अतिथि

विकिशब्दकोशः तः
Jump to navigation Jump to search

सम्स्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

आम्गलम्

  1. guest,

मलयालम्

हिन्दि-अतिथि

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिथिः, पुं, कुशपुत्रः । स च श्रीरामचन्द्रस्य पौत्रः । इति मेदिनी ॥ कोपः । इति विश्वः ॥

अतिथिः, त्रि, (अतति सातत्येन गच्छति न तिष्ठति अत् + इथिन्) अज्ञातपूर्ब्बगृहागतव्यक्तिः । इति श्रीधरस्वामी ॥ अतिथ् इति भाषा । तत्पर्य्यायः । आगन्तुः २ आवेशिकः ३ गृहागतः ४ । इत्य- मरः ॥ स्त्रीलिङ्गे आवेशिकी ५ अतिथी ६ । इति तट्टीकासारसुन्दरी ॥ आगान्तुः ७ । इति हड्ड- चन्द्रः । प्रघूर्णः ८ अभ्यागतः ९ प्राघूर्णिकः १० । इति हेमचन्द्रः ॥ प्राघुणिकः ११ । इति विश्वः ॥ प्राघुणः १२ । इति त्रिकाण्डशेषः ॥ * ॥ तस्य लक्षणं । यस्य न ज्ञायते नाम न च गोत्रं न च स्थितिः । अकस्मात् गृहमायाति सोऽतिथिः प्रोच्यते बुधैः ॥ * ॥ तस्य निवर्त्तने गृहस्थस्य दोषः यथा, -- “अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्त्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति” ॥ इति पुराणं ॥ * ॥ तस्य ग्रहणकालः । “ततो गोदोहमात्रन्तु कालं तिष्ठेद्गृहाङ्गने । अति- थिग्रहणार्थाय तदूर्द्ध्वं वा यदृच्छया” ॥ इति विष्णुपुराणं ॥ * ॥ गोदोहकालश्च मुहूर्त्ताष्टम- भागः । यथा । “आचम्य च ततः कुर्य्यात् प्राज्ञो द्वारावलोकनं । मुहूर्त्तस्याष्टमं भागमुद्वीक्ष्यो ह्यतिथिर्भवेत्” ॥ इति मार्कण्डेयपुराणं ॥ * ॥ तस्य मूर्खत्वादिविचारो नास्ति । “प्रियो वा यदि वा द्वेष्यो मूर्खः पतित एव वा । संप्राप्ते वैश्वदेवान्ते सोऽतिथिः स्वर्गसंक्रमः” ॥ इति शातातपः ॥ * ॥ तस्य वेदादयो न प्रष्टव्याः । “स्वाध्यायगोत्रचरणमपृष्ट्वापि तथा कुलं । हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही” ॥ इति विष्णुपुराणं ॥ * ॥ तस्य देशादौ पृष्टे दोषः । “देशं नाम कुलं विद्यां पृष्ट्वा योऽन्नं प्रयच्छति । न स तत्फलमाप्नोति दत्त्वा स्वर्गं न गच्छति” ॥ इति स्मृतिः ॥ * ॥ अतिथये शक्त्यनुसारेण दातव्यं । “भोजनं हन्तकारं वा अग्रं भिक्षामथापि वा । अदत्त्वा नैव भोक्तव्यं यथा विभवमात्मनः” ॥ इति मार्कण्डेयपुराणं ॥ * ॥ भिक्षादिलक्षणं । “ग्रासप्रमाणा भिक्षास्यादग्रं ग्रासचतुष्टयं । अग्राच्चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः” ॥ इति मार्कण्डेयपुराणम् ॥ इत्याह्निकतत्त्वं ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिथि पुं।

अतिथिः

समानार्थक:आवेशिक,आगन्तु,अतिथि

2।7।34।1।3

स्युरावेशिक आगन्तुरतिथिर्ना गृहागते। प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम्. पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः॥

 : अभ्यागतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिथि¦ पु॰ अतति गच्छति न तिष्ठति अत--इथिन्। अध्व-योगेन आगन्तुके गृहागते,
“एकरात्रं हि निवसन् ह्यति-थिर्ब्राह्मणः स्मृतः। अनित्यास्य स्थितिर्यस्मात्तस्मादतिथि-रुच्यते”। नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथेतिविष्णु स॰। तस्य च वैश्वदेवबलेः प्रागेव पूज्यता परत्रआहारदानमात्रं यथोक्तं मनुना
“वैश्वदेवे तु निर्वृत्ते[Page0100-b+ 38] यद्यन्योऽतिथिराव्रजेत् तस्मा अन्नं यथाशक्ति प्रदद्यादिति” किन्तु तस्याप्यतिथित्वमेव यथोक्तं
“प्रियो वा यदि द्वेष्योमूर्खः पण्डित एव वा। संप्राप्तो वैश्वदेवान्ते विप्रः सो-ऽतिथिरिष्यते” इति स्मृत्या। अतिथिप्रतीक्षणञ्च मुहूर्त्ता-ष्टमभागपर्य्यन्तम्।
“आचम्य च ततः कुर्य्यात् प्राज्ञोद्वारावलोकनम् मूहूर्त्तस्याष्टमं भागमुद्वीक्ष्योह्यतिथिर्भवेत्” इति मार्क॰। विषये च तस्य इन्द्रियेषु संसर्गमात्रकाले एवचेतसि स्थितिर्नोत्तरकालमिति गतिरनुमीयते।
“प्रथमंपथि लोचनातिथिमिति” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिथि¦ mfn. (-थिः-था) A guest, a person entitled to the rites of hospitality. m. (-थिः)
1. A proper name, the son of KUSA
4. and grandson of RA4MA
4.
2. Wrath. E. अत to go, and इथिन् Unadi aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिथिः [atithiḥ], [अतति गच्छति न तिष्ठति; अत्-इथिन् Uṇ.4.2; lit. a 'traveller'; according to Manu एकरात्रं तु निवसन् अतिथिर्ब्राह्मणः स्मृतः । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ 3.12 cf. also यस्य न ज्ञायते नाम न च गोत्रं न च स्थितिः । अकस्माद् गृहमायातः सो$तिथिः प्रोच्यते वुधैः ॥]

