स्वर्गः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • स्वर्गः, नाकः, अपवर्गः, शाश्र्वतः, सूमः, सुरपथः, सुरलोकः, अक्षयलोकः, अमानुषलोकः, अवरोहः, ऊर्ध्वलोकः, ॠभुक्षः, तरणः, तविषः, त्रिदशालयः, दिद्युः, दीदिविः, देवनिकायः, देवपथः, देवालयः, द्युनिवासः, द्रापः, धरुणः, निराकारः, फलोदयः, मन्दरः, मन्दारः, रमतिः, शुभ्रः, सर्वतोमुखः, सौरिकः, सुरालयः, दिवसः, पुरुः, स्थविः।

नामम्[सम्पाद्यताम्]

  • स्वर्गः नाम आकाशः।

अन्य शब्दाः[सम्पाद्यताम्]

त्रिदिवः

अनुवादाः[सम्पाद्यताम्]

തർജ്ജമകൾ[सम्पाद्यताम्]

  • मलयालम्
  1. -സ്വർഗ്ഗം,(स्वर्गम्)
  2. -ത്രിദിവം, त्रिदिवम्
  3. -ത്രിദശാലയം, (त्रिदशालयम्)
  4. -സുരാലയം(सुरालयम्),

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्गः, पुं, (स्वरिति गीयते इति । मै + कः । यद्वा, सुष्टु अर्ज्यते इति । अर्ज अर्जने + घञ् । शङ्कादित्वात् कुत्वम् ।) देवतानामालयः । तत्- पर्य्यायः । स्वः २ नाकः ३ त्रिदिवः ४ त्रिदशा- अयः ५ सुरलोकः ६ द्योः ७ द्यौ ८ त्रिपि- ष्टपम् ९ । इत्यमरः । १ । १ । ६ ॥ मन्दरः १० अवरीहः ११ गौः १२ रमतिः १३ फलो- दयः १४ । इति जटाधरः ॥ देवलोकः १५ स्वर्लोकः १६ ऊर्द्ध्वलोकः १७ सुखाधारः १८ सौरिकः १९ शक्रभुवनम् २० दिवानम् २१ । इति शब्दरत्नावली ॥ * ॥ तस्य गुणदोषा यथा, -- सुबाहरुवाच । “स्वर्गस्य मे गुणान् ब्रूहि साम्प्रतं द्विजमत्तम । एतत् सर्व्वं द्विजश्रेष्ठ करिष्यामि न संशयः ॥ जैमिनिरुवाच ॥ नन्दनादीनि दिव्यानि रम्याणि विविधानि च । तत्रोद्यानानि पुण्यानि सर्व्वकामशुभानि च ॥ सर्व्वकामफलैर्वृक्षैः शोभितानि ममन्ततः । विमानानि सुदिव्यानि परितान्यप्सरोगणैः ॥ सर्व्वत्रैष विघित्राणि कामगानि रसानि च । तरुणादित्यवर्णानि मुक्ताजालान्तराणि च ॥ चन्द्रमण्डलशुभ्राणि हेमशय्यासनानि च । सर्व्वकामसमृद्धाश्च सुखदुःखविवर्जिताः ॥ नराः सुकृतिनस्ते तु विचरन्ति यथासुखम् । न तत्र नास्तिका यान्ति न स्तेया नाजितेन्द्रियाः ॥ न नृशंसा न पिशुनाः कतघ्ना न च मानिन । मत्यास्तपःस्थिताः शूरा दयावन्तः क्षमापराः ॥ यन्वानो दानशीलाश्च तत्र गच्छन्ति ते नराः । न रोगो न जरा मृत्युर्न शोको न हिमादयः ॥ न तत्र क्षुत्पिपासा च कस्य ग्लानिर्न दृश्यते । एते चान्ये च वहवो गुणाः सन्ति च भूपते ॥ दोषास्तत्रैव ये सन्ति तान् शृणुष्व च साम्प्रतम् । शुभस्य कर्म्मणः कृतुस्नं फलं तत्रैव भुज्यते । ततो योजनमानेन द्विगुणो मण्डलेन तु ॥ जनलोकस्थितो विप्र पञ्चमो मुनिसेवितः । तस्योपरि तपोलोकश्चतुर्भिः कोटिभिः स्मृतः ॥ सत्यलोकोऽष्टकोटीभिः सर्व्वेषामुपरिस्थितः । सर्व्वे छत्राकृतिर्ज्ञेया भुवना भुवनोपरि ॥ ब्रह्मलोकाद्विष्णुलोको द्विगुणेन व्यवस्थितः । वाराहे तस्य माहात्म्यं कथितं लोकचिन्तकैः ॥ ततः परं द्विजश्रेष्ठ ततो ह्यण्डकपालकम् । ब्रह्माण्डात् परतः साक्षात् निर्लेपः पुरुषः स्थितः ॥ यमुपास्य विमुच्येत तपोज्ञानसमन्विताः । इति ते संस्थितिः प्रोक्ता भूगोलस्य मयानघ ॥ यस्तु सम्यगिमां वेत्ति स याति परमां गतिम् ।” इति नृसिंहपुराणे ३० अध्यायः ॥ पारिभाषिकस्वर्गो यथा, -- “मनोऽनुकूलाः प्रमदा रूपवत्यः स्वलङ्कृताः । वासः प्रासादषष्ठेषु स्वर्गः स्याच्छुभकर्म्मणः ॥” इति गारुडे । १०९ । ४४ ॥ न्यायमते स्वर्गलक्षणं यथा । दुःखासम्भिन्न- त्वादिविशिष्टसुखत्वं स्वर्गत्वं तदेव स्वर्गपदशक्य- तावच्छेदकमिति सिद्धान्तः । आदिपदेन अन- न्तरदुःखग्रस्तभिन्नत्वाभिलाषोपनीतत्वयोःपरि- ग्रहः । अतएव । “यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं यत् तत् सुखं स्वःपदास्पदम् ॥” इति स्वरादिपदशक्तिग्राहकार्थवादोऽपि संग- च्छते । इति गदाधरभट्टाचार्य्यकृतवादार्थः ॥ * ॥ किञ्च । “मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्य्ययः । नरकस्वर्गसंज्ञेवै पापपुण्ये द्विजोत्तमाः ॥” इति ब्रह्मपुराणे १९ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्गः [svargḥ], Heaven, Indra's paradise; अहो स्वर्गादधिकतरं निर्वृतिस्थानम् Ś.7. -Comp. -आपगा the celestial Ganges.-ओकस्, -सद् m. a god, deity; स्वर्गः स्वर्गसदश्चैव धर्मश्च स्वयमेव तु (उपतिष्ठतु) Mb.14.92.27. -काम a. desirous of heaven. -गतिः, -गमनम् death. -गिरिः the heavenly mountain Sumeru. -तरङ्गिणी the Ganges; पश्य स्वर्गतरङ्गिणी- परिसरे Sūkti.62. -तर्षः eager desire for heaven. -द, -प्रद a. procuring (entrance into) paradise. -द्वारम् heaven's gate, the door of paradise, entrance into heaven; स्वर्गद्वारकपाटपाटनपटुर्धर्मो$पि नोपार्जितः Bh.3.11.-पतिः, -भर्तृ m. Indra. -पथः the milky way. -पर a. desirous of heaven.

मार्गः the road to heaven.

the milky way. -रोदःकुहरः the hollow space between heaven and earth; टाङ्कारः स्वर्गरोदःकुहरवलयितस्त्रासकारी न कस्य B. R.1.49.

लोकः the celestial region.

paradise. ˚ईश्वरः

Indra.

the body (as enjoying felicity in Indra's heaven). -वधूः, -स्त्री f. a celestial damsel, heavenly nymph, an apsaras; स्वर्गस्त्रीणां परिष्वङ्गः कथं मर्त्येन लभ्यते. -वासः residence in heaven.-साधनम् the means of attaining heaven.

"https://sa.wiktionary.org/w/index.php?title=स्वर्गः&oldid=505932" इत्यस्माद् प्रतिप्राप्तम्