अजमोदा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजमोदा, स्त्री, (अजानां खाद्यतया मोदो हर्षो यस्याः सा अजानां मोदो गन्ध इव गन्धो यस्याः सा) यवानिका । तत्पर्य्यायः । उग्रगन्धा २ ब्रह्म- दर्भा ३ यवानिका ४ ॥ इत्यमरः । यमानी द्विविधा । एका क्षेत्रयमानी सा अजमोदेत्येव ख्याता । अपरा यमानीत्येव ख्याता । अविशेषात् द्वयो- रपीति सुभूतिः ॥ केचित्तु अजमोदादिद्वयं वन- यमान्यां । ब्रह्मदर्भादिद्वयं यमान्यामित्याहुः उग्रगन्धाजमोदाख्या स्मृतक्षेत्रयमानिकेति । य- मानी दीपको दीप्यो भूतिकश्च यमानिकेति च रत्नमाला ॥ इति भरतः ॥ * ॥ वैद्यके तु वन- यमानी इति ख्याता । तत्पर्य्यायः । खराह्वा २ वस्तमोदा ३ मर्कटी ४ मोदा ५ गन्धदला ६ हस्तिकारवी ७ गन्धपत्रिका ८ मायूरी ९ शि- खिमोदा १० मोदाढ्या ११ वह्निदीपिका १२ ब्रह्मकोशी १३ विशाली १४ हयगन्धा १५ उग्र- गन्धिका १६ मोदिनी १७ फलमुख्या १८ वि- शल्या १९ । अस्या गुणाः । कटुत्वं । उष्णत्वं । रूक्षत्वं । रुचिकारित्वं । कफवायुशूलाध्मानारुचि- जठरामयनाशित्वञ्च । इति राजनिर्घण्टः ॥ य- मानी । यथा, -- “अजमोदा खराश्वा च मयूरो दीप्यकस्तथा । तथा ब्रह्मकुशा प्रोक्ता कारवी लोचमस्तकः ॥ अजमोदा कदुस्तीक्ष्णा दीपनी कफवातनुत् । उष्णा विदाहिनी हृद्या वृष्या बलकरी लघुः ॥ नेत्रामयकृमिच्छर्द्दिहिध्मवस्तिरुजो हरेत्” ॥ * ॥ अथ खुरासानीयवानीनामगुणाः । “पारसीययवानी तु यवानीसदृशी गुणैः । विशेषात्पाचनी रूक्षा ग्राहिणी मादिनी गुरुः” ॥ इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजमोदा स्त्री।

अजमोदा

समानार्थक:अजमोदा,उग्रगन्धा,ब्रह्मदर्भा,यवानिका

2।4।145।1।1

अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका। मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजमोदा¦ स्त्री अजस्य मोद इव मोदो गन्धो यस्याः अजंमोदयति आनन्दयति मोदि--अण् वा। अजगन्धवत्यां,वनयमान्याम् यमानीमात्रे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजमोदा¦ f. (-दा)
1. Common carroway, (Carum carui.)
2. A kind of lovage, (Ligusticum ajwaen, Rox.)
3. A sort of parsley, (Apium involucratum;) this latter application is the one used in the dialects. E. अज a goat, and मोद what pleases, from मुद।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजमोदा/ अज--मोदा f. " goat's delight " , N. of various plants , common Carroway , the species called Ajwaen (Ligusticum Ajwaen) , a species of Parsley , Apium Involucratum.

"https://sa.wiktionary.org/w/index.php?title=अजमोदा&oldid=484532" इत्यस्माद् प्रतिप्राप्तम्