विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

च, चकारः । स तु व्यञ्जनषष्ठवर्णः । (द्वितीयवर्ग- स्याद्यवर्णश्च ।) अस्योच्चारणस्थानं तालु । इति व्याकरणम् ॥ (यदुक्तं सिद्धान्तकौमुद्याम् । “इचु- यशानां तालु ।” इति । तथा च शिक्षायाम् । “कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ॥”) वङ्गाक्षरैरस्य स्वरूपं यथा, कामधेनुतन्त्रे । “चवर्णं शृणु सुश्रोणि ! चतुर्व्वर्गप्रदायकम् । कुण्डलीसहितं देवि ! स्वयं परमकुण्डली ॥ सततं कुण्डलीयुक्तं पञ्चदेवमयं सदा । पञ्चप्राणमयं वर्णं पञ्चप्राणात्मकं सदा ॥ त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं प्रिये ! ॥” अपि च । “वार्त्ताकुवर्त्तुलाकार ऊर्द्ध्वाधः क्रमतो गतः । रेस्वात्रयेषु चन्द्राग्निसूर्य्यास्तिष्ठन्ति नित्यशः । शक्तिर्मात्रा तु विज्ञेया ध्यानमस्य प्रचक्ष्यते ॥” तस्य ध्यानं यथा, वर्णोद्धारतन्त्रे “तुषारकुन्दपुष्पाभां नानालङ्कारभूषिताम् । सदा षोडशवर्षीयां वराभयकरां पराम् ॥ शुक्लवस्त्रावृतकटिं शुक्लवस्त्रोत्तरीयिणीम् । वरदां शोभनां रम्यामष्टबाहुसमन्विताम् ॥ एवं ध्यात्वा चकारन्तु तन्मन्त्रं दशधा जपेत् ॥” तस्य नामानि यथा, नानातन्त्रेषु । “चः पुष्करो हली वाणी चात्मशक्तिः सुदर्शनः । चर्म्ममुण्डधरो भूत्वा महिषाचारसम्बिनी ॥ एकरूपो रुचिः कूर्म्मश्चासुण्डा दीर्घबालुकः । वामवाहुर्म्मूलमाया चतुर्मूर्त्तिस्वरूपिणी ॥ दयितश्च द्विनेत्रश्च लक्ष्मीस्त्रितयलोचनः । चन्दनं चन्द्रमा दैवश्चेतनो वृश्चिको बुधः ॥ देवी केटमुखेच्छात्मा कौमारी पूर्ब्बफाल्गुनी । अनङ्गमेखला वायुर्म्मेदिनी च मूलावती ॥” (मातृकान्यासे वामबाहुमूले एवास्य न्यस्यता ॥)

च, व्य (चणति चिनोतीति वा । चण शब्दे चिञ्न चित्यां वा + “अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति ड ।) अन्वाचयः । यत्र एकस्य प्राधान्येनापरस्य गौण्येनाख्यानं सोऽन्वाचयः । यथा । भो वटो ! भिक्षामट गाञ्चानय । भिक्षा- मटनमत्र प्रधानं तत् कुर्व्वाणो यदि गां पश्यसि तदा तामप्यानयेति नो चेत् भिक्षामेवाटेति । समाहारस्तिरोहितावयवभेदः इतरेतर उद्रिक्ता- वयवभेदः । अतएव चार्थे द्बन्द्ब इति सूत्रं विधाय चार्थोऽत्र समाहार इतरेतरश्चेति व्याख्याय समाहारे अनभिव्यक्तावयवत्वात् एकवचनम् । इतरेतरयोगे संहन्यमानप्रधानत्वात् द्बिबहु- वचनम् । यथा । “पाणिपादं अश्वबलीवर्द्दं ब्रह्म- क्षत्त्रियविट्शूद्राः । प्लक्षन्यग्रोधाविति परैरुक्तम् । समुच्चितिः समुच्चयः प्राधान्येन क्वचित् क्रिया- विषयेऽनेकस्य चीयमानता । यथा । धवांश्च {??} छिन्धि । इति भरतः ॥ समाहारः । अन्योन्यार्थः । समुच्चयः । (यथा, मनुः । १२ । ८९ । “इह चामुत्र वा काम्यं प्रवृत्तं कर्म्म कीर्त्त्यते ॥”) पक्षान्तरम् । (यथा, हितोपदेशे । “मूर्खोऽपि शोभते तावत् सभायां वस्त्रवेष्टितः । तावच्च शोभते मूर्खो यावत् किञ्चिन् न भाषते ॥” तथा च शकुन्तलायां १ मे अङ्के । “शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य । अथवा भवितव्यानां द्बाराणि भवन्ति सर्व्वत्र ॥”) पादपूरणम् । (यथा, रामायणे । १ । २० । १९ । “तेन सञ्चोदितौ तौ तु राक्षसौ च महाबलौ । मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥”) अवधारणम् । इति मेदिनी । चे । १२ ॥ हेतुः । इति त्रिकाण्डशेषः ॥

