ज्येष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठः, त्रि, (अयमेषामतिशयेन वृद्धः प्रशस्यो वा इति । वृद्ध वा प्रसस्य + इष्ठन् ततो ज्यादेशः ।) अतिवृद्धः । श्रेष्ठः । (यथा, महा- भारते । १३ । १४३ । ७ । “ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्बिजः ॥” ज्येष्ठानक्षत्रयुक्ता पौर्णमासीत्यण् इति ज्येष्ठी सा अस्मिन् मासीति पुनरण् संज्ञापूर्ब्बस्य विधरनित्यत्वान्न वृद्धिः ।) ज्यैष्ठमासि, पुं । इति मेदिनी । ठे, ५ ॥ अग्रजः । (यथा, रघुः । १२ । १९ । “दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराड्मुखः ॥”) अधिकवयाः । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठ पुं।

ज्येष्ठमासः

समानार्थक:ज्येष्ठ,शुक्र

1।4।16।1।4

वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्. आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

ज्येष्ठ वि।

अतिशस्तः

समानार्थक:ज्येष्ठ

3।3।41।2।1

निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि। त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठ¦ त्रि॰ अतिशयेन वृद्धः प्रशस्यो बा वृद्ध + प्रशस्य + वा इष्ठन्ज्यादेशः।

१ अतिवृद्धे

२ प्रशस्ये

३ अग्रजे भ्रातरि

४ अग्रज-भगिन्यां स्त्री।

५ अश्विन्यादिनक्षत्रेषु अष्टादशे नक्षते स्त्रीतद्रूपादि अश्लेषाशब्दे

४९

७ पृ॰ दृश्यम्। ज्येष्ठानक्षत्र-युक्ता पौर्णमासी अण् ज्यैष्ठी सास्मिन् मासे पुनरण्संज्ञात्वात् ह्रस्वः।

६ ज्येष्ठ ज्यैष्ठमासे मेदि॰। गौरा॰ङीष्।

७ गृहगोधिकायां स्त्री शब्दरत्ना॰। तस्याः दिग्भेदे रुतफलं ति॰ त॰ उक्तं यथा
“वित्तं ब्रह्मणि कार्यसिद्धिरतुला शक्रे हुताशेभयं याम्यामग्निभ्यं सुरद्विषि कलिर्लाभः समुद्रालये। वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गना चौत्तरे ऐशान्यांमरणं ध्रुवं निगदितं दिग्लक्षणं खञ्जने। ज्येष्ठीरुतेक्षुतेऽप्येवमूचुः केचिच्च कोविदाः” अधिकं गृहगोधिकाशब्दे

२६

५७ पृ॰ दृश्यम्।

८ मध्यमाङ्गुलौ स्त्री हेमच॰।

९ गङ्गायांस्त्री राजनि॰ तस्याः पार्वत्याः प्रथमं हिमालयाज्जातत्त्वात्तथात्वम्। ॰ परिणीते भर्त्तुरधिकस्नेहभाजने नायि-काभेदे रतिमञ्जरी। लक्ष्म्याः प्रथमोत्पन्नायां ज्येष्ठभ-गिन्याम्

