitās.[३] It comprises the root (mūla), the panicle (tūla), the stem (kāṇḍa), the twig (valśa), the flower (puṣpa), and the fruit (phala), while trees[४] have, in addition, a corona (skandha), branches (śākhā), and leaves (parṇa). The Atharvaveda[५] gives an elaborate, though not very intelligible, division of plants into those which expand (pra-stṛṇatīḥ), are bushy (stambinīḥ), have only one sheath (eka-śuṅgāḥ), are creepers (pra-tanvatīḥ), have many stalks (aṃśumatīḥ), are jointed (kāṇḍinīḥ), or have spreading branches (vi-śākhāḥ). In the Rigveda[६] plants are termed ‘fruitful’ (phalinīḥ), ‘blossoming’ (puṣpavatīḥ), and ‘having flowers’ (pra-sūvarīḥ).

  1. Rv. x. 97 and passim. Oṣadhivanaspati is a frequent compound, from the Śatapatha Brāhmaṇa (vi. 1, 1, 12) onwards. The medicinal properties of plants account for the epithet ‘of manifold powers’ (nānā-vīryā) applied to them in Av. xii. 1, 2.
  2. Taittirīya Saṃhitā, ii. 5, 3, 2.
  3. Ibid., vii. 3, 19, 1;
    Vājasaneyi Saṃhitā, xxii. 28.
  4. Taittirīya Saṃhitā, vii. 3, 20, 1. Cf. Rv. i. 32, 5;
    Av. x. 7, 38.
  5. viii. 7, 4, with Whitney's notes. Cf. Bloomfield, Hymns of the Atharvaveda, 579;
    Henry, Les livres VIII. et IX. de l' Atharvavéda, 58 et seq.
  6. x. 97. 3. 15. Cf. Zimmer, Altindisches Leben. 57.
"https://sa.wiktionary.org/w/index.php?title=ओषधि&oldid=494173" इत्यस्माद् पुनः प्राप्तिः