चः, पुं, (चणति शब्दायते इति । चण शब्दे + “अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति डः ।) चण्डेशः । (चिनोति स्वाङ्गानि सङ्कोचय- तीति । चि + डः ।) कच्छपः । (चीयते उप- चीयते क्रमशः कलाभिः प्रतिपदादिमारभ्ये- त्यर्थः ।) चन्द्रः । (चिनोति सञ्चिनोति पर- धनानि इति ।) चौरः । इति मेदिनी ॥ चे । १ ॥ निर्ब्बीजे दुर्जने च त्रि । इति शब्दरत्ना- वली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

च अव्य।

अन्वाचयः

समानार्थक:च

3।3।242।1।1

चान्वाचयसमाहारेतरेतरसमुच्चये। स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥

पदार्थ-विभागः : , क्रिया

च अव्य।

इतरेतरः

समानार्थक:च

3।3।242।1।1

चान्वाचयसमाहारेतरेतरसमुच्चये। स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥

पदार्थ-विभागः : , शेषः

च अव्य।

समाहारः

समानार्थक:च

3।3।242।1।1

चान्वाचयसमाहारेतरेतरसमुच्चये। स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥

पदार्थ-विभागः : , क्रिया

च अव्य।

समुच्चयः

समानार्थक:च,उत,अपि

3।3।242।1।1

चान्वाचयसमाहारेतरेतरसमुच्चये। स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥

पदार्थ-विभागः : समूहः

च अव्य।

पादपूरणम्

समानार्थक:तु,हि,च,स्म,ह,वै

3।4।5।2।3

आहो उताहो किमुत विकल्पे किं किमूत च। तु हि च स्म ह वै पादपूरणे पूजने स्वति॥

पदार्थ-विभागः : , गुणः, शब्दः, वर्णात्मकः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

¦ अव्य॰ चि--चण--वा भा॰ ड।

१ पादपूरणे

२ पक्षान्तरद्योतने

३ अवधारणे मेदि॰

४ हेतौ त्रिका॰। पादपूरणार्थस्य[Page2805-b+ 38] निरर्थकतैव।
“निरर्थकं चादि पादपूरणैकप्रयोजनम्” चन्द्रालोकः

५ समुच्चये

६ अन्वाचये

७ इतरेतरयोगे

८ समा-हारे च” अमरः।
“चार्थे द्वन्द्वः” पा॰ सि॰ कौ॰व्याख्यातं यथा
“सघुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः। परस्पर(

१ ) निरपेक्षस्वाऽनेकस्य (

२ ) एकस्मिन् (

३ ) अन्वयःसमुच्चयः।{??}रस्वानुषङ्गिक (

४ ) त्वेऽन्वाचयः। मिलिताना (

५ ) मन्वय इतरेतरयोगः। समूहः(

६ ) समाहारः। तत्रेश्वरं गुरुञ्च भजस्वेति समुच्चयेभिक्षामट गाञ्चानयेत्यन्वाचये च न समासोऽसामर्थ्यात्(

७ )। धवखदिरौ। संज्ञापरिभाषम्”। व्याख्यातं चैतदस्माभिः सरलायाम्। (

१ )
“षरस्परनिरपेक्षस्येति एकस्य क्रियान्वयोत्तरमप-रस्यावृत्त्या तदन्वय इति न तयोः परस्पराकाङ्क्षा। (

२ )अनेकस्येति तेनैकस्य सापेक्षत्वेऽपि न दोष उभयोस्तथा-त्वाभावात्। समुच्चये चशब्देन स्वसमभिव्याहृतपदार्थोत्तरसापेक्षत्वं बोध्यते तदसमभिव्याहारे तु न। अत-एवात्रैक एव चशब्दः प्रयुज्यते तेन यच्छब्दोत्तरंचशब्दस्तस्यैव समभिव्याहृतक्रियादावन्वये इतरसापेक्षत्वंनत्वन्यस्येति बोध्यम्। (