A guest (fig. also); अतिथिनेव निवेदितम् �+Ś.4; कुसुमलताप्रियातिथे Ś.6 dear or welcome guest; पुरन्दरपुरातिथिषु पितृषु Dk.2 the guests of Indra's capital i. e. dead; so समरे यमनगरातिथिरकारि 12; धन्यानां श्रवणपथातिथित्वमेति (उक्तम्) Ratn.2.7. becomes a guest of, i. e. goes to or falls on the ears of the fortunate only; करोति ते मुखं तन्वि चपेटापातनातिथिम् K.P.

Wrath.

N. of a son of Kuśa and Kumudvatī and grandson of Rāma. -Comp. -क्रिया -पूजा, -सत्कारः -सत्क्रिया, -सेवा hospitable reception of guests, rite of hospitality, hospitality, attention to the guests -देव a. [अतिथिर्देव इव पूज्यो यस्य] treating the guest as God. -धर्मः title or claim to hospitality; hospitality due to guests; गृह्यतां ˚र्मः Pt.1; यदि त्वतिथि- धर्मेण क्षत्रियो गृहमाव्रजेत् Ms.3.111 should come as guests-धर्मिन् a. entitled to hospitality as a guest वैश्यशूद्रावपि प्राप्तौ कुटुम्बे$तिथिधर्मिणौ । भोजयेत्सह भृत्यैस्तानानृशंस्यं प्रयोजयन् ॥ Ms.3.112. -पतिः the host or entertainer.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिथि m. ( अत्, or said to be from अ-तिथि, " one who has no fixed day for coming ") , a guest , a person entitled to hospitality

अतिथि m. N. of अग्नि

अतिथि m. of an attendant on सोम

अतिथि m. N. of सुहोत्र(king of अयोध्या, and grandson of राम).

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of कुश, रमा's son and father of निषध: a good looking monarch. भा. IX. १२. 1; Br. III. ६३. २०१; M. १२. ५२; वा. ८८. २०१; Vi. IV. 4. १०५.
(III)--honouring the guest is a kind of याग। फलकम्:F1:  Br. III. १५. 8-२०; २१. ४६.फलकम्:/F An imperative duty of a householder; फलकम्:F2:  Vi. III. 9. १५; ११. ५८-70; ७८, १०६-110; १५. २५.फलकम्:/F to be entertained in श्राद्धस्। फलकम्:F3:  वा. ७९. 7-१९.फलकम्:/F [page१-039+ २४]

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ATITHI ( : guest). In ancient Bhārata Atithi-satkāra (hospitality to a guest) was considered as a yajña. In Manusmṛti, Chapter 100, Verse 3, it is said that even if one lives on the scattered grains in the fields after har- vest, and even if penance is offered in the midst of Pañcāgni (five fires) unless the Brahmin who comes as a guest is fed, all virtuous deeds would be useless. Besides, Manu has made the following remarks about the Atithi (guest).

“A new visitor at night must be treated as an Atithi. An Atithi is one who comes occasionally, not daily. But one who lives in your village and goes about as a vagabond for a living, does not deserve to be treated as an Atithi. The guest who comes either before or after mealtime should not be sent away without being fed. Even a Vaiśya or Śūdra who comes as a guest to a Brahmin's house has to be given food when the servants are given food.”


_______________________________
*4th word in left half of page 74 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Atithi (‘guest’).--A hymn of the Atharvaveda[१] celebrates in detail the merits of hospitality. The guest should be fed before the host eats, water should be offered to him, and so forth. The Taittirīya Upaniṣad[२] also lays stress on hospitality, using the expression ‘one whose deity is his guest’ (atithi-deva). In the Aitareya Āraṇyaka[३] it is said that only the good are deemed worthy of receiving hospitality. The guest-offering forms a regular part of the ritual,[४] and cows were regularly slain in honour of guests.[५]

  1. ix. 6.
  2. i. 11, 2.
  3. i. 1, 1.
  4. Śatapatha Brāhmaṇa, vii. 3, 2, 1.
  5. Cf. Bloomfield, American Journal of Philology, 17, 426;
    Hillebrandt, Rituallitteratur, 79.
"https://sa.wiktionary.org/w/index.php?title=अतिथि&oldid=484827" इत्यस्माद् प्रतिप्राप्तम्