कुश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुश इ कि द्युतौ । इति कविकल्पद्रुमः ॥ (चुरां पक्षे भ्वां--परं-अकं-सेट्-इदित् ।) पञ्चमस्वरी । इ कुंश्यते । कि कुंशयति कुंशति । इति दुर्गा- दासः ॥

कुश य इर् श्लिषि । आलिङ्गन इति यावत् । इति कविकल्पद्रुमः ॥ (दिवां-परं-सकं-सेट् ।) य कुश्यति बाला कान्तम् । इर् अकुशत् अकोशीत् । अस्मात् पूषादित्वान्नित्यं ङ इत्यन्ये । इति दुर्गा- दासः ॥

कुशम्, क्ली पुं, (कु पापं श्यति नाशयति । कु + शो + डः । यद्वा कौ भूमौ शेते राजते शोभते इत्यर्थः ।) स्वनामख्याततृणम् । तत्पर्य्यायः । कुथः २ दर्भः ३ पवित्रम् ४ । इत्यमरः । २ । ४ । १६६ ॥ याज्ञिकः ५ ह्रस्वगर्भः ६ वर्हिः ७ कुतुपः ८ । इति शब्दरत्नावली ॥ अपि च । “कुशो दर्भस्तथा वर्हिः सूच्यग्रो यत्र भूषणः । ततोऽन्यो दीर्घपत्रः स्यात् क्षुरपत्रस्तथैव च” ॥ तस्योत्पत्तिर्यथा, -- “वर्हिष्मती नाम पुरी सर्व्वसम्पत्समन्विता । न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥ कुशकाशास्त एवासन् शश्वद्धरितवर्च्चसः । ऋषयो यैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे” ॥ इति श्रीभागवतम् ॥ अस्य गुणाः । “दर्भद्वयं त्रिदोषघ्नं मधुरं तुवरं हिमम् । मूत्रकृच्छ्राश्मरीतृष्णावस्तिरुक्प्रदरास्रजित्” ॥ इति भावप्रकाशः ॥ * ॥ तस्य धारणविधिस्तत् प्रतिनिधिश्च यथा, -- “पूजाकाले सर्व्वदैव कुशहस्तो भवेच्छुचिः । तर्ज्जन्या रजतं धार्य्यं स्वर्णं धार्य्यमनामया ॥ कुशकार्य्यकरं यस्मान्न तु वन्याः कुशाः कुशाः । कुशेन रहिता पूजा विफला कथिता मया ॥ नान्यस्य रजतं स्वर्णं धार्य्यं हि निजमङ्गले” ॥ इति वरदातन्त्रे १ पटलः ॥ * ॥ सधवायास्तत्स्पर्शनिषेधो यथा, -- “न स्पृशेत्तिलदर्भांश्च सधवा तु कथञ्चन” ॥ इति हलायुधकृतब्राह्मणसर्व्वस्वम् ॥ अन्यत् दर्भ- शब्दे द्रष्टव्यम् ॥

कुशम्, क्ली, (कौ पृथिव्यां भूमौ शेते । भूलग्नत्वात् तथात्वम् ।) जलम् । इति मेदिनी ॥

