अन्यत्र

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

द्वितीय स्थानम् मलयाळम्- മറ്റൊരിടത്ത്

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यत्र, व्य, (अन्यस्मिन् + अन्य + त्रल् ।) वर्ज्जनं । विना । यथा, -- “अन्यत्र निधनात् पत्युः पत्नी केशान्न वापयेद्” । इति प्राचीनाः । पत्युर्निधनादन्यत्र पतिमरणं विनेत्यर्थः । स्थानान्तरं । यथा । “अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः” । इति काव्यप्रकाशः । (कार्य्यान्तरे । क्रियान्तरे । “मधुपर्के च यज्ञे च पितृदैवतकर्म्मणि । अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः” ॥ इति मनुः । विषयान्तरे । शास्त्रान्तरे । “योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमं । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः” ॥ इति मनुः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यत्र¦ अव्य॰ अन्यस्मिन् + अन्य + त्रल्। अन्यस्मिन्नित्यर्थे।
“अन्यत्र निद्रद्रव्येभ्य आश्रितत्वमिहेष्यते इति” भाषा॰न चानुमानगम्यं शास्त्रप्रामाण्यं येनान्यत्र दृष्टं निदर्शन-मपेक्षते इति” अन्यत्र प्रजापतिव्रतादिभ्यः इति च शारी॰भा॰। प्रकरणबलाच्च कालो देशो वा विशेष्यः तत्रकालः।
“अन्यत्र निधनात् पत्युः पत्नी केशान्न वापयेदि-त्यादौ” निधनकालभिन्ने काले इत्यर्थः। उक्तोदाहरणे तु देशइति।
“इतराभ्योऽपि दृश्यन्ते इति” पा॰ उक्तेः तत्रभवा-नित्यादिवत् प्रथमार्थे त्रल्। प्रथमार्थे
“देवा अन्यत्राश्विभ्यांसत्वं निषेदुरिति” कौ॰ ब्रा॰। अन्यत्र अन्ये इत्यर्थः
“अन्यत्र धर्म्मादन्यत्राधर्म्मादन्यत्र कृताकृतात् अन्यत्रभूताद्भव्याच्चेति” कठ॰ उप॰। धर्म्मादन्यैत्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यत्र¦ ind.
1. Elsewhere, in another place.
2. Except, unless, without. E. अन्य, and त्रल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यत्र [anyatra], adv. [अन्य-त्रल्] (oft. = अन्यस्मिन् with a subst. or adj. force)

Elsewhere, in another place (with abl.); अपत्याधिकारादन्यत्र लौकिकमपत्यमात्रं गोत्रम् P.IV.2.39 Com.; sometimes with विना; विना मलयमन्यत्र चन्दनं न प्ररोहति Pt.1.41; (with verbs of motion) to another place.

On another occasion, at another time than; oft. (in comp.); मधुपर्के च यज्ञे च पितुर्दैवतकर्मणि । अत्रैव पशवो हिंस्यान्नान्यत्रेत्यब्रवीन्मनुः Ms.5.41.

Except, without, other than; यथा फलानां जातानां नान्यत्र पतनाद्भयम् । एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ Rām.2.15.17; Mv.6.8; R. 14.32; Bg.3.9; Y.1.215; अन्यत्र नैमिषेयसत्रात् V.5, Ms.4.164; oft. with the force of the nom. case; देवा अन्यत्रैवाश्विभ्यां सत्त्रं निषेदुः Kaus. Br. (अन्यत्र = अन्ये).

Otherwise, in another way, in the other case, in the other sense; सुराज्ञि देशे राजन्वान् स्यात्ततो$न्यत्र राजवान् Ak.; राजन्वती भूः, राजवान् अन्यत्र; चर्मण्वती नदी चर्मवती अन्यत्र P.VIII. 2.12,14 Sk. -Comp. -मनस्, -चित्त a. whose mind is directed to somthing else, inattentive. Śat. Br.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यत्र/ अन्य-त्र ind. (= अन्यस्मिन्loc. of 2. अन्य) , elsewhere , in another place (with abl. )

अन्यत्र/ अन्य-त्र ind. on another occasion

अन्यत्र/ अन्य-त्र ind. ( ifc. )at another time than

अन्यत्र/ अन्य-त्र ind. otherwise , in another manner

अन्यत्र/ अन्य-त्र ind. to another place

अन्यत्र/ अन्य-त्र ind. except , without Ma1nGr2. Jain. ([ cf. Goth. aljathro7]).

"https://sa.wiktionary.org/w/index.php?title=अन्यत्र&oldid=486736" इत्यस्माद् प्रतिप्राप्तम्