३ ) एकस्मिन् एकधर्मावच्छिन्नेइत्यर्थः अन्वय इत्येतस्य यत्रेत्यादिस्तथाच यत्रैवमन्वय-स्तत्र समुच्चयश्चशब्दार्थैति भावः। न त्वन्वयएव समुच्चयइति म्रमित{??}। अन्वयश्च विशेष्यतया विशेषणतया वातत्राद्यं चैत्रो गच्छति पचति चेत्यादौ क्रियासमुच्चये,अन्त्यम् ईश्वरं गुरुञ्च भजस्वेत्यादौ द्रव्यसमुच्चये। (

४ ) आनुषङ्गिकत्वमनुद्देश्यत्वमन्यतरस्य प्राधान्यञ्च तत्स-म्बन्धिक्रियाया अवश्यकर्त्तव्यत्वरूपं तथाच सममिंव्या-हृतक्रियादिगतमानुपङ्गिकत्वव्याप्यत्वान्वाचयचकारार्थः। (

५ ) मिलितानामिति परस्परापेक्षा{??}मुद्भूतावयवभेदक-समूहरूपाणातित्यर्थः। अन्वय इत्यर्स्यैकवर्मावच्छिन्नेना-न्वयैत्यर्थः। तेन नीधातोः संयोगजनफव्याग्ररजन-कव्यापारबोधकतया द्विकमकत्वेन अजां ग्रामं नयतीत्यादौअजाग्रामयोरुभयोरपि धातू{??}त्तक्रियायामन्ववेन तत्रन चकारयोगो नापि समासः तयोरेकस्व संयोगेऽपरस्यसंयोगानुकूलव्यापारेऽन्वयादेकत्रान्वयाभावात्। अत-एव यत्रातेकचकारप्रयोगः, व्यत्रैवमन्वयश्च तत्रेतरेतर-योगस्ताद्दशसमूहश्च चार्थे इत्यर्थः। (

६ ) अ{??}न्नूताव-यवगेदसमूहस्य प्रतीत्या प्रत्येकावयव{??}त्तिधर्म एव प्रवृ-[Page2806-a+ 38] त्तिनिमित्तं समाहारे तु द्वित्वत्रित्वादिनेब समूहस्यभानात् समूढत्वमेव प्रवृत्तिनिमितमिति विशेषः। एवञ्चउभयत्रैव समूहस्य बोधः। (

७ ) असामथ्यादिति एका-र्थीनावा{??}दित्यर्थः। तथाहि बहुर्ब्राहुघटकपदानांकर्माय{??}वेणैव द्वन्द्वघटकपदानां चार्थान्तर्भावेणैवएकार्{??}वस्यकः
“समर्थः पदयिविरिति” प्रा॰परिभाषितत्वात{??}र्थ द्वन्द्वैत्यूक्तेश्च। नचेतरतरान्वयेपरस्परनिरपेक्षाणामेकार्थीमावः सम्भवति येन समु-ञ्चयान्वघयविकार्थीभावेऽनर्भूतौ स्याताम्। ततश्चेतरेत-रयोगे समाहारे च साहित्यस्य सत्त्वादेकार्थीभावस्त-यास्तदभावान्न तथेति बोध्यम्। इयांस्तु विशेष इतरेतर-योगे साहित्यं विशेषणं द्रव्यं विशेष्यं, समाहारे तुसाहित्यं प्रधानं दव्यं विशेषणमिति यथा चानयोर्बोध-वैलक्षण्यं तथाकरे दृश्यम्”। पक्षन्तरं चात्र पुनरथकम्यथा
“मूर्खोऽपि शोभते तावत् सभायां वस्त्रवेष्टितः। तावच्च शोभते मर्खो यावत् किञ्चित् न भाषते” हितो॰।

९ तुल्ययोगित्य

१० विनियोगे च शब्दार्थेचि॰। तत्र तुल्ययोगितालङ्कारस्य चेन द्योतनात्तस्य तदर्थकतायथा
“सङ्कचन्ति सरोजानि स्वैरिणी वदनानि च” चन्द्रा॰। एवं दीपकालङ्कारद्योतकताऽपि

३९

९ पृ॰दृश्या।
“सती च प्रयोषित् प्रकृतिश्च निश्चला” माघः। चकारद्वयप्रयोगे क्वचिदविलम्बयोगितायाः क्वचिततुल्यप्राधान्यस्य चावबोधनम् यथा इतीरिता पत्ररथेनतेन ह्राणा च हृष्टा च यभाण भैमी” नै॰।
“कला चसा कान्तमता कलाभृतस्त्वमस्य लोकस्य च नेत्र कौमुदी” कुमा॰। लिदनुबन्धः चण यद्यर्थे तस्य प्रयोगे णित्त्वम्।

¦ पु॰ चीयते शुक्लपक्ष किरणैः अङ्गं परधनं वा चिनोतिवा चि--ड।

१ चन्द्रे

२ कच्छपे

३ चौरे

४ चण्डेशे

५ चर्वणेच मेदि॰।

६ निर्वीजे

७ दुर्जने च त्रि॰ शबदरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

च¦ The twentieth letter of the alphabet, and first of the second or palatial class of consonants, having the sound of Ch in church.