११ अलक्ष्मीदेव्यां स्त्री। तदुत्पत्त्यादिकथा पद्मपु॰उत्त॰ ख॰ उक्ता यथा
“मां प्रणम्य पुनर्देवा ममन्थुः क्षीर-सागरम। तस्मिन् प्रमथ्यमाने तु मया देवैश्च भाविनि। । ज्येष्ठा देवी समुत्पन्ना रक्तस्रग्वाससावृता। उत्पन्ना सा-ऽब्रवीद्देवान् किं कर्त्तव्यं मयेति वै। तामब्रुवस्तदा[Page3160-b+ 38] देवीं सर्वे देवगणा भृशम्। येषां गृहान्तरे नित्यंकलहं संप्रवर्त्तते। तत्ते स्थानं प्रयच्छामो वासस्तत्रशुभानने!। यस्य गेहं कपालास्थिभस्मकेशादिचिह्नितम्। भाषन्ते परुषं नित्यं वसन्त्यनृतवादिनः। सन्ध्याकालेच ये पापाः स्वपन्ति मलचेतसः। तेषां वेश्मनिसंतिष्ठ दुःखदारिद्र्यदायिनी। कपालकेशभस्मास्थितुषाङ्गाराणि यत्र तु। तत्र ते वसतिस्थानं भविष्यति नसंशयः। अकृत्वा पादयोः शौचं यस्त्वाचामति दुर्मतिः। तं भजस्व सदा देवि! कलुषेणावृता भृशम्। तृणाङ्गारकपालाश्मवालुकायसचर्मभिः। दन्तधावनकर्त्तारोभविष्यन्ति नराधमाः। रमख मलिना देवि! तेषांवेश्मसु नित्यशः। तिलपिष्टञ्च नक्तञ्च कालिङ्गशिग्रुगृञ्जनम्। छत्राकं विड्वराहञ्च विल्वकोषातकीफलम्। अलावुं श्रीफलं ये वै खादयन्ति नराधमाः। तेषां गृहेतव स्यानं देवि! दारिद्र्यदे! सदा। इत्यादिश्य सुराःसर्वे ते ज्येष्ठां कलिवल्लभाम्। पुनश्च मन्थनं चक्रुःक्षीराब्धिं सुसमाहिताः”।

१२ नवदजातायां ब्रह्मप्रकृति-भूतायां देव्यां स्त्री
“रौद्री विन्दोस्ततो नादाज्ज्येष्ठावीजादजायत। वामा, ताभ्यः समुत्पन्ना रुद्रब्रह्मरमा-धिपाः” शा॰ ति॰।

१३ परमेश्वरे पु॰।
“ईशानः प्राणदःप्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः” विष्णुस॰।

१४ प्राणे
“प्राणो वा ज्येष्ठश्च श्रेष्ठश्च” छा॰ उ॰। काशीस्थे

१५ गौरीभेदे स्त्री ज्योष्ठस्थानशब्दे विवृतिः।

ज्येष्ठ¦ पु॰ ज्यैष्ठी पूर्णिमास्मिन् मासे अण्। ज्येष्ठानक्षत्र-युक्तयोगार्हपौर्णमासीधटिते वृषस्थरव्यारब्धे शुक्लप्रतिप-दादिदर्शान्तरूपे

१ चान्द्रे मासे
“ज्यैष्ठे मासि क्षितिसुत-दिने जाह्नवी मर्त्यलोके” ति॰ त॰। तथाभूतेऽर्द्धमासा-त्मके

२ पक्षे। ज्येष्ठामूलानक्षत्रयोरन्यतरनक्षत्रे पर्वान्त-काले गुरोरुदयास्तोपलक्षिते

३ वार्हस्पत्ये वर्षभेदे च का-र्त्तिकशब्दे

१९

४९ पृ॰ विवृत्तिः।
“ज्यैष्ठे संवत्सरे चैवज्यैष्ठमासस्य पूर्णिमा। ज्येष्ठाभेन समायुक्ता महाज्यैष्ठीप्रकीर्त्तिता” राजमार्त्त॰। ज्यैष्ठसंवत्सरश्च।
“ज्येष्ठा-मूलोपगे जीवे वर्षं स्यात् शाक्रदैवतम्” विष्णुधर्म्मोत्त-रोक्तः ग्राह्यः” ति॰ त॰। वृषस्थरविके सौरे

४ मासभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठी-ष्ठं)
1. Best, most excellent, pre-eminent.
2. Very old, oldest.
3. most senior Elder, elder born. f. (-ष्ठा)
1. One of the aste risms, considered as lunar mansions; the eighteenth, comprising three stars, of which one is a Scorpionis, figured by a ring or ear- ring.
2. The middle finger.
3. Misfortune, personified as a goddess.
4. The Ganges, (-ष्ठा or ष्ठी) A small house lizard. m. (-ष्ठः) The month Jyeshtha or Jeyte, (May-June.) n. (-ष्ठं) Age, oldness. E. ज्या to decay, to grow infirm or old, affix इष्ठन्, fem. affixes टाप् and ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठ [jyēṣṭha], a. (Superl. of प्रशस्य or वृद्ध)

Eldest, most senior.