कुशः, पुं, (कु पापं श्यति नाशयति विहितराजधर्म्मा- नुष्ठानेन । कु + शो + डः । अपरा व्युत्पत्तिर्यथा यथा, रामायणे । “यस्तयोः पूर्ब्बजो जातः स कुशेर्मन्त्रसत्कृतैः । निर्म्मार्ज्जनीयस्तु तदा कुश इत्यस्य नाम तत्” ॥) रामसुतः । (यथा, रघुः १६ । ७२ । “यत् कुम्भयोनेरधिगम्य रामः कुशाय राज्येन समं दिदेश । तदस्य जैत्राभरणं विहर्त्तु- रज्ञातपातं सलिले ममज्ज” ॥) योक्त्रम् । इति मेदिनी ॥ पुराणोक्तसप्तद्वीपेषु द्वीपभेदः । स तु घृतसमुद्रेणावृतः । तत्र देव निर्म्मितोऽग्नितुल्यः कुशस्तम्बोऽस्ति । (अतः कुश- द्वीप इति संज्ञया विख्यातः ।) तदधिपः प्रिय- व्रतराजपुत्त्रो हिरण्यरेताः तद्द्वीपं विभज्य सप्त- पुत्त्रेभ्यो दत्तवान् । तेषां नामानि यथा । वसुः १ वसुदानः २ दृढरुचिः ३ नाभिगुप्तः ४ स्तुत्यव्रतः ५ विप्रनामा ६ देवनामा ७ । एषां वर्षेषु सप्त सीमा- गिरयः । यथा । बभ्रुः १ चतुःशृङ्गः २ कपिलः ३ चित्रकूटः ४ देवानीकः ५ ऊर्द्ध्वरोमा ६ द्रविणः ७ । सप्त नद्यश्च यथा । रसकुल्या १ मित्रविन्दा २ श्रुतविन्दा ३ देवगर्भा ४ घृतच्युता ५ मधुः ६ माला ७ । तत्र स्थिताः कुशलकोविदाभिमुक्तकुलकसंज्ञाः क्रमेण ब्राह्मणक्षत्त्रियवैश्यशूद्राः भगवन्तमग्नि- रूपिणं आसां नदीनां पयोभिर्यजन्ते । इति श्रीभागवतम् ॥ (विष्णुपुराणे तु एतद्द्वीपाधिपते- स्तत्पुत्त्राणां गिरीणां नदीनाञ्च नामान्तराणि दृश्यन्ते । यथा २ । ४ । ३६ -- ४४ । “ज्योतिष्मतः कुशद्वीपे सप्त पुत्त्राः शृणुष्व तान् । उद्भिदो वेणुमांश्चैव वैरथो लम्बनो धृतिः ॥ प्रभाकरोऽथ कपिलस्तन्नामा वर्षपद्धतिः । तस्मिन् वसन्ति मनुजाः सह दैवेयदानवैः ॥ तथैव देवगन्धर्व्वयक्षकिंपुरुषादयः । वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ॥ दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने ! । ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥ यथोक्तकर्म्मकर्त्तृत्वात् स्वाधिकारक्षयाय ते । तत्रैव तं कुशद्वीपे ब्रह्मरूपं जनार्द्दनम् ॥ यजन्तः क्षपयन्त्युग्रमधिकारं फलप्रदम् । विद्रुमो हेमशैलश्च द्युतिमान् पुष्पवांस्तथा ॥ कुशेशयो हविश्चैव सप्तमो मन्दराचलः । वर्षाचलास्तु तत्रैते सप्तद्वीपे महामुने ! ॥ नद्यस्तु सप्त तासान्तु शृणु नामान्यनुक्रमात् । धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा ॥ विद्युदम्भा मही चान्या सर्व्वपापहरास्त्विमाः । अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः ॥ कुशद्वीपे कुशस्तम्बः सज्ञया तस्य तत् स्मृतः । तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः” ॥)

कुशः, त्रि, (कु कुस्तिते कर्म्मणि शेते अवतिष्ठते । कु + शी + कः ।) पापिष्ठः ॥ (कुत्सिते मदशय्यायां शेते इति ।) मत्तः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुश पुं-नपुं।

दर्भः

समानार्थक:कुश,कुथ,दर्भ,पवित्र

2।4।166।1।1

अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम्. पौरसौगन्धिकध्यामदेवजग्धकरौहिषम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

कुश नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

3।3।216।2।2

कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु। पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च॥

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुश¦ द्युतौ इदित् वा चुरा॰ पक्षे भ्वादि॰ पर॰ सक ॰ सेट्। कुंशयति ते कुंशति अचुकुंशत्--त अकुंशीत्। कुंशयां बभूव आस चकार चक्रे चुकुंश। प्रनिकुंशति

