सामग्री पर जाएँ

कर्कारु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कारुः, पुं, (कर्कं हास्यवत् शौक्ल्यं ऋच्छति प्राप्नो- तीति । कर्क + ऋ + बाहुलकात् उण् ।) कुष्माण्डः । इत्यमरः । २ । ४ । १५५ ॥ (अस्य पर्य्यायो गुणाश्च यथा, -- “कुष्माण्डी तु भृशं लघ्वी कर्कारुरपि कीर्त्तिता । कर्कारुर्ग्राहिणी शीता रक्तपित्तहरा गुरुः ॥ पक्वा तिक्ताग्निजननी सक्षारा कफवातनुत्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे १ मे भागे ॥ एर्व्वारु- योगेनास्य गुणभेदोऽपि दृश्यते । तथाच सुश्रुते सूत्रस्थाने ४६ अध्याये । “एर्व्वारुकं सकर्कारु सम्पक्वं कफवातकृत् । सक्षारं मधुरं रुच्यं दीपनं नातिपित्तलम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कारु पुं।

कूष्माण्डकः

समानार्थक:कूष्माण्डक,कर्कारु

2।4।155।2।2

सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः। कूष्माण्डकस्तु कर्कारुरुर्वारुः कर्कटी स्त्रियौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कारु¦ पु॰ कर्कं हासं श्वेततामृच्छति ऋ--उण।

१ कुष्माण्डे। (पाडकुमडा)। अमरः तस्य पक्वे फले श्वेततायुक्तत्वात्तथात्वम्। अस्य स्त्रीत्वमपि
“ककीरुर्ग्राहिणी शीत र-क्तपित्तहरा गुरुः। पक्वा तिक्ताग्निजननी मक्षारा कफ-वातनुत्” इति भावप्र॰ उक्तेः।

३ एर्वारुकर्कारुकुष्माण्ड-प्रभृतीनां तैलानि मधुराणि” सुश्रु॰ तयोर्भेदनिर्दे-शात् विशेषकुष्माण्ड एव एर्कारुरिति बोध्यम।
“एर्वारुकंसकर्कारु पक्वं स्यात् कफवातकृत्। सक्षारं मधरं रुच्यंदीपनं नातिपित्तलम्। सक्षारं मधुरञ्चैव शीर्णवृन्तं कफा-पहम्। भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघुः वपुः”। इति कर्कारोः
“पित्तघ्नं तेषु कुष्माण्डम् बालं मध्यं कफा-वहम्। पक्वं लघूष्णं क्षारं च दीपनं वस्तिशोधनम्”। इति कुष्माण्डस्य च भेदेन गुणभेदोक्तेस्तयोर्भेदः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कारु¦ m. (-रुः) A pumpkin gourd, (Cucurbita pepo.) E. कक white, ऋ to go, or to be, ऊण् affix; also कर्कारू।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कारु m. Beninkasa Cerifera (a species of gourd) Sus3r.

कर्कारु n. the fruit of this plant L.

"https://sa.wiktionary.org/w/index.php?title=कर्कारु&oldid=495103" इत्यस्माद् प्रतिप्राप्तम्