एरण्ड
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एरण्डः पुं, (एरयति वायुम् । आ + ईर गतौ कम्पने च + बाहुलकात् अण्डच् ।) वृक्षविशेषः । भेरेण्डा इति भाषा । तत्पर्य्यायः । व्याघ्रपुच्छः २ गन्धर्व्व- हस्तकः ३ उरुवूकः ४ रुवूकः ५ चित्रकः ६ चञ्चुः ७ पञ्चाङ्गुलः ८ मण्डः ९ वर्द्धमानः १० व्यडम्बकः ११ । इत्यमरः ॥ उरुवुकः १२ रुवुकः १३ रूवुकः १४ रुवकः १५ वुकः १६ अमण्डः १७ आमण्डः १८ व्यडम्बनः १९ । इति तट्टीकायां भरतः ॥ कान्तः २० तरुणः २१ शुक्लः २२ वातारिः २३ दीर्घपत्रकः २४ । इति राजनिर्घण्टः ॥ अस्य तैलस्य गुणाः । मधुरत्वम् । गुरुत्वम् । अतिश्लेष्म- वर्द्धनत्वम् । वातरक्तगुल्महृद्रोगजीर्णज्वरनाशि- त्वञ्च । इति राजवल्लभः ॥ अपि च । कृमिदोष- सकलाङ्गशूलकुष्ठनाशित्वम् । स्वादुत्वम् । रसाय- नोत्तमत्वम् । पित्तप्रकोपनत्वम् । अतिदीपनत्वम् । आमवातनाशित्वञ्च । इति राजनिर्घण्टः ॥ अस्य भेदकत्वगुणोऽप्यस्ति ॥ श्वेतैरण्डगुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कफार्त्तिज्वरवायुकासना- शित्वम् । रसार्हत्वञ्च । इति राजनिर्घण्टः ॥ अस्य मूलगुणाः । शूलवायुकफनाशित्वम् । शुक्रकारित्वञ्च । इति राजवल्लभः ॥ (शुक्लरक्तैरण्डयोः पर्य्यायगुणा यथा, -- “शुक्ल एरण्ड आमण्डुश्चित्रो गन्धर्व्वहस्तकः । पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डोऽप्यदण्डकः । वातारिस्तरुणश्चापि रुवूकश्च निगद्यते ॥ रक्तोऽपरो रुवुकः स्यादुरुवूको रुवूस्तथा । व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपत्रकः ॥ एरण्डयुग्मं मधुरमुष्णं गुरु विनाशयेत् । शूलशोथकटीवस्तिशिरःपीडोदरज्वरान् ॥ व्रध्नश्वासकफानाहकासकुष्ठाममारुतान् । एरण्डपत्रं वातघ्नं कफक्रिमिविनाशनम् ॥ मूत्रकृच्छ्रहरञ्चापि पित्तरक्तप्रकोपनम् । वातार्य्यग्रदलं गुल्मं वस्तिशूलहरं परम् ॥ कफवातक्रिमीन् हन्ति वृद्धिं सप्तविधामपि । एरण्डफलमत्युष्णं गुल्मशूलानिलापहम् ॥ यकृत्प्लीहोदरार्शोघ्नं कटुकं दीपनं परम् । तद्वन्मज्जा च विड्भेदी वातश्लेष्मोदरापहः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “सतिक्तोषणमेरण्डतैलं स्वादु सरं गुरु । व्रध्नगुल्मानिलकफानुदरं विषमज्वरम् ॥ रुक्शोफौ च कटीगुह्यकुष्ठपृष्ठाश्रयाञ्जयेत् । तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवन्त्विति” ॥ इति शार्ङ्गधरस्य पूर्ब्बखण्डे चतुर्थेऽध्याये ॥ “एरण्डतैलं मधुरमुष्णं तीक्ष्णं दीपनं कटुकषा- यानुरसं सूक्ष्मं स्रोतोविशोधनं त्वच्यं वृष्यं मधुर- विपाकं वयःस्थापनं योनिशुक्रविशोधनमारो- ग्यमेधाकान्तिस्मृतिबलकरं वातकफहरमधोमाग- दोषहरञ्च” ॥ इति सुश्रुते सूत्रस्थाने पञ्चचत्वारिंशत्तमेऽध्याये ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एरण्ड पुं।
एरण्डः