च¦ mfn. (चः-चा-चं)
1. Seedless.
2. Vile, base. m. (-चः)
1. A name of SHIVA.
2. The moon.
3. A theif.
4. A tortoise. Ind A particle and conjunction copulative or disjunctive. corresponding to.
1. And.
2. Also,
3. Moreover.
4. Mutually.
5. Equally.
6. Otherwise.
7. For, on account of.
8. But. &c.
9. An expletive. E. चर् to go, or चि to collect, &c. ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

च [c], a.

Seedless.

Bad, vile. -चः An epithet of Śiva.

Chewing, eating.

The moon.

A tortoise.

A thief. चश्चञ्चुश्चरणो$र्चिर्मुखो रविः । चा कद्रूरदितिः कन्या ...... and चं चरित्रं सुखं दुःखं कश्मलं भ्रमणं पयः । Enm.-ind. A particle expressing

Copulation (and, also as well as, moreover) used to join words or assertions material change of meaning; गन्धमाघ्राय चोर्व्याः Me.21; आमोदमुपजिघ्नन्तौ R.1.43; see Bk.2.1;14.12; R.3.3; 13.7; Ms.4.29 also.)

चम् [cam], 1 P. (चमति, चान्त)

To drink, sip, drink off; चचाम मधु माध्वीकं Bk.14.94.

To eat. ... मांसं चेमुर्जगुः पपुः । Bk.14.53.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

च the 20th letter of the alphabet , 1st of the 2nd (or palatal) class of consonants , having the sound of छ्in छुर्छ्.

च ind. and , both , also , moreover , as well as (= ? , Lat. que , placed like these particles as an enclitic after the word which it connects with what precedes ; when used with a personal pronoun this must appear in its fuller accented form ( e.g. तव च मम च[not ते च मे च] , " both of thee and me ") , when used after verbs the first of them is accented Pa1n2. 8-1 , 58 f. ; it connects whole sentences as well as parts of sentences ; in RV. the double चoccurs more frequently than the single ( e.g. अहं च त्वं च, " I and thou " , viii , 62 , 11 ) ; the double चmay also be used somewhat redundantly in class. Sanskrit ( e.g. क्व हरिणकानां जीवितं चा-तिलोलं क्व च वज्र-साराः शरास् ते, " where is the frail existence , of fawns and where are thy adamantine arrows? " S3ak. i , 10 ) ; in later literature , however , the first चis more usually omitted ( e.g. अहं त्वं च) , and when more than two things are enumerated only one चis often found ( e.g. तेजसा यशसा लक्ष्म्या स्थित्या च परया, " in glory , in fame , in beauty , and in high position " Nal. xii , 6 ) ; elsewhere , when more than two things are enumerated , चis placed after some and omitted after others ( e.g. ऋण-दाता च वैद्यश् च श्रोत्रियो नदी, " the payer of a debt and a physician [and] a Brahman [and] a river " Hit. i , 4 , 55 ) ; in Ved. and even in class. Sanskrit [ Mn. iii , 20 ; ix , 322 Hit. ] , when the double चwould generally be used , the second may occasionally be omitted ( e.g. इन्द्रश् च सोम, " both इन्द्र[and thou] सोम" RV. vii , 104 , 25 ; दुर्भेद्यश् चा-शुसंधेयः, " both difficult to be divided [and] quickly united " Hit. i ) ; with lexicographers चmay imply a reference to certain other words which are not expressed ( e.g. कमण्डलौ च करकः, " the word करकhas the meaning " pitcher " and other meanings ") ; sometimes चis = एव, even , indeed , certainly , just ( e.g. सु-चिन्तितं चौ-षधं न नाम-मात्रेण करोत्य् अरोगम्, " even a well-devised remedy does not cure a disease by its mere name " Hit. ; यावन्त एव ते तावांश्च सः, " as great as they [were] just so great was he " Ragh. xii , 45 ) ; occasionally चis disjunctive , " but " , " on the contrary " , " on the other hand " , " yet " , " nevertheless " ( वरम् आद्यौ न चा-न्तिमः, " better the two first but not the last " Hit. Page380,2 ; शान्तम् इदम् आश्रम-पदं स्फुरति च बाहुः, " this hermitage is tranquil yet my arm throbs " S3ak. i , 15 ) ; च-च, though-yet Vikr. ii , 9 ; च-न च, though - yet not Pat. ; च- न तु( v.l. ननु) id. , Ma1lav. iv , 8 ; न च- च, though not - yet Pat. ; चmay be used for वा, " either " , " or " ( e.g. इह चा-मुत्र वा, " either here or hereafter " Mn. xii , 89 ; स्त्री वा पुमान् वा यच् चा-न्यत् सत्त्वम्, " either a woman or a man or any other being " R. ) , and when a neg. particle is joined with चthe two may then be translated by " neither " , " nor " ; occasionally one चor one नis omitted ( e.g. न च परिभोक्तुं नै-व शक्नोमि हातुम्, " I am able neither to enjoy nor to abandon " S3ak. v , 18 ; न पूर्वा-ह्णे ना च परा-ह्णे, " neither in the forenoon nor in the afternoon ") ; च-चmay express immediate connection between two acts or their simultaneous occurrence ( e.g. मम च मुक्तं तमसा मनो मनसिजेन धनुषि शरश् च निवेशितः, " no sooner is my mind freed from darkness than a shaft is fixed on his bow by the heart-born god " , vi , 8 ) ; चis sometimes = चे-द्, " if " ( cf. Pa1n2. 8-1 , 30 ; the verb is accented) RV. AV. MBh. Vikr. ii , 20 Bhartr2. ii , 45 ; चmay be used as an expletive ( e.g. अन्यैश् च क्रतुभिश् च, " and with other sacrifices ") ; चis often joined to an adv. like एव, अपि, तथा, तथै-व, etc. , either with or without a neg. particle ( e.g. वैरिणं नो-पसेवेत सहा-यं चैव वैरिणः, " one ought not to serve either an enemy or the ally of an enemy " Mn. iv , 133 ) ; (See. एव, अपि, etc. ) For the meaning of चafter an interrogative See. 2. क, 2. कथा, किम्, क्व) ; ([ cf. ? , Lat. que , pe (in nempe etc. ) ; Goth. uh ; Zd. ca ; Old Pers. ca1.])

च mfn. pure L.

च mfn. moving to and fro L.

च mfn. mischievous L.

च mfn. seedless L.

च m. a thief. L.

च m. the moon L.

च m. a tortoise L.

च m. शिवL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

cakra^1 ........................................ p162
cakra^2 ........................................ p162
cakra ............................................ p21
cakramanda .................................. p21
cakravyūha .................................. p103
cakraśakaṭa ................................ p104
caṇḍatuṇḍaka .............................. p21
caṇḍālikāśrama .......................... p527
candanā ........................................ p351
candraka ...................................... p21
candrabhāgā ................................ p351
candramas .................................... p284
candramasas tīrtham ................ p352
candrasya āyatanam .................. p603
candrārdha .................................. p105
camasa .......................................... p352
camasodbheda .............................. p352
campakāraṇya .............................. p352
campā ............................................ p527
carakṣā ........................................ p352
carmakhaṇḍika ............................ p725
carmaṇvatī .................................. p352
cāndramasa hrada ...................... p353
cārvākanigraha .......................... p181
cikura .......................................... p21
cicchila ...................................... p725
citra ............................................ p22
citrakūṭa .................................... p353
citrapathā .................................. p353
citrabarha .................................. p22
citrabarhā .................................. p353
citravatī .................................... p353
citravahā .................................... p353
citravedika ................................ p22
citrasena .................................... p22
citrasenā .................................... p353
citrā ............................................ p245
citropalā .................................... p353
cirāntaka .................................... p22
cīna .............................................. p725
cīravatī ...................................... p353
culukā .......................................... p354
cūcupa .......................................... p726
cedi .............................................. p726
cedika .......................................... p726
cedipura ...................................... p528
cedipurī ...................................... p528
cedirājapurī .............................. p528
cedivatsa .................................... p730
cedīnāṁ purī .............................. p528
caityaka ...................................... p354
caitra .......................................... p245
caitraka ...................................... p730
caitraki ...................................... p730
caitraratha ................................ p181
caitraratha ................................ p354
caitrī .......................................... p246
cola .............................................. p730
cyavanasya āśramaḥ .................. p528
cyavanasya saraḥ ...................... p354

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=च&oldid=507764" इत्यस्माद् प्रतिप्राप्तम्