फल

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल, निष्पत्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।) “इह नवशुककोमला मणीनां रविकरसम्बलिताः फलन्ति भासः ॥ इति भारविः ॥ निष्पादनेऽपि वाल्मीकिः । फलति स्म यस्य चरितस्तोत्राय दिव्या गिरः ॥” इति दुर्गादासः ॥

फल, ज गतौ । इति कविकस्त्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) ज, फालः फलः । इति दुर्गादासः ॥

फल, ञि आ भिदि । इति कविकल्पद्रुमः । (भ्वा०- पर०-सक०-सेट् ।) ञि, फुल्लोऽस्ति । आ, फलितं फुल्तं तेन । फलति काष्ठं कुठारः । इति दुर्गादासः ॥

फलम्, क्ली, (फलतीति । फल निष्पत्तौ ञि फला विशरणे वा + अच् ।) लाभः । (यथा, शकु- न्तलायाम् । १ अङ्के । “शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य । अथवा भवितव्यानां द्बाराणि भवन्ति सर्व्वत्र ॥”) शस्यम् । (यथास्य भक्षणविधिः । “फलानि सर्व्वभक्ष्यांश्च प्रदद्याद्बै दलेषु च ॥” “फलानि सर्व्वभक्ष्यांश्च परिशुष्काणि यानि च । तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ॥” इति सुश्रुते सूत्रस्थाने । ४६ अध्यायः ॥ यथा च शकुन्तलायाम् । “उदेति पूर्ब्बं कुसुमं ततः फलं घनीदयः प्राक् तदनन्तरं पयः ॥”) फलकम् । (शारिफलकार्थे यथा, महाभारते । ४ । १ । २४ । “वैदूर्य्यान् काञ्चनान् दान्तान् फलैर्ज्योतीरसैः सह । कृष्णाक्षान् लोहिताक्षांश्च निर्व्वत्स्यामि मनो- रमान् ॥”) हेतुकृतम् । इत्यमरः ॥ जातीफलम् । व्युष्टिः । त्रिफला । (यथा, -- “हरीतकी चामलकी विभीतकमिदं त्रयम् । त्रिफला फलमित्युक्तं तच्च ज्ञेयं फलत्रिकम् ॥” इति वैद्यकपरिभाषायाम् ॥) कक्कोलम् । इति मेदिनी । ले, ३३ ॥ वाणाग्रम् । आर्त्तवम् । इति शब्दरत्नावली ॥ फालः । इति हेमचन्द्रः ॥ दानम् । इति धरणिः ॥ मुष्कः । यथा, -- “अफलो भुज्यते मेषः सफलस्तु न भुज्यते ।” इति रामायणम् ॥ (प्रमेयभेदः । यथा, -- “आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्य- भावफलदुःखापवर्गास्तु प्रमेयम् ॥” इति गोतम- सूत्रम् । तत्रैव फलसूत्रम् यथा । “प्रवृत्तिदोषजनितो- ऽर्थः फलम् ॥” “सुखदुःखसंवेदनं फलम् । सुख- विपाकं कर्म्मदुःखविपाकञ्च तत् पुनर्देहेन्द्रिय- विषयबुद्धिषु सतीषु भवतीति सह देहादिभिः फलमभिप्रेतम् । तथाहि प्रवृत्तिदोषजनितो- ऽर्थः फलमेतत् सर्व्वं भवति तदेतत् फलमुपात्तमु- पात्तं हेयं त्यक्तं त्यक्तमुपादेयमिति नास्य हानोपादानयोर्निष्ठा पर्य्यवसानं वास्ति स खल्वयं हानोपादानस्रोतसोह्यते लोकः ।” इति वात्स्यायनः ॥) जीवस्य कर्म्मफलभुक्तिर्यथा, -- “जीवः कर्म्मफलं भुङ्क्ते आत्मा निर्लिप्त एवच । आत्मनः प्रतिविम्बश्च देही जीवः स एव च ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥ वह्निरुवाच । अग्निहोत्रफला वेदा दत्तमुक्तफलं धनम् । रतिपुत्त्रफला दाराः शीलवृत्तफलं श्रुतम् ॥” इति वह्निपुराणे नित्याह्निकस्नानविधिनामा- ध्यायः ॥ * ॥ लवणादिसंयोगे फलस्यान्नत्वं यथा, “तण्डुलोम्ब्वग्निसंयोगाल्लवणयोगेन पिष्टकम् । फलं त्रितयसंयोगादन्नं भवति तत्क्षणात् ॥” इति रामार्च्चनचन्द्रिकाधृतवचनमिति केचित् ॥

