आभरणम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • आभरणं, प्रसाधनं, विभूषणं, मण्डनं, ललामं, भूषणं, शिल्पं, अलंकरणं, अभ्यञ्जनं, आबद्धं, आनूकं, उपस्करणं, कण्डं, चित्रं, नेपथ्यं, विभूषितं, व्यञ्जनं, शोभनम्।

नामम्[सम्पाद्यताम्]

  • आभरणं नाम अलंकारम्। अलंकारो नाम शोभाकारकः कश्चित् पदार्थः।

भूषणम् अलंकारम्


अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभरणम्, क्ली, (आभ्रियतेऽनेन । भृञ भरणे । ल्युट् ।) भूषणं । अलङ्कारः । इत्यमरः ॥ (तच्चतुर्व्विधं, आ- बेध्यं बन्धनीयं, क्षेप्यं, आरोप्यं चेति । तत्र आबेध्यं कुण्डलादि, बन्धनीयं कुसुमादिकं, क्षेप्यं नूपुरादिकं, आरोप्यं हारादि । यदुक्तं, -- “स्याद्भूषणं त्वाभरणं चतुर्धा परिकीर्त्तितं । आबेध्यं बन्धनीयञ्च क्षेप्यमारोप्यमेव तत्” ॥ (यथा मनुः, ७ । २२२ । “वाहनानि च सर्व्वाणि शास्त्राण्याभरणानि च” । यथा कुमारसम्भवे । ५ । ४४ ॥ “किमित्यपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलं” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभरणम् [ābharaṇam], See under आभृ.

आभरणम् [ābharaṇam], 1 An ornament, decoration (fig. also); किमित्यपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलम् Ku.5.44; प्रशमाभरणं पराक्रमः Ki.2.32. (आभरण occurs in the names of works; e. g. सरस्वतीकण्ठाभरण).

The act of nourishing.

"https://sa.wiktionary.org/w/index.php?title=आभरणम्&oldid=490993" इत्यस्माद् प्रतिप्राप्तम्