कुश¦ श्लेषे दि॰ पर॰ सक॰ सेट्। कुश्यति। अकुशत्--अको-शीत्। चुकोश। कुक्षिः कोशः

कुश¦ पु॰ न॰ कौ शेते शी--क, कुं पापं श्यति शो--ड वा।

१ स्वनामख्याते तृणे अमरः।
“कुशोन्मृष्टगर्भक्लेदवति

२ रामसुते
“रिपुनागाङ्कुशं कुशमिति” रघुः।

३ योत्त्रे, च पु॰ मेदि॰ घृतसमुद्रेणावृते

४ द्वीपभेदे पु॰।

५ जले न॰ मेदि॰। कुशेशयः।

६ सर्पोदरे शङ्कराचार्य्यः
“कौशं बर्हिः” कात्या॰

१ ।

२ ।

१२ तस्यासंस्कृतकुशा-र्थतामाह
“बर्हिःकौशं कुशा दर्भाः तस्येदं कौशंकुशमात्रमेव बर्हिःशब्देनोच्यते न संस्काराः, कुतः?अन्वयव्यतिरेकाभ्यां जातिवाचित्वाद्वर्हिःशब्दस्य, यत्रयत्र बर्हिःशब्दप्रयोगस्तत्रतत्र जातिरित्यस्या व्याप्तेर्लोके बेदे च नास्ति व्यभिचारः, संस्कारव्याप्तेस्तु लौकिकप्रयोगे व्याभिचारो दृश्यते क्कचिद्देशविशेषे लौकिकव्यव-हारे जातिमात्रमुपजीव्य विना संस्कारं बर्हिःशब्दःप्रयुज्यते बर्हिरादाय गावो गता इति तस्माज्जातिवाची बर्हिःशब्दः। असंस्कृतं कुशमात्रं बर्हिःशब्देनोच्यतइत्यर्थः। प्रयोजनं बर्हिषि प्राञ्च्युदञ्चि च प्रास्यती[Page2144-a+ 38] त्यादौ संस्कारा न कर्त्तव्याः। स्मृतौ कुशाभावे तु का-शाः स्युः काशाः कुशसमाः स्मृताः। काशाभावे ग्रहीतव्याअन्ये दर्भा यथोचिताः। दर्भाभावे स्वर्ण्णरूप्यताम्रैः कर्म्म-क्रियाः सदा। कुशकाशशरा दूर्वायवगोधूमवाल्वजाः। सुवर्णं रजतं ताम्रं दश दर्भाः प्रकीर्तिताः। स्नाने होमेतथा दाने स्वाध्याये पितृतर्पणे। सपवित्रौ सदर्भौ वा करौकुर्व्वीत नान्यथा। सर्वेषां वा भवेद्द्वाभ्यां पवित्रं ग्रथितंन वा। सपवित्रः सदर्भो वा कर्माङ्गाचमनं चरेत्। नो-च्छिष्टं तत् सदर्भं च दर्भोच्छिष्टं तु वर्जयेदिति” कर्कःकर्म्माङ्गकुशलक्षणादिकं श्रा॰ त॰ आह यथा(
“ब्रह्मपुराणे
“सपिञ्जलाश्च हरिताः पुष्टाः स्निग्धाःसमाहिताः। गोकर्णमात्राश्च कुशाः सकृच्छिन्नाः समूल-काः। पितृतीर्थेन देयाः स्युर्दूर्व्वा श्यामाक एव च। काशाः कुशा बल्वजाश्च तथान्ये तीक्ष्णरोमशाः। मौञ्जा-श्च शाद्वलाश्चैव षड्दर्भाः परिकीर्त्तिताः”। तीक्ष्णरोमशाइति वल्वजानां विशेषणं तेन तेषामलाभे
“शूकतृणशर-शीर्षयुत्तवल्वजोलपशुण्ठवर्जं सर्व्वतृणानीति” गोमिलेनतद्व्यतिरिक्तवल्वजानां निषेधोबोद्धव्यः। सपिञ्जलाः सा-ग्राः स्निग्धा अकर्कर्शाः पुष्टा न सूक्ष्माः समाहितानिर्दोषाः शाद्वला इति मौञ्जस्य विशेषणम्। शूकानि फ-लपुष्पमञ्जर्य्य स्तायेषां तृणानां सन्ति तानि शूकतृणानीतिभट्टनारायणचरणाः। गोकर्णमात्रा विस्तृताङ्गुष्ठानामि-कापरिमिताः। विष्णुः
“कुशस्थाने काशं दूर्व्वां वादद्यादिति” कृतमुष्टिहस्तपरिमिताः कुशाः प्रस्तर-णार्थाः तथाच वायुपुराणम्
“रत्निप्रमाणाः शस्ता चैपितृतीर्थेत संस्कृताः। उपमूले तथा लूनाः प्रस्तरार्थेकुशोत्तराः”। वर्ज्यकुशानाह हारीतः
“चितौ दर्भाःपथि दर्भाः ये दर्मा यज्ञभूमिषु। स्तरणासनपिण्डेषु षड्-दर्भान् परिवर्जयेत्। पिण्डार्थं ये स्तृता दर्भा यैः कृतंपिवृतर्पणम्। मूत्रोच्छिष्टप्रलेपे तु त्यागस्तेषां विधीय-ते”। छन्दोगपरिशिष्टम्
