ग्रीष्म
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ग्रीष्मः, पुं, (ग्रसते रसान् इति । ग्रसु अदने + “ग्रीष्मः ।” उणां । १ । १४९ । इति मक् ग्रीभावश्च घातोः षुगागमश्च निपात्यते ।) ऋतु- विशेषः । (यथा, मनुः । ६ । २३ । “ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः ॥”) “ग्रीष्मे पुनर्भृशौष्ण्योपहतत्वात् शरीरमसुखोप- पन्नं भवति । उष्णवातावध्मातमतिशिथिल- मत्यन्तप्रविलीनदोषं भेषजं पुनः संशोधनार्थ- मुष्णस्वभावमुष्णानुगमनात्तीक्ष्णतरत्वमापद्यते । तस्मात्तयोः संयोगे संशोधनमतियोगायोप- पद्यते शरीरं पिपासोपद्रवाय ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥ “मयूखैर्जगतः सारं ग्रीष्मे पेपीयते रविः । स्वादुशीतं द्रवं स्निग्धमन्नपानं तदा हितम् ॥ शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः । घृतं पयः स शाल्यन्नं भजन् ग्रीष्मे न सीदति ॥ मद्यमल्पं न वा पेयमथवा सुबहूदकम् । लवणाम्लकटूष्णानि व्यायामञ्चात्र वर्ज्जयेत् ॥ दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतलम् । भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्म्यमस्तके ॥ व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः । सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः ॥ काननानि च शीतानि जलानि कुसुमानि च । ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः ॥” इति च सूत्रस्थाने षष्ठेऽध्याये चरकेणोक्तम् ॥) तत्र जातफलं यथा, कोष्ठीप्रदीपे । “ग्रीष्मोद्भवो भोगभवानुरक्तो वक्ता सुशीलो जलकेलिशीलः । विद्याधनैश्वर्य्ययशोमनोज्ञो धन्वी सुवेशः परदारचित्तः ॥” उष्णः । इति मेदिनी । मे । १० ॥ गर्मि इति तात् इति च भाषा ॥ तद्वति त्रि ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ग्रीष्म पुं।
ज्येष्ठाषाढाभ्याम्_ऋतुः
समानार्थक:ग्रीष्म
1।4।18।2।4
बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम्. वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः॥
पदार्थ-विभागः : , द्रव्यम्, कालः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ग्रीष्म¦ पु॰ ग्रसते रसान् ग्रस--मनिन्। ज्यैष्ठाषाढमास-द्वयात्मके
१ ऋतुभेदे।
“ग्रीष्मे तीव्रकरोभानुर्न हेमन्तेतथाविधः” सूर्य्यसि॰।
“विहर्त्तुमिच्छोर्वनितासखस्यतस्याम्भसि ग्रीष्मसुखे बभूव” रघुः।
“अनेन विधिनाश्राद्धं त्रिरव्दस्येह निर्वपेत्। हेमन्तग्रीष्मवर्षासु-पाञ्चयज्ञिकमन्वहम्”
“ग्रीष्मे पञ्चतपास्तु स्यात् वर्षास्वनवकाशिकः” मनुः। स्वार्थे अण्। ग्रैष्म तत्रार्थे तस्ये-दमण्। तत्सम्बन्धिनि त्रि॰
“शुक्रश्च शुलिश्चग्रैष्मावृतू” यजु॰
१ ।
६ ।
“ग्रैष्मौ ग्रैष्मसम्बन्धिनौ ऋतू ऋत्ववयवौ” वेददी॰। ऋतोश्च यथा चान्द्रमासात्मकता तथर्त्तु-शब्दे
१४
३७ पृ॰ दर्शिता। सौरत्वं तु ज्योतिर्शण-नामात्रोपयोगित्वेन ज्योतिषे व्य{??}ह्रियते तदपि तत्रैवशब्देदर्शितम्। सुश्रुतोक्तग्रीष्मगुणादिकं ऋतुशव्दे दतितम्। [Page2776-a+ 38] ग्रीष्मे सूर्य्यकिरणस्य तीव्रत्वे कारणम् सू॰ सि॰ उक्तं यथा
“मेषादौ देवभागस्थे देवानां याति दर्शनम्। असु-राणां तुलादौ तु सूर्यस्तद्भागसञ्चरः” सू॰।
“जम्बुद्वीपलवणससुद्रसन्धौ परिधिवृत्तं भूगोलमध्ये तत्स-मसूत्रेणाकाशे वृत्तं विषुवद्वृत्तं तत्र क्रान्तिवृत्तं षड्भान्तरेणस्थानद्वये लग्नं तन्मेषतुलास्थानं प्रवहवायुना विषुवद्वृत्त-मार्गे भ्रमति मेपस्थानात् कर्कादिस्थानं विषुवद्वृत्ताच्चतु-र्विंशत्यंशान्तर उत्तरतः, मकरादिस्थानं विषुवद्वृत्ता-च्चतुर्विशत्यंशान्तरे दक्षिणतः, तत् स्वस्थाने प्रवहवायुनाभ्रमति। एवं क्रान्तिवृत्तप्रदेशाः स्वस्वस्थाने प्रवहवायुनाभ्रमन्ति। तत्र मेषादौ देवभागस्थः
“जम्बुद्वीपं च देवानांदेवासुरविभागकृदिति” पूर्वोक्तेः। तत्सम्बद्धा मेषादिक-न्यान्ता राशय उत्तरगोलः। तत्रस्थः सूर्यो मेषादौ मे-षादिपदेशे देवानां मेरोरुत्तराग्रवर्तिनां दर्शनं षण्मासा-गन्तरं प्रथमदर्शनं याति गच्छति प्राप्नोतीत्यर्थः विषुवद्बृत्तस्यतत्क्षितिजत्वात्। एवं दैत्यानां मेरोर्दक्षिणाग्रवर्तिना-मित्यसुराणामित्युक्तेनैवोक्तम्। तद्भागसञ्चरो दैत्यभागेसमुद्रादिदक्षिणविभागस्थस्तुलादिमीनान्ता राशयो दक्षिण-गोलस्तत्र सञ्चरो गमनं यस्येत्येतादृशः सूर्यस्तुलादिप्रदेशेतुकराददर्शनानन्तरं प्रथमदर्शनं प्राप्नोतीत्यर्थः तेषामपिविषुवद्वृत्तक्षितिजत्वात्। अथ प्रसङ्गाद्ग्रीष्मे तीव्रकरःइत्याद्यर्घोक्तप्रश्नस्योत्तरमाह” रङ्गना॰।
“अत्यासन्नतया तेन ग्रोष्मे तीव्रकरा रवेः। देवभागेऽ-सुराणां तु हेसन्ते मन्दताऽन्यथा” सू॰ सि॰।
“तेन--उत्तरदक्षिणगोलयोः सूर्यस्योत्तरदक्षिणसञ्चार-रूपकारणेनेत्यर्थः। देवभागे जम्बुद्वीपे अत्यासन्नतयासूर्य्यस्यात्यन्तनिकष्टस्यत्वेन ग्रीष्मे ग्रीष्मर्तौ सूर्यस्य तेजो-गोलकस्य किरणास्तीक्ष्णा अन्युष्णाः, असुराणां देवभागइत्यस्यासन्नतया भाग इत्यस्य समन्वयाद्दैत्यानां भागे समु-द्रादिदक्षिणपदेशे हेमन्ते हेमन्तर्तौ तुकारात् अन्यथासूर्यस्य दूरस्यत्वेन मन्दता किरणानामत्युष्णताभावः। देवभागे हेमन्तर्तौ कराणां मन्दता। अतएव तत्रशीताधिक्यं च। तथाच देवभागे दक्षिणगोले सूर्यस्यदूरस्थत्वमुत्तरभोले निकटस्थत्वं मध्याह्ने नतांशानांक्रमेणाधिकाल्पत्वादिति भावः” र॰ ना॰।
२ तत्कालभवे ऊष्मणि पु॰
३ तद्वति त्रि॰ मेदि॰
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ग्रीष्म¦ mfn. (-ष्मः-ष्मा-ष्मं) Hot, warm. m. (-ष्मः)
1. The hot season, compre- hending two months, about June July.
2. Heat, warmth. f. (-ष्मी) Jasmin. E. ग्रस् to take, &c. मनिन् Unadi affix, and the deriv. irr. ग्रसते रसान् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ग्रीष्म [grīṣma], a. [ग्रसते रसान्; ग्रस्-मनिन् Uṇ.1.147] Hot, warm.
ष्मः The summer, the hot season, corresponding to the months of Jyeṣṭha and Āṣāḍha; ग्रीष्म- समयमधिकृत्य गीयताम् Ś.1; R.16.54; Bv.1.35.
Heat, warmth. -ष्मी The नवमल्लिका plant. -Comp. -कालीन a. pertaining to summer. -उद्भवा, -जा, -भवा the Navamallikā creeper, (double jasmine). -वनम् a grove frequented in summer; अत्रान्तरे ग्रीष्मवनं मल्लिकामोदि मारुतम् Ks.122.65. -हासम् The flocculent seeds, down &c. blown about in the air in summer.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ग्रीष्म m. ( ग्रस्Un2. )the summer , hot season (the months शुचिand शुक्रVS. xiv , 6 Sus3r. ; or ज्येष्ठand आषाढ, from the middle of May to the middle of July) RV. x , 90 , 6 AV. etc.
ग्रीष्म m. summer heat , heat Pan5cat.
ग्रीष्म m. N. of a man g. अश्वा-दि
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Grīṣma. See Ṛtu.
==Foot Notes==
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ग्रीष्म पु.
ग्रीष्म, ग्रीष्मऋतु (निष्काम क्षत्रिय एवं धन की कामना वाले व्यक्ति के पवित्र अगिन् के आधान का सर्वोत्तम समय, ‘ग्रीष्मः क्षत्रियश्रीकामयोः, का.श्रौ.सू. 4.7.6 (निष्कामस्य क्षत्रियस्य, श्रीकामस्य त्रैवर्णिकस्य च ग्रीष्म ऋतुराधानकालः, स. वृ.);