कमलम्

विकिशब्दकोशः तः
कमलगुच्छम्
कमलम्

संस्कृतम्[सम्पाद्यताम्]

  • कमलं, अम्बुजः, अरविन्दं, उत्पलं, नलिनं, पङ्कजं, सरसिजं, अब्जं, पन्ङ्खजं, सुजलं, आस्यपत्त्रं, उदजं, कंजं, कुटपं, कुवं, खरदण्डं, जलाह्वयं, जलजकुसुमं, जलेजातं, नदीजं, नीररुहं, पयोरुहं, पथोजं, पाथोरुहं, पुष्करं, रमाप्रियं, विष्णुपदं, शीतलं, शोभनं, श्रृङ्गं, श्रीपर्णं, सारसं, सरसीजं, सरोजं, कान्तारं, हिमम्।


नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

फलकम्:वर्गःपुष्पाणी कमलम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमलम्, क्ली, (कमेः णिङ् भावे वृषादित्वात् कलच् । कम् जलं अलति अलंकरोति वा । अल् + अच् । अन्तणिजन्तो वा ।) जलजपुष्पविशेषः । तत्पर्य्यायः । पद्मम् २ पाथोजम् ३ नलम् ४ नलिनम् ५ अम्भो- जभ् ६ अम्बुजन्म ७ अम्बुजम् ८ श्रीः ९ अम्बुरु- हम् १० अम्बुपद्मम् ११ सुजलम् १२ अम्भोरु- हम् १३ सारसम् १४ पङ्कजम् १५ सरसीरुहम् १६ कुटपम् १७ पाथोरुहम् १८ पुष्करम् १९ वार्ज्जम् २० तामरसम् २१ कुशेशयम् २२ कञ्जम् २३ कजम् २४ अरविन्दम् २५ शतपत्रम् २६ विसकुसुमम् २७ सहस्रपत्रम् २८ महोत्पलम् २९ वारिरुहम् ३० सरसिजम् ३१ सलिलजम् ३२ पङ्केरुहम् ३३ राजीवम् ३४ । (यथा रघुः । ३ । ३६ । “अगच्छदंशेन गुणाभिलाषिणी नवावतार कमलादिवोत्पलम्” ॥) अस्य गुणाः शीतलत्वम् । स्वादुत्वम् । रक्तपित्त- भ्रमार्त्तिनाशित्वम् । सुगन्धित्वम् । भ्रान्तिसन्ताप- शान्तिपरमतृप्तिकारित्वञ्च । इति राजनिर्घण्टः ॥ (तथाच भावप्रकाशः । “कमलं शीतलं वर्ण्यं मधुरं कफपित्तजित् । तृष्णादाहास्रविस्फोटविषवीसर्पनाशनम् ॥ विशेषतः सितं पद्मं पुण्डरीकमिति स्मृतम् । रक्तं कोकनदं ज्ञेयं नीलमिन्दीवरं स्मृतम् ॥ धवलं कमलं शीतं मधुरं कफपित्तजित् । तस्मादल्पगुणं किञ्चिदन्यद्रक्तोत्पलादिकम्” ॥) जलम् । ताम्रम् । क्लोम । औषधम् । इति मे- दिनी ॥ सारसपक्षी । इत्यमरः । १ । १० । ४० ॥

"https://sa.wiktionary.org/w/index.php?title=कमलम्&oldid=494892" इत्यस्माद् प्रतिप्राप्तम्