समानार्थक:व्याघ्रपुच्छ,गन्धर्वहस्तक,एरण्ड,उरुबूक,रुचक,चित्रक,चञ्चु,पञ्चाङ्गुल,मण्ड,वर्धमान,व्यडम्बक
2।4।51।1।1
एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः। चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एरण्ड¦ पु॰ ईरयति वायुम् मलं वाऽधः ईर--अण्डच् नि॰ गुणश्च।
१ वृक्षभेदे (एरडी)। (भेरण्डा)।
“एरण्डयुग्भं भधुरमुष्णं गुरु विनाशयेत्। शूलशोथकटीवस्तिशिरःपीडो-दरज्वरान्। व्रध्नश्वासकफानाहकासकुष्ठाममारुतानिति” एरण्डयुग्मम् शुक्लरक्तैरण्डौ
“एरण्डपत्रं वातघ्नं कफकृमिविनाशनम्॥ मूत्रकृच्छ्रहरञ्चापि पित्तरक्तप्रकोप-णम्। वातार्य्यग्रदलं गुल्मवस्तिशूलहरं परम्। कफवातकृमीन् हन्ति वृद्धि सप्तविधामपि। एरण्डफल-मत्युष्ण गुल्भशूलानिलापहम्। यकृत्प्लीहोदरार्शोघ्नं क-टुकं दीपनं मतम्। तद्वन्मज्जा च विड्भेदी वातश्लेष्मो-दरापह। क्वाथेऽस्य मूलं संग्राह्यमित्याहुरपरे जनाः” [Page1540-a+ 38]
“एरण्डर्तलं तीक्ष्णोष्णं दीपनं पिच्छिलं गुरु। वृष्यंत्वच्यं वयःस्थायि मेधाकान्तिषलप्रदम्। कषायानुरसंसूक्ष्मं योनिशुक्रविशोधनम्। विस्रं स्वादुरसं पाकेसुतिक्तं कटुकं सरम् (रेचकम्) विषमज्वरहृद्रोगपृष्ठ-गुह्यादिशूलहृत्। हन्ति वातोदरानाहगुल्माष्ठीलाकटि-ग्रहान्॥ वातशोणितविड्बन्धश्लेघ्मशोथामविद्रधीन्। आमवातगजेन्द्रस्य शरीरवनचारिणः। एक एव निह-न्तायमेरण्डस्नेहकेशरी” भावप्र॰। स्वार्थे कन्। तत्रैव। एरण्डस्य फलम् अण्। ऐरण्ड तत्फले।
“ऐरण्डंकोमलं ग्राह्यं फलं तक्रेण स्वेदितम्। पाचितंकटुतैलेन हिङ्गुनातिसुवासितम्। कफानिलहरं वृष्यंरूक्षमुष्णञ्च पित्तलम्। अग्निसंजननं रुच्यं गुरु पाके-ऽतिपिच्छिलम्” भावप्र॰।
“फले लुक्” पा॰ अणोलुग्वि-धानात् एरण्डमित्येव साधु।
२ पिष्पल्यां स्त्री शब्दच॰। टाप् गौ॰ ङीष् वा।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एरण्ड¦ m. (-ण्डः) The castor-oil plant, (Palma christi or Ricinus com- munis. ) f. (-ण्डी) Long pepper. E. इर् to go, &c. आङ् prefixed, अण्डच् affix, fem. affix ङीष्; also with कन् added एरण्डक।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एरण्डः [ēraṇḍḥ], The castor-oil plant; (a small tree with a scanty number of leaves); and hence the proverb: निरस्तपादपे देशे एरण्डो$पि द्रुमायते. -ण्डा Long pepper.-Comp. -पत्रिका, -फला the plant Croton Polyandrum (दन्तीवृक्ष).
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एरण्ड m. the castor-oil plant , Ricinus Communis or Palma Christi Sus3r. Pan5cat. etc.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Eraṇḍa, the castor-oil plant (Ricinus communis), is first mentioned in the Śāṅkhāyana Āraṇyaka (xii. 8).
==Foot Notes==