सन्ततिः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अनुवादा:[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्ततिः, स्त्री, (सम् + तन + क्तिन् ।) गोत्रम् । इत्यमरः ॥ (यथा, रघुः । १ । ६९ । “सन्ततिः शुद्धवंश्याहि परत्रेह च शर्म्मणे ॥”) पंक्तिः । (यथा, कथासरित्सागरे । ११ । ५१ । “तत् श्रुत्वा नेत्रयुगलात् सरागादश्रुसन्ततिम् । हृदयाद्धीरताञ्चापि समं कन्या मुमोच सा ॥”) विस्तारः । (यथा, भागवते । १ । ४ । १९ । “व्यदधात् यज्ञसन्तत्यै वेदमेकं चतुर्व्विधम् ॥”) परस्पराभवः । पुत्त्रः । कन्या । इति विश्वः ॥ (यथा, स्मृतिः । “सन्तत्या पितॄणन्तु शोधयित्वा परिव्रजेत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=सन्ततिः&oldid=507021" इत्यस्माद् प्रतिप्राप्तम्