अष्टका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टका, स्त्री, (अश्नन्ति पितरोऽस्याम् । अश् + तकन् ।) श्राद्धविशेषः । तिथिभेदः । तद्यथा । गौणचान्द्रपौषमाघफाल्गुनमासीयकृष्णाष्टमी । आश्विनकृष्णाष्टमी च । एतासु श्राद्धमावश्यकं । यथा । आग्रहायण्या ऊद्ध्वं तिसृषु कृष्णाष्ट- मोषु श्राद्धानि नित्यानि । यथा गोभिलः । “अष्टका योर्द्ध्वमाग्रहायण्यास्तमिस्राष्टमी” । इति । ब्रह्मपुराणे । “पित्र्यदानाय मूले स्युरष्टकास्तिस्र एव च । कृष्णपक्षे वरिष्ठा हि पूर्ब्बा चैन्द्रो विभाव्यते ॥ प्राजापत्या द्वितीया स्यात् तृतीया वैश्वदेवकी । आद्या पूपैः सदा कार्य्या मांसैरन्या भवेत्तथा ॥ शाकैः कार्य्या तृतीया स्यादेष द्रव्यगतो विधिः” । मूले प्रधानस्थाने अमावास्यायां अमावास्या हि श्राद्धस्य प्रधानकालस्तद्वदिति यावत् । ऐन्द्री साग्नेरिन्द्रदेवताकयागसम्बन्धात् । एवं प्राजापत्था वैश्वदेवकी च । मांसैः पशोः । तथा च गोभिलः । “यद्युवाल्पतरसम्भारः स्यात्तदापि पशुनैव कु- र्य्यात्” इति । यद्युवेति निपातसमुदायो यद्यर्थे पशुरपि छाग एव । छागोऽनादेशे पशुः । इति गौतमात् । न च तैष्या ऊर्द्ध्वमष्टम्यां गौः । इति गोभिलसूत्रेण गवोपदेशात् कथमनुपदिष्टत्व- मिति वाच्यं । तदसम्भवे पशुरित्यनेन यः पशु- रुपदिष्टस्तस्य विशेषतोऽनुपदिष्टत्वात् । तैषी पौषी । वस्तुतस्तु हरिवंशे मृगोऽपि विहितः । यथा, -- “इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथादिशत् । मांसमानय श्राद्धाय मृगं हत्वा महाबलः” ॥ इति । स्त्रिया बधाभावमाह सएव । “अबध्याञ्च स्त्रियं प्राहुस्तिर्य्यग्योनिगतामपि” । एतदर्द्धं ब्रह्मपुराणेऽपि । आरण्यानामगस्त्य- प्रोक्षितत्वं वक्ष्यते । पश्वभावे स्थालोपाकेन । यथा गोभिलः । “अपि वा स्थालीपाकं कुर्ब्बीत” । इति । तद्विधानन्तु । “स्थालीपाकं पशुस्थाने कुर्य्याद्यद्यानुकल्पिकं । श्रपयेत्तं सवत्सायास्तरुण्या गोः पयस्यनु” ॥ इति छन्दोगपरिशिष्टोक्तं ग्राह्यं । अन्विति ओ- दनचरोः पश्चात् । अतएव सातातपः । “नवोदके नवान्ने च गृहप्रच्छादने तथा । पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च ॥ तस्माद्दद्यात् सदा युक्तो विद्वत्सुं ब्राह्मणेषु च” । तस्मादन्नं प्रधानं । पूपादिकन्तूपकरणत्वेन शक्ताना- मावश्यक उभयत्र सदेति श्रवणात् । तथा च । “नित्यं सदा यावदायुर्न कदाचिदतिक्रमेत् । उपेत्यातिक्रमे दोषश्रुतेरत्यागदर्शनात् ॥ फलाश्रुतेर्व्वीप्सया च तम्नित्यमिति कीर्त्तितं” । इति तिथ्यादितत्त्वम् ॥ गोणचान्द्रपौषस्य कृष्णाष्टमी पूपाष्टका । गौण- चान्द्रमाघस्य कृष्णाष्टभी मांसाष्टका । गौण- चान्द्रफाल्गुनस्य कृष्णाष्टमी शाकाष्टका । केषाञ्चि- न्मते गौणचान्द्राश्विनस्य कृष्णाष्टमी अष्टकापद- वाच्या । तासु क्रमात् पूपमांसशाकैः षाट्पौरु- षिकं श्राद्धं कर्त्तव्यं । इति ब्रह्मवायुविष्णुधर्म्मोत्तर- पुराणानि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टका¦ स्त्री अश्नन्ति पितरोऽस्यां तिथौ अश--तकन्।
“अष्टका पितृदैवत्ये” इत्यजादिपाठात् न इत्त्वम्।
“अष्टका तु समाख्याता सप्तम्यादिदिनत्रयम्” इत्युक्त-लक्षणे