फलः, पुं, (फलतोति । फल + अच् ।) कुटज- वृक्षः । इति शब्दरत्नावली ॥ (यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये । “कण्टकारिकाफलपटोलवार्त्ताकुकारवेल्लक- र्कटिकाकेबुकोरुवूकपर्प्पटककिराततिक्तकर्कोट- कारिष्टकोशातकीवेत्रकरीराटरुषकार्कपुष्पीप्र- भृतीनि ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल नपुं।

वृक्षफलम्

समानार्थक:फल,सस्य

2।4।15।1।1

वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम्. आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु॥

 : अपक्वफलम्, शुष्कफलम्, हरीतक्याः_फलम्, अश्वत्थस्य_फलम्, वेणोः_फलम्, प्लक्षस्य_फलम्, न्यग्रोधस्य_फलम्, इङ्गुद्याः_फलम्, बृहत्याः_फलम्, जम्बूफलम्, बदरीफलम्, धत्तूरफलम्, क्रमुकफलम्, जातीफलम्, सस्यहेतुकृतम्

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

फल नपुं।

वस्त्रयोनिः

समानार्थक:त्वच्,फल,कृमि,रोमन्

2।6।110।2।2

हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका। त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु॥

पदार्थ-विभागः : अवयवः

फल नपुं।

फलकः

समानार्थक:फलक,फल,चर्मन्,खेटक

2।8।90।2।2

त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम्. फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः॥

अवयव : फलकमुष्टिः

वृत्तिवान् : फलकधारकः

वैशिष्ट्य : फलकधारकः

पदार्थ-विभागः : उपकरणम्,आयुधम्

फल नपुं।

लाङ्गलस्याधस्थलोहकाष्ठम्

समानार्थक:फल,निरीश,कुटक,फाल,कृषिक

2।9।13।1।6

दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम्. निरीशं कुटकं फालः कृषको लाङ्गलं हलम्.।

पदार्थ-विभागः : उपकरणम्,आयुधम्

फल नपुं।

अधिकफलम्

समानार्थक:लाभ,अधिक,फल,प्राप्ति

2।9।80।1।6

नीवी परिपणो मूलधनं लाभोऽधिकं फलम्. परिदानं परीवर्तो नैमेयनियमावपि॥

पदार्थ-विभागः : धनम्

फल नपुं।

सस्यहेतुकृतम्

समानार्थक:फल

3।3।201।2।2

जालं समूह आनायगवाक्षक्षारकेष्वपि। शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्.।

 : वृक्षफलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल¦ भेदने म्बा॰ पर॰ सक सेट्। फलति अफालीत् पफालफेलतुः आदित् आरम्भे भावे क्त वा इट्। फुल्तः फ-लितः। फुल्तम् फलितम् अन्यत्र फलितः इत्येव। ञीत्वर्त्तमाने क्त। फलितः।

फल¦ निष्पतौ भ्वा॰ पर॰ अक॰ सेट्। फलति{??}फालीत्। पफाल फेलतुः। क्त कलितः।

फल¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। फलति अफालीत्। ज्वला॰कर्त्तरि वा ण। फलः फालः। फलयति फालयति।

फल¦ न॰ फल--अच्।

१ वृक्षादीनां शस्ये

२ लाभे

३ फलके (ढाल)