“धृतैः कृते च विण्मूत्रेत्यागस्तेषां विधीयते। नीवीमध्ये च ये दर्भा व्रह्म-सूत्रे च ये धृताः। पवित्रांस्तान् विजानीयाद्घथा कायस्तथा कुशाः। आचम्य प्रयतो नित्यं पवित्रेण द्विजो-त्तमः। नोच्छिष्टन्तु भवेत्तत्र भुक्तशेषं विवर्जयेत्’। अत्र विशेषः निर्ण्णयसिन्धौपृथ्वीचन्द्रोदये तद्ग्रहणकालमाह दक्षः
“समित्पुष्य-कुशादीनां द्वितीयः परिकीर्तितः। अष्टधा विभक्तदिनस्य[Page2144-b+ 38] द्वितीयोभाग इत्यर्थः। तत्रैव यमः
“समूलस्तु भवेद्दर्भःपितॄणां श्राद्धकर्मणि। मूलेन लोकान् जयतिशक्रस्य सुमहात्मनः” व्यासः
“तर्पणादीनि कार्याणिपितॄणां यानि कानि चित्। तानि स्युर्द्विगुणैर्दर्भैःसप्तपत्रैर्विशेषतः” शालङ्कायनः
“सपिण्डीकरणंयावदृजुदर्भैः पितृक्रिया। सपिण्डीकरणादूर्ध्वंद्विगुणैर्विधिवद्भवेत्” शङ्खः
“अनन्तर्गर्भिणं साग्रङ्कौशं द्विद-लमेव च। प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रिचित्” हारीतः
“पवित्रं ब्राह्मणस्यैव चतुर्भिर्दर्भपिञ्जलैः। एकैकं न्यूनमुद्दिष्टं वर्णेबर्णे यथाक्रमम्”। स्मृत्यर्थसारे
“सर्वेषां वा भवेद्वाभ्यां पवित्रं ग्रथितं नवम्” रत्नावल्याम्
“द्वयोस्तु पर्वणोर्मध्ये पवित्रं धारयेद्बुधः” हेमाद्रौ स्कान्दे
“अनामिकाधृता दर्भाह्येकानामिकयापि वा। द्वाभ्या-मनामिकाभ्यां तु धार्ये दर्भपवित्रके” पवित्राभावे तु तत्रैवसुमन्तुः
“समूलाग्रौ विगर्भौ तु कुशौ द्रौ दक्षिणे करे। सव्येचैव तथा त्रीन्वै बिभृयात् सर्वकर्मसु”। बौधायनः
“हस्त-योरुभयोर्द्वौद्वावासनेऽपि तथैव च” दर्भग्रहणे मन्त्रमाहशङ्खः
“विरिञ्चिना सहोत्पन्न! परमेष्ठिनिसर्गज!। नुद सर्वाणि पापानि दर्भ! स्वस्तिकरोभव”। स्मृत्यर्थसारे
“हुम्फट्कारेण मन्त्रेण सकृच्छित्त्वा समुद्धरेत्” भरद्वाजः
“प्रेतक्रियार्थं पित्रर्थमभिचारार्थमेव च। दक्षिणाभि-मुखश्छिन्द्यात् प्राचीनावीतिकोद्विजः”। कुशाभावे अप-रार्के सुमन्तुः
“कुशाः काशाःशरो गुन्द्रोयवा दूर्वाऽ-थ वल्वजाः। गोकेशमुञ्जकुन्दाश्च पूर्वाभावे परः परः”। काशादौ विशेषमाह शङ्खः
“काशहस्तस्तु नाचामेत्कदा-चिद्विधिशङ्कया। प्रायश्चित्तेन युज्येत दूर्वाहस्तस्तुथैव च” पृथ्वीचन्द्रोदये यमः
“मासि मास्युत्द्धृता दर्भा मासि मा-स्येव चोदिताः”। षड्त्रिंशन्मते
“मासेमासेत्वमावास्यांदर्मो ग्राद्ध्योनवः स्मृतः” गृह्यपरिशिष्टे
“ये च पिण्डाश्रिता दर्भा यैः कृतं पितृतर्पणम्। अमेध्याऽशुचिलिप्ता येतेषां त्यागो विधीयते” लघुहारीतः
“पथि दर्भाश्चितौदर्भाये दर्भायज्ञभूमिषु। स्तरणासनपिण्डेषु षट् कुशान्परिवर्जयेत्। ब्रह्मयज्ञे च ये दर्भा ये दर्भाः पितृतर्पणे। हतामूत्रपुरीषाभ्यान्तेषां व्यागो विधीयते” हेमाद्रौ
“अन्यानि च पवित्राणि कुशदूर्वात्मकानि च। हेमात्मक-पवित्रस्य ह्येकां नार्हन्ति वै कलाम्” भाद्रामावास्यागृहीतदर्भस्यायातयामतामाह हेमा॰श्रा॰ ख॰ हारीतः
“मासे नभस्यमावास्या तस्या[Page2145-a+ 38] दर्भोच्चयो मतः। अयातयामास्ते दर्भां विनियोज्याःपुनः पुनः” तस्योत्पत्तिरुक्ता भाग॰