१ सप्तम्यादिदिनत्रये,

२ दिनत्रयसाध्ये कर्मधेदे च तच्चा-श्वलायन गृ॰ दर्शितम् तदपि पौषमाघफाल्गुनानां कृष्णसप्तम्यादिषु कर्त्तव्यं तत्र प्रधानमष्टमी, सप्तम्यामारम्भः अष्टम्यांकृत्यं नवम्यामन्यष्टकेति भेदः।
“अमावास्या चतुर्द्दश्योःपौर्णमास्यष्टकासु च”
“अष्टकासु त्वहोरात्रमृत्वन्तासु चरात्रिषु” इति च मनुः तच्च न पितृमात्रदैवत्यम् अन्यदैवत्य-मपि यथाह
“पित्र्यदानाय मूले स्युरष्टकास्तिस्र एव च। कृष्णपक्षे वरिष्ठाहि पूर्व्वा चैन्द्री हि भाष्यते। प्राजापत्थाद्वितीया स्यात् तृतीया वैश्वदेविकी। आद्या पूपैःसदा कार्य्या मांसैरन्या भवेत्तथा। शाकैः कार्य्यातृतीया स्यादेष द्रव्यगतो विधिः वायु॰ पुरा॰। मूलेप्रधानस्थाने अमावस्या हि श्राद्धस्य प्रधानं कालः तद्वदिति[Page0517-a+ 38] यावत् रघु॰। पश्वभावे स्थालीपाकेन कार्य्यं
“अपि वास्थालीपाकं कुर्व्वीतेति” गोभिलः। एतद्विधानन्तु
“स्थालीपाकं पशुस्थाने कुर्य्यात् यद्यानुकल्पिकम्। श्रपयेत्तं सवत्सायास्तरुण्या गोः पयस्यनु” छन्दोग-परिशि॰। अन्विति ओदनचरोः पश्चात्। अत-एव।
“पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च। तस्मा-द्दद्यात् सदोद्युक्तो विद्वत्सु ब्राह्मणेषु च” शाता॰। तस्मादन्नं प्रधानं पूपादिकन्तूपकरणत्वेन शक्तानामावश्यकं,सदेति श्रवणात्।
“अमावस्याष्टका वृद्धिः कृष्णपक्षेऽ-यनद्वयम्”।
“पौषमासस्य रोहिण्यामष्टकायामथापिबा” या॰ स्मृ॰। अत्रायं भेदः हेमन्तशिशिरयोश्चतुर्ण्णामपर-पक्षाणामष्टमीष्वष्टका एकस्यां वा” आश्व॰ सू॰ उक्तेःसमर्थासमर्थभेदेन चतुर्षु मासेषु कृष्णाष्टमीषु एकस्यां वाअष्टका कार्य्येति। आग्रहायण्या ऊर्द्ध्वं तिसृष्वष्टकासु” स्मृत-न्तरात्तथात्वम्। अन्वष्टकाशब्दे विवृतमेतत्। अष्टपरिमा-णमस्याः कन्। अजादिपाठा॰ टाप् पितृदैवत्ये इतिअस्य प्रायिकत्वात् क्षिपका॰ नेत्त्वम्।

४ अष्टमीतिथिमात्रे
“अमावास्या गुरुंहन्ति शिष्यं हन्ति चतुर्द्दशी। ब्रह्माष्टकापौर्णमास्यौ तस्मात्ताः परिवर्ज्जयेत्” मनुः एतद्भिन्नायास्त्रियामष्टिका अत इत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टका¦ f. (-का)
1. Worship of the manes or progenitors performed on certain days.
2. The eighth day of three months on which the progenitors are worshipped. E. (अश) to ear, and तकन् affix; vegetables, flesh, and cake, being severally offered upon these occasions, and the Brahmins feasted; in this sense it is also अष्टिका।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टका f. the eighth day after full moon (especially that in the months हेमन्तand शिशिर, on which the progenitors or manes are worshipped A1s3vGr2. Mn. etc. ; अष्टकाis therefore also a N. of the worship itself or the oblations offered on those days Kaus3. etc. ) AV. xv , 16 , 2 S3Br. etc.

अष्टका f. a N. of the अच्छोदाriver MatsyaP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the name of अच्छोदा in पितृलोक after she went from the earth. In her honour a river is named. M. १४. १९-20; १४१. १७.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṣṭakā. See Māsa.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टका स्त्री.
प्रत्येक पूर्ण चन्द्र (पूर्णिमा) के पश्चात् आठ दिन, हेमन्त एवं शिशिर ऋतुओं अर्थात् मार्गशीर्ष, पौष अथवा तैष, माघ एवं फाल्गुन [के चार महीनों (अथवा पूर्णिमा के बाद किसी महीने) के कृष्ण पक्ष की 8 वीं तिथि का गृह्य कृत्य]। अष्टका के नाम से अभिज्ञात यह कृत्य मृत पूर्वजों (पितरों) के लिए अनुष्ठित किया जाता है। सामान्यतया इसकी संख्या तीन है, शां.गृ.सू. 3.12; पा.गृ.सू. 3.3; इसका अनुष्ठान मार्गशीर्ष जिसे आग्रहायणी भी कहा जाता है, पौष (तैष) एवं माघ मास के कृष्णपक्ष की आठवीं तिथि को सम्पन्न किया जाता है। (एक के विकल्प के साथ 4 महीने भी), आश्व.गृ.सू. 2.4.1-2. अष्टका को तीन दिन में भी समेटा जा सकता है; माघ मास के कृष्णपक्ष की सातवीं, आठवीं एवं नवमी तिथि (संक्षिप्तीकृत 3 दिन) अथवा केवल एक दिन अर्थात् मघा की अष्टमी (अर्थात् अष्टका को एक दिन में भी संक्षिप्तीकृत किया जा सकता है), बौ.गृ.सू. 2.11.1-4. अन्तिम उल्लिखित तिथि (दिन) पर किया जाने वाला कृत्य एक मात्र एकाष्टका है, ऐसा हि.गृ.सू. 2.14.2 एवं कुछ विविधताओं के साथ भा.गृ.सू. 2.15 की मान्यता है। देवताओं के विषय में सूत्रकारों के मत भिन्न- भिन्न हैं ः विश्वेदेवाः, अगिन्, सूर्य, पितर्, पशु, इत्यादि। आश्व.गृ.सू. 2.4.12, यद्यपि यह कृत्य पृथक्तया एवं पूर्णतया पितरों के लिए अभिप्रेत है (तु. टीकाकार लोग)। सदृशतया (साधारणतया) आहुति में भेद है ः 3 अ. के लिए प्रथम में पक्व शाक, द्वितीय में मांस (वपा) एवं अन्तिम में अपूप (पुआ)। कृत्यों के ठीक उसी क्रम में वे (कृत्य) अपूप, मांस एवं शाक से सम्पन्न होते हैं, पा.गृ.सू. 3.3.3. नाना प्रकार के अनाज, पुरोडाश, चावल एवं पशुओं की आहुति दी जा सकती है, कौशि.सू. 138.2. इस कृत्य में पशुओं की विभिन्नता की सूची लम्बी है-मृग, वृषभ, खड्ग (गैंडा) वराह (सूकर), अश्वा, कपोत (कबूतर)-यदि कोई गाय, अजा अथवा भेड़ा (मेष) उपलब्ध न हों; कुछ झुरमुट (झाड़ियों) एवं गाय के लिए जो घास है, उसकी भी आहुति दी जा सकती है, बौ.श्रौ.सू. 2.11.51-61. अष्टका का एक दिन उपक्रमात्मक है (कृष्ण पक्ष की सप्तमी तिथि) ः सायंकाल एक होम का अनुष्ठान किया जाता है एवं ब्राह्मणों को भोजन कराया जाता है। इस दिन चार कपाल भर चावल का पुरोडाश उबाला अथवा तैयार किया जाता है। आज्यभाग का अगिन् पर क्षरण किया जाता अश्वसंक्रन्दन अष्टका 122 है, उसके बाद पुरोडाश के एक भाग की अगिन् में आहुति दे दी जाती है। पुरोडाश के शेष भाग को आठ भागों में विभक्त कर ब्राह्मणों को दे दिया जाता है। अष्टका दिन पर एक गाय को समर्पण ‘उपाकरण’ के अनन्तर मार दिया जाता है; पाँच आज्याहुतियाँ दी जाती हैं; उपस्तरण के अनन्तर वपा को पकाया जाता है। उबाले गये चावल एवं गाय के मांस (मांसौदन) के साथ-साथ पलाश-पत्र में ‘अभिघारण’ को सम्पन्न किया जाता है; पिष्टान्न एवं घृत की आहुति भी दी जाती है। स्विष्टकृत् एवं पिण्डार्पण मासिकश्राद्धवत् (अर्थात् जिस प्रकार मासिक श्राद्ध में) किये जाते हैं। वैकल्पिक रूप से अपूप-होम की विधि से दधि-होम भी किया जा सकता है, आप.गृ.सू. 21.1०- 13। इसके बाद अन्वष्टका का क्रम आता है। अपूप अष्टका आग्रयण के अष्टम दिन होता है, गौ.गृ.सू. 3.1०.9, जिसमें अपूप का होम होता है, अष्टका उत्कृष्ट (एकाष्टका) माघ की पूर्णिमा के पश्चात् आठवाँ दिन है, निस्सन्देह नव वर्ष से पूर्व आठवां दिन, आप.श्रौ.सू. 6.3०.7; तीन व्यष्टकायें महीने के कृष्ण पक्ष के तीन दिन हैं, ला.श्रौ.सू. 9.3.8; अ.वे. 15.16.2 भी देखें।

"https://sa.wiktionary.org/w/index.php?title=अष्टका&oldid=489679" इत्यस्माद् प्रतिप्राप्तम्