कठिन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठिनम्, त्रि, (कठ् + इनन् । उणादिमते तु इनच् । “बहुलमन्यत्रापि” । उणां । २ । ४ । ९ ।) कठरम् । तत्पर्य्यायः । कक्खटम् २ क्रूरम् ३ कठोरम् ४ निष्ठुरम् ५ दृढम् ६ जठरम् ७ मू- र्त्तिमत् ८ मूर्त्तम् ९ । इत्यमरः । ३ । १ । ७६ ॥ खक्खटम् १० कठोलम् ११ जरठम् १२ । इति तट्टीका ॥ कर्करम् १३ कठरम् १४ । इति जटा- धरः ॥ काठरम् १५ कमठायितम् १६ । इति शब्दरत्नावली ॥ स्तब्धम् । इति मेदिनी ॥ (“उन्मूलयंश्च कठिनान् नृपान् वायुरिव द्रुमान्” । कथासरित्सागरे १९ । ८९ ॥ तथा कुमारे ४ । ५ । “न विदीर्य्ये कठिनाः खलु स्त्रियः” ॥ अपि च “भक्ष्यांश्चातिकठिनान् दन्तरोगी विव- र्जयेत्” । सुश्रुते ॥)

कठिनम्, क्ली, स्त्री, (कठ् + “बहुलमत्रापि” । उणां २ । ४९ । इति इनच् ।) स्थाली । इति मे- दिनीशब्दरत्नावल्यौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठिन वि।

कठिनम्

समानार्थक:खक्खट,कठिन,क्रूर,कठोर,निष्ठुर,दृढ,जरठ,मूर्तिमत्,मूर्त,घन,जठर,कर्कश

3।1।76।1।2

खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्. जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठिन¦ त्रि॰ कठ--इनन्।

१ क्रूरे,

२ निष्टुरे,

३ कठोरे,

४ स्तब्धेच मेदि॰

५ स्थाल्याम् स्त्री हारा॰ न॰ च

६ गुडस्य शर्कायांविश्वः।
“नवजलधरश्यामाः पश्यन् दिशो भवतीं बिनाकठिनह्वदये! जीवत्येष प्रिये! स तव प्रियः
“न विदीर्य्येकठिनाः खलु स्त्रियः” कुमा॰
“परामृशत् कठिनकठोर-कामिनीत्यादि” माघः।
“नितान्तकठिनां रुजं मम न वेदसा मानसीम्” विक्रमो॰।
“गण्डाभोगात् कठिनविषमामेक-वेणीं करेण” मेघ॰ तस्य भावः त्व। कठिनत्व कठिनभावे न॰। तल। कठिनता तद्भावे स्त्री। ष्यञ्। काठिन्य तद्भाबे न॰। काठिन्यञ्च द्रव्यस्य आरम्भकसंयोगविशेषात्स्पर्शविशेष!। शब्दादेस्तु दुर्बोधत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठिन¦ mfn. (-नः-ना-नं)
1. Hard, solid.
2. Unkind, severe.
3. Paralysed, [Page150-a+ 60] rendered stiff or rigid.
4. Difficult, obscure. nf. (-नं-ना) An earthen vessel. f. (-ना) A sweetmeat made with refined sugar. (-नी or -निका) Chalk. E. कठ् to be confounded, and इनच् Unadi affix, fem. affixes ठाप् and ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठिन [kaṭhina], a.

Hard, stiff; कठिनविषमामेकवेणीं सारयन्तीम् Me. 93; Amaru.72; Mu.2.2; so ˚स्तनौ.

Hardhearted, cruel, ruthless; न विदीर्ये कठिनाः खलु स्त्रियः Ku.4.5; Pt.1.64; विसृज कठिने मानमधुना Amaru.7; so ˚हृदय;

˚चित्त Inexorable, inflexible.

Sharp, violent, intense (as pain &c.). नितान्तकठिनां रुजं मम न वेद सा मानसीम् V.2.11.

Giving pain. -नः A thicket.

ना A sweetmeat made with refined sugar.

An earthen vessel for cooking; (n. also in this sense).-नी Chalk. See कठिनिका.

नम् A Shovel, scoop; प्लवे कठिनकाजं च रामश्चक्रे समाहितः Rām.2.55.17.

An earthen vessel for cooking (स्थाली); कठिनं पूरयामास Mb. 3.297.1.

A strap or pole for carrying burden; P. IV.4.72. -Comp. -पृष्ठः, -कः a tortoise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठिन mfn. (Comm. on Un2. ii , 49 )hard , firm , stiff (opposed to मृदु)

कठिन mfn. difficult Megh. Sus3r. Pan5cat. etc.

कठिन mfn. harsh , inflexible , cruel Kum. Amar. etc.

कठिन mfn. violent (as pain) Vikr.

कठिन n. an earthen vessel for cooking MBh. R.

कठिन n. a strap or pole for carrying burdens Pa1n2. 4-4 , 72 (See. वंश-कठिन)

कठिन n. a shovel , scoop L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठिन न.
एक प्रकार का मिट्टी का बर्तन, जिसमें चावल को उबालने के बाद इसमें माड़ (चावल का पानी) उड़ेला जाता है (इसे पाकज भी कहते हैं), बौ.श्रौ.सू. 17.31-38; श्रौ.को. (अं.) 1.9०3; VL कठिन।

"https://sa.wiktionary.org/w/index.php?title=कठिन&oldid=494491" इत्यस्माद् प्रतिप्राप्तम्