४ कर्ये

५ उद्देश्ये

६ प्रयोजने अमरः

७ जातीफले

८ त्रिफ-लायां

९ कक्कोले मेदि॰

१० बाणाग्रे

११ आर्त्तवे शब्दर॰

१२ फालेहेम॰

१३ दाने धर॰।

१४ मुष्के च।

१५ कुटजवृक्षे पु॰ शब्दर॰।

१६ धात्वर्थनिष्पाद्ये प्रधानोद्देशे प्रयोजने
“स्वरितञितआत्मनेपदं कर्त्त्रभिप्राये क्रियाफले” पा॰।
“यस्यार्थस्य प्रसि-द्ध्यर्थमारभ्यन्ते पचादयः। तत् प्रधानं फलं तेषां न ला-भादि प्रयोजनम्” हरिः। तेन पाकादिजन्यं भोजनं या-गादिजन्यञ्च पुण्यमेव फलम्। न वेतनादिलाभरूपं फलंतेन सूदकस्य ऋत्विगादेर्वा न धात्वर्थजन्यफभागित्वम्। धात्वर्थजन्ये

१७ संयोगादौ च
“फलव्यापारयोर्घातुराश्रयेतु तिङः स्मृताः। फले प्रधानं व्यापारस्तिङर्थस्तु विशेष-णम्” हरिः। धात्वर्थशब्दे दृश्यम्। गौतमोक्ते

१८ प्रमे-यभेदे तल्लक्षणञ्च तत्रोक्तं यथा(
“आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुः-खापवर्गास्तु प्रमेयम” गौ॰ सू॰ उद्दिश्य
“प्रवृत्तिदोषजनितो-ऽर्थः फलम्” गौ॰ सू॰।
“सुखदुःखसंबेदनं फलम्सुखविपाकं कर्म दुःखविपाकञ्च तत् पुनर्देहेन्द्रियविषय-बुद्धिषु सतीषु भवतीति सह देहादिभिः फलमभिप्रेतम्तथा हि प्रवृत्तिदोषजनितोऽर्थः फलमेतत् सर्वं भवतितदेतत् फलमुपात्तमुपात्तं हेयं, त्यक्तं त्यक्तमुपादेयमितिनास्य हानोपादानयोर्निष्ठा, पर्य्यवसानं वाऽस्ति स खल्वयंफलस्य हानोपादानस्त्रोतसोद्व्यते लोक इति” वात्स्या॰।
“अनिष्टमिष्टं मिश्रञ्च त्रिविधं कर्मणः फलम्। मवत्य-त्यागिनां प्रेत्य न तु सन्त्यासिनां क्वचित्” गीता। लवणादिसंयोगे फलस्यान्नसमत्वं यथा
“तण्डूलोऽम्बग्नि-संयोगाछवणेन च पिष्टकम्। फलं त्रितयसंयोगादन्नंभवति तत्क्षणात्” रामार्चनचन्द्रिकाधृतवचनम्

१९ निष्पन्ने त्रि॰। [Page4551-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल¦ n. (-लं)
1. The fruit of any plant, fruit in general.
2. Fruit, (meta- phorically,) result, produce, consequence.
3. Prosperity, flourish- ing, thriving.
4. Gain, profit, acquisition.
5. Recompense, reward.
6. A shield.
7. The blade of a sword or knife, the head of an ar- row, &c.
8. A sort of fragrant berry and drug commonly Ka4koli.
9. A nutmeg.
10. The three myrobalans collectively.
11. The men- [Page510-a+ 60] strual discharge.
12. Gift, giving.
13. A ploughshare.
14. The quotient of a sum, (in arithmetic.)
15. The area of a circle, &c.
16. An equation.
17. (In astronomy,) The anomalistic equation of a planet. f. (-ली) A medicinal plant, commonly Priangu. m. (-लः) A plant, (Echites anti-dysenterica, Rox.:) see कुटज। E. फल् to bear or produce fruit, aff. अच् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलम् [phalam], [फल्-अच्]

Fruit (fig. also) as of a tree; उदेति पूर्वं कुसुमं ततः फलम् Ś.7.3; R.4.43;1.49.

Crop, produce; कृषिफलम् Me.16.

A result, fruit, consequence, effect; अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते H.1.8; फलेन ज्ञास्यसि Pt.1; न नवः प्रभुराफलोदयात् स्थिरकर्मा विरराम कर्मणः R.8.22;1.33; अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् Bg.18.12.