३ ,

२० अ॰
“बर्हिष्मती नाम पुरीसर्व्वसम्पत्समन्विता। न्यपतन् यत्र रोमाणि यज्ञस्याङ्गंविधुन्वतः। कुशकाशास्तत्र चासन् शश्वद्धरितवर्च्चसः। ऋषयोयैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे”। पूजादौ तस्य तत्प्रतिनिधेर्वा धारणमावश्यकम् यथाहवरदातन्त्रे

१ प॰
“पूजाकाले सर्व्वदैव कुशहस्तो भवेच्छुचिः। तर्ज्जन्या रजतं धार्य्यं स्वर्ण्णं धार्य्यमनामया। कुश-कार्य्यकरं यस्मान्नतु वन्याः कुशाः कुशाः। कुशेनरहिता पूजा विफला कथिता मया” सधवायास्तद्धार-णनिषेधमाह ब्राह्मणसर्व्वस्वे स्मृतिः।
“न स्पृशेत्तिलदर्भांश्च सधवा तु कथञ्चन”। तत्पर्य्यायभेदादिकं भावप्र॰ उक्तं यथा
“कुशोदर्भस्तथाबर्हिः सूच्यग्रोयज्ञभूषणम्। ततोऽन्योदीर्घपत्रःस्यात् क्षुरपत्रस्तथैव च। दर्भद्वयं त्रिदोषघ्नं मधुरं तुवरं हिमम्। मूत्रकृच्छ्राश्मरीतृष्णावस्तिरुक्प्रदरास्रजित्”।
“एतेलूनशिखास्तस्य दशनैरचिरोद्गतैः। कुशकाशाविराजन्तेवटवः सामगाइव”। रामपुत्रकुशस्य नामनिरुक्तिसहितोत्पत्तिकथा रामा॰ उत्त॰ का॰

६६ स॰ यथा
“यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत्। तामेवरात्रिंसीतापि प्रसूता दारकद्वयम्। ततोऽर्धरात्रसमयेबालका मुनिदारकाः। वाल्मीकेः प्रियमाचख्युः सी-तायाः प्रसवं शुभम्। भनवन्! रामपत्नीसा प्रसूता दारकद्वयम्। ततोरक्षां महातेजः! कुरु भूतविनाशिनीम्। तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत्। बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ। जगाम तत्र हृष्टात्मा द-दर्श च कुमारकौ। भूतघ्नीञ्चाकरोत्ताभ्यां रक्षां रक्षो-विनाशिनीम्। कुशमुष्टिमुपादाय लवञ्चैव तु स द्विजः। वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम्। य-स्तयोः पूर्ब्बजोजातः स कुशैर्मन्त्रसत्कृतैः। निर्मार्जनीयस्तु तदा कुश इत्यस्यनाम तत्। यश्चावरो भवेत्ताभ्यांलवेन स समाहितः। निर्माजनीयोवृद्धाभिर्लवेति चस नामतः। एवं कुशलवौ नाम्ना ताबुभौ यमजातकौ। मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः। ता र-क्षाञ्जगृहुस्तां च मुनिहस्तात् समाहिता!। अकुर्वंश्च ततो-रक्षान्तयोर्विगतकल्मषाः। तथा तां क्रियमाणां चवृद्धाभिर्गोत्रनाम च। सङ्कीर्तनञ्च रामस्य मीतायाः[Page2145-b+ 38] प्रसवौ शुभौ”।
“मयाप्तं रामत्वं कुशलवसुता नत्व-विगता” सा॰ द॰। कुशद्वीपमानस्थानाद्युक्तं विष्णु॰पु॰ यथा(
“सुरोदकः परिवृतः कुशद्वीपेन सर्व्वतः। शाल्म-लस्य तु विस्ताराद्द्विगुणेन समन्ततः। ज्योतिष्मतःकुशद्वीपे सप्त पुत्राः शृणुष्व तान्। उद्भिदोरेणुमांश्चैवसुरथोलम्बनो धृतिः। प्रभाकरोऽथ कपिलस्तन्नाम्नावर्षविश्रुतिः। तस्मिन् वसन्ति मनुजाः सह दैतेयदानवैः। तथैