कात्यायनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कात्यायनी, स्त्री, (कतस्यापत्यं स्त्री । “गर्गादिभ्यो यञ्” । ४ । १ । १०५ । इति यञ् । “सर्व्वत्र- लोहितादिकतस्तेभ्यः” । ४ । १ । १८ । इति ष्फः । षित्वात् ङीष् ।) दुर्गा । (यथा मार्कण्डेय ९१ । २३ । “एतत्ते वदनं सौम्यं लौचनत्रयभूषितम् । पातु नः सर्व्वभूतेभ्यः कात्यायणि नमोऽस्तुते” ॥) अर्द्धवृद्धा काषायवसना विधवा । इत्यमरः । २ । ६ । १७ ॥ (याज्ञवल्क्यमुनेः पत्न्योरेका पत्नी । यदुक्तं वृहदारण्यकोपनिषदि । “याज्ञवल्क्यस्य द्वे भार्य्ये बभूवतुः मैत्रेयी कात्यायनी च । तयोर्हि मैत्रेयी ब्रह्मवादिनी बभूव स्त्रीप्रज्ञैव तर्हि कात्या- यनी” ॥ पत्न्यां ङीष् । कात्यायनस्य ॠषेः पत्नी” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कात्यायनी स्त्री।

पार्वती

समानार्थक:उमा,कात्यायनी,गौरी,काली,हैमवती,ईश्वरी,शिवा,भवानी,रुद्राणी,शर्वाणी,सर्वमङ्गला,अपर्णा,पार्वती,दुर्गा,मृडानी,चण्डिका,अम्बिका,आर्या,दाक्षायणी,गिरिजा,मेनकात्मजा,वृषाकपायी

1।1।36।4।2

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा। अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः। उमा कात्यायनी गौरी काली हैमवतीश्वरी॥

पति : शिवः

जनक : हिमवान्

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

कात्यायनी स्त्री।

अर्धवृद्धा_काषायवसना_अधवा_च_स्त्री

समानार्थक:कात्यायनी

2।6।17।2।1

स्त्री नग्निका कोटवी स्याद्दूतीसंचारिके समे। कात्यायन्यर्धवृद्धा या काषायवसनाधवा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कात्यायनी¦ स्त्री कतस्य गीत्रापत्यं स्त्री गर्गा॰ यञ् लोहित-कतन्ता॰ ष्फः षित्त्वात् ङीष्।

१ कतगोत्रापत्यस्त्रियाम्। पत्न्यां ङीष्।

२ कात्यायनर्षेः पत्न्याम्

३ तत्तुल्य कषा-यादिवस्त्रधारिण्यामर्द्धवृद्धायां विधवायां स्त्रियां

४ कल्पभेदेकतगोत्रोत्पन्नायां दुर्गायां

५ याज्ञवल्क्यर्षिपत्नीभेदे च।
“याज्ञवल्क्यस्य द्वे भार्य्ये बभूवतुः मैत्रेयो कात्यायनी चतयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव स्त्रीप्रज्ञैव तर्हिकात्यायनी” वृ॰ उ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कात्यायनी [kātyāyanī], 1 An elderly or middle aged widow (dressed in red clothes).

N. of a wife of Yajñavalkya मैत्रेयी च कात्यायनी च Bṛi. Up.4.5.1.

N. of Pārvatī; cf. उमा कात्यायनी गौरी काली हैमवतीश्वरी Ak. -Comp. -तन्त्रम्n. a Tantra containing the description of the methods of दुर्गापूजा and said to have been composed by Śiva.-पुत्रः, -सुतः N. of Kārttikeya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कात्यायनी f. N. of one of the two wives of याज्ञवल्क्यS3Br.

कात्यायनी f. of a प्रव्राजिकाKatha1s.

कात्यायनी f. of दुर्गाHariv. Lalit. Prab.

कात्यायनी f. a middle-aged widow dressed in red clothes L.

कात्यायनी f. of यनSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Image of; ten hands, three eyes, youthful, killing महिषासुर, and riding the lion. M. २६०. ५५-66. [page१-347+ ३३]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀTYĀYANĪ : One of the two wives of Yājñavalkya. After withdrawing completely from worldly activities, Yājñavalkya asked his wives to divide his worldly assets equally between them. But Maitreyī the other wife, being of a deeply spiritual nature, Kātyāyanī herself had to undertake the burden of all the material affairs. (Bṛha- dāraṇyakopaniṣad).


_______________________________
*4th word in left half of page 399 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kātyāyanī is the name of one of the two wives of Yājñavalkya in the Bṛhadāraṇyaka Upaniṣad.[१]

  1. ii. 4, 1;
    iv. 5, 1. 2. A Kātya appears in the Baudhāyana Śrauta Sūtra, ii. 15 et seq. See Weber, Indian Literature, 138.
"https://sa.wiktionary.org/w/index.php?title=कात्यायनी&oldid=495699" इत्यस्माद् प्रतिप्राप्तम्