(Hence) Reward, recompense, meed, retribution (good or bad); फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् R.12.37.

A deed, act (opp. words); ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् N.2.48 'good men prove their usefulness by deeds, not by words'.

Aim, object, purpose; परेङ्गितज्ञानफला हि बुद्धयः Pt.1.43; किमपेक्ष्य फलम् Ki.2.21, 'with what object in view; Me.56.

Use, good, profit, advantage; जगता वा विफलेन किं फलम् Bv.2.61.

Profit or interest on capital.

Progeny, offspring; तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः (त्यक्षामि) R.14.39.

A kernel (of a fruit).

A tablet or board (शारिफल).

A blade (of a sword).

The point or head of an arrow, dart &c.; barb; आरामुखं क्षुरप्रं च गोपुच्छं चार्धचन्द्रकम् । सूचीमुखं च भल्लं च वत्सदन्तं द्विभल्लकम् ॥ कर्णिकं काकतुण्डं च तथान्यान्यप्यनेकशः । फलानि देशभेदेन भवन्ति बहुरूपतः ॥ Dhanur.64-5; फलयोगमवाप्य सायकानाम् Ms.7.1; Ki.14.52.

A shield.

A testicle; अकर्तव्यमिदं यस्माद् विफलस्त्वं भविष्यसि Rām.1.48.27.

A gift.

The result of a calculation (in Math.)

Product or quotient.

Menstrual discharge.

Nutmeg.

A ploughshare.

Loss, disadvantage.

The second (or third) term in a rule-of-three sum.

Correlative equation.

The area of a figure.

The three myrobalans (त्रिफला).

A point on a die.

Benefit, enjoyment; ईश्वरा भूरिदानेन यल्लभन्ते फलं किल Pt.2.72.

Compensation; यावत् सस्यं विनश्येत् तु तावत् स्यात् क्षेत्रिणः फलम् Y.2.161.

A counterpart (प्रतिबिम्ब); तन्मायाफलरूपेण केवलं निर्विकल्पितम् Bhāg.11.24.3.

Shoulder-blade; तस्यां स फलके खड्गं निजघान ततो$ङ्गदः Rām.6.76.1. -Comp. -अदनः = फलाशनः q. v.; a parrot. -अधिकारः a claim for wages. -अध्यक्षः Mimusops Kauki (Mār. खिरणी). -अनुबन्धः succession or sequence of fruits or results. -अनुमेय a. to be inferred from the results or consequences; फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव R.1.2.

अनुसरणम् rate of profits.

following or reaping consequences. -अन्तः a bamboo. -अन्वेषिन् a. seeking for reward or recompense (of actions). -अपूर्वम् The mystic power which produces the consequences of a sacrificial act. -अपेक्षा expectation of the fruits or consequences (of acts), regard to results. -अपेत a. useless, unfertile, unproductive. -अम्लः a kind of sorrel. (-म्लम्) tamarind. ˚पञ्चकम् the five sour fruits; bergumot (जम्बीर), orange (नारिङ्ग), sorrel (आम्लवेतस), tamarind (चिञ्चा) and a citron (मातुलुङ्ग, Mar. महाळुंग). -अशनः a parrot. -अस्थिn. a cocoa-nut. -आकाङ्क्षा expectation of (good) results; see फलापेक्षा.

आगमः production of fruits, load of fruits; भवन्ति नम्रास्तरवः फलागमैः Ś.5.12.

the fruit season, autumn. -आढ्य a. full of or abounding in fruits. (-ढ्या) a kind of plantain. -आरामः a fruitgarden, orchard. -आसक्त a.

fond of fuits.

attached to fruits, fond of getting fruit (of actions done).-आसवः a decoction of fruit. -आहारः feeding or living on fruits, fruit-meal. -इन्द्रः a species of Jambū (Rājajambū). -उच्चयः a collection of fruits.

उत्तमा a kind of grapes (having no stones).

= त्रिफला.-उत्पत्तिः f.

profit, gain. (-त्तिः) the mango tree (sometimes written फलोत्पति in this sense). -उत्प्रेक्षा a kind of comparison.

उदयः appearance of fruit, production of results or consequences, attainment of success or desired object; आफलोदयकर्मणाम् R.1.5;8.22.

profit, gain.

retribution, punishment.

happiness, joy.

heaven. -उद्गमः appearance of fruits; भवन्ति नम्रास्तरवः फलोद्गमैः Ś.5.12 (v. l.).-उद्देशः regard to results; see फलापेक्षा. -उन्मुख a. about to give fruit. -उपगम a. bearing fruit. -उपजीविन् a. living by cultivating or selling fruits.

उपभोगः enjoyment of fruit.

partaking of reward. -उपेतa. yielding fruit, fruitful, fortile. -काम a. one who is desirous of fruit; धर्मवाणिजका मूढा फलकामा नराधमाः । अर्चयन्ति जगन्नाथं ते कामं नाप्नुवन्त्युत ॥ (मल. त. Śabda. ch.)-कामना desire of fruits or consequences. -कालः fruitseason. -केसरः the cocoanut tree. -कोशः, -षः, कोशकः the scrotum (covering of the testicles). -खण्डनम् frustration of fruits or results, disappointment. -खेला a quail. -ग्रन्थः (in astrol.) a work describing the effects of celestial phenomena on the destiny of men; Bṛi. S.-ग्रहः deriving benefit or advantage. -ग्रही, -ग्राहिन् a. (also फलेग्रहि and फलेग्राहिन्) fruitful, yielding or bearing fruit in season; श्लाध्यतां कुलमुपैति पैतृकं स्यान्मनोरथतरुः फलेग्रहिः Kir. K.3.6; Māl.9.39; भूष्णुरात्मा फलेग्रहिः Ait. Br. (शुनःशेप legend); फलेग्रहीन् हंसि वनस्पतीनाम् Bk.; द्वितीयो ह्यवकेशी स्यात् प्रथमस्तु फलेग्रहिः Śiva. B.16.27. (-m.) a fruit-tree. -ग्रहिष्णु a. fruitful. -चोरकः a kind of perfume (Mar. चोरओवा). -छदनम a house built of wooden boards. -तन्त्र a. aiming only at one's advantage. -त्रयम्, -त्रिकम् the three myrobalans (त्रिफला). -द, -दातृ, -प्रद a.

productive, fruitful, bearing fruit; फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् Ms.11.142; गते$पि वयसि ग्राह्या विद्या सर्वात्मना बुधैः । ...... अन्यत्र फलदा भवेत् ॥ Subhāṣ.

bringing in gain or profit.

giving a reward, rewarding. (-दः) a tree. -धर्मन् a. ripening soon and then falling on the ground, perishing; फेनधर्मा महाराज फलधर्मा तथैव च। निमेषादपि कौन्तेय यस्यायुरपचीयते Mb.3.35.2-3. -निर्वृत्ति f. final consequence or reward.-निवृत्तिः f. cessation of consequences. -निष्पत्तिः f.

attainment of reward.-परिणतिः f., -परिणामः, -पाकः (-फलेपाकः also)

the ripening of fruit.

the fulness of cousequences.-पाकः Carissa Carandas (Mar. करवंद). -पाकान्ता, -पाकावसाना an annual plant; ओषध्यः फलपाकान्ताः Ak.-पातनम् knocking down or gathering fruit. -पादपः a fruit-tree. -पूरः, -पूरकः the common citron tree; एतस्मिन् फलपूरबीजनिकरभ्रान्त्या नितान्तारुणे संप्राप्तेषु शुकेषु पञ्जरशुका निर्गन्तुमुद्युञ्जते । Rām. Ch.7.86. -प्रजननम् the production of fruit.

प्रदानम् the giving of fruits.

a ceremony at weddings. -प्राप्तिः f. attainment of the desired fruit of object.

प्रिया the Priyaṅgu plant.

a species of crow. -प्रेप्सु a. desirous of attaining results. -बन्धिन् a. forming or developing fruit. -भागः a share in any product or profit. -भागिन्, -भाज् a. partaking of a reward or profit; दातॄन् प्रतिग्रहीतॄ प्रतिग्रहीतॄश्च कुरुते फल- भागिनः Ms.3.143. -भावना The acquisition of a result; success; सुपर्वणां हि स्फुटभावना या सा पूर्वरूपं फलभावनायाः N.14. 7. -भुज् m. a monkey; P. R. -भूमन् m. greater fruit; क्रतुवच्चानुमानेनाभ्यासे फलभूमा स्यात् MS.11.1.29. -भूयस्त्वम् (see फलभूमन् above); यथा कर्मसु सौर्यादिषु फलं कर्मणा क्रियत इति कर्माभ्यासे फलभूयस्त्वमेवमिहापि ŚB. on MS.11.1.29.-भूमिः f. a place where one receives the reward or recompense of his deeds (i. e. heaven or hell).-भृत् a. bearing fruit, fruitful.

भोगः enjoyment of consequences.

usufruct. -मत्स्या the aloe plant.-मुख्या a species of plant (अजमोदा). -मूलम् fruits and roots; फलमूलाशिनौ दान्तौ Rāmarakṣā 18.

योगः the attainment of fruit or the desired object; Mu.7.1.

wages, remuneration.

a stage in the performance of a drama; सावस्था फलयोगः स्यात् यः समग्रफलागमः S. D. -राजन् m. a water-melon. -राशिः m. the 3rd term in the rule of three. -वन्ध्यः a tree barren of fruit. -वर्णिका jelly (?); Gaṇeśa P.2.149. -वर्तिः f. a coarse wick of cloth besmeared with some laxative and inserted into the anus for discharging the bowels, suppository. -वर्तुलम् a watermelon. -वल्ली a series of quotients. -विक्रयिन् a. a fruit-seller. -वृक्षः a fruit-tree. -वृक्षकः the bread-fruit tree. -शाडवः the pomegranate tree. -शालिन् a.

bearing fruit, fruitful.

sharing in the consequences. -शैशिरः the Badara tree.-श्रेष्ठः the mango tree. -संस्थ a. bearing fruit. -संपद्f.

abundance of fruit.

success.

prosperity.-साधनम् a means of effecting any desired object, realization of an object -सिद्धिः f.

reaping fruit, attainment or realization of the desired object.

a prosperous result. -स्थानम् the stage in which results are enjoyed; Buddh. -स्थापनम् the sacrament called सीमन्तोन्नयन; फलस्थापनात् मातापितृजं पाप्मानमपोहति Hārīta. -स्नेहः a walnut tree. -हारी an epithet of Kālī or Durgā-हानिः loss of profit -हीन a. yielding no fruit or profit. -हेतु a. acting with a view to results.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल n. ( ifc. f( आor ई). )fruit ( esp. of trees) RV. etc.

फल n. the kernel or seed of a fruit , A1mar.

फल n. a nutmeg Sus3r.

फल n. the 3 myrobalans(= त्रि-फलाSee. ) L.

फल n. the menstrual discharge L. (See. पुष्प)

फल n. fruit (met.) , consequence , effect , result , retribution (good or bad) , gain or loss , reward or punishment , advantage or disadvantage Ka1tyS3r. MBh. Ka1v. etc.

फल n. benefit , enjoyment Pan5cat. ii , 70

फल n. compensation Ya1jn5. ii , 161

फल n. (in rhet. )the issue or end of an action Das3. Sa1h.

फल n. (in math. ) the result of a calculation , product or quotient etc. Su1ryas.

फल n. corrective equation ib. Gol.

फल n. area or superficial contents of a figure A1ryabh.

फल n. interest on capital ib.

फल n. the third term in a rule of three sum ib. Sch.

फल n. a gift , donation L. ; a gaming board MBh. ([ cf. Goth. spilda ; Icel. spjald])

फल n. a blade (of a sword or knife) MBh. R. Kum.

फल n. the point of an arrow Kaus3.

फल n. a shield L.

फल n. a ploughshare(= फाल) L.

फल n. a point or spot on a die MBh. iv , 24

फल m. Wrightia Antidysenterica L.

फल f. w.r. for तुलHcat.

"https://sa.wiktionary.org/w/index.php?title=फल&oldid=376177" इत्यस्माद् पुनः प्राप्तिः