Most excellent, best.

Pre-eminent, first, chief, highest.

ष्ठः An elder brother; R.12.19,35.

An epithet of the Supreme Being.

Life.

N. a lunar month (= ज्यैष्ठ q. v.).

ष्ठा An eldest sister.

N. of the eighteenth lunar mansion (consisting of the three stars).

The middle finger.

A small house-lizard.

An epithet of the Ganges.

The goddess of misfortune, elder sister of Lakṣmī; ज्येष्ठा च माया कलहश्च दम्भः Bhāg.1.17.32. -ष्ठी A small houselizard.

ष्ठम् The most excellent, the first or head.

Tin.

Comp. अंशः eldest brother's share.

the right of the eldest brother to a larger share of the patrimonial property.

the best share. -अम्बु n.

water in which grain has been washed.

the scum of boiled rice.

आश्रमः the highest or most excellent order in the religious life of a Brāhmaṇa; i. e. that of a householder; तस्माज्ज्येष्ठाश्रमो गृही Ms.3.78.

a householder. -कलशः N. of Bilhaṇa's father. -तातः a father's eldest brother. -तातिः f. Ved. superiority. -राज् m. a Sovereign; ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पते Rv.2.23.1. -ललिता A particular vow to be observed in the month of Jye&stodṭha.

वर्णः the highest caste (that of Brāhmaṇas).

a Brāhmaṇa. -वृत्तिः f. the duties of seniority. -श्वश्रूःf.

a wife's eldest sister.

the eldest mother-in-law.-सामन् n. N. of a particular Sāman; ब्रह्मदेयात्मसंतानो ज्येष्ठसामग एव च Ms.3.185.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठ mfn. ( Pa1n2. 5-3 , 61 ) most excellent , pre-eminent , first , chief. best , greatest , ( m. ) the chief. RV. etc. ( ifc. [ e.g. वचन-, " best in speech " Ka1s3. ] Pa1n2. 6-2 , 25 )

ज्येष्ठ mfn. more excellent than( abl. ) MBh. xiii , 7205

ज्येष्ठ mfn. (in math. with पदor मूल)greatest (root [square root] extracted from the quantity operated upon)

ज्येष्ठ mfn. ( Pa1n2. 5-3 , 62 ; ष्ठ)eldest , ( m. ) the eldest brother RV. iv , 33 , 5 ; x , 11 , 2 AV. etc.

ज्येष्ठ m. ( scil. घट)the ascending bucket (in a machine for raising water) Kuval. 46

ज्येष्ठ m. for ज्यैष्ठVarBr2S. Ra1jat.

ज्येष्ठ m. N. of a man MBh. xii , 13593

ज्येष्ठ n. what is most excellent RV. x , 120 , 1 AV. (also oxyt.)

ज्येष्ठ n. tin L.

ज्येष्ठ n. N. of a लिङ्गLin3gaP. i , 1 , 3

ज्येष्ठ n. with पुष्करSee. ष्ठ-प्

ज्येष्ठ f( आL. , ई). a small house-lizard (also ज्यैष्ठीW. ) Tithya1d.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the २० Amita1bha गणस्. वा. १००. १७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JYEṢṬHA : A hermit who was well-versed in the Sāma- Veda. This ancient hermit once received valuable advice from the Sātvatas called Barhiṣads. (M.B. Śānti Parva, Chapter 348, Stanza 46).


_______________________________
*1st word in right half of page 360 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jyeṣṭha, ordinarily meaning ‘greatest,’ has further the specific sense of ‘eldest’[१] brother in the Rigveda.[२] It also means the eldest among sons, which is another side of the same sense.[३]

  1. With changed accent, jyeṣṭhá. Cf. Macdonell, Vedic Grammar, p. 83, 14.
  2. iv. 33, 5;
    x. 11, 2.
  3. Av. xii. 2, 35;
    Aitareya Brāhmaṇa, vii. 17;
    Śatapatha Brāhmaṇa, xi. 5, 3, 8, and cf. Jyaiṣthineya.
"https://sa.wiktionary.org/w/index.php?title=ज्येष्ठ&oldid=473491" इत्यस्माद् प्रतिप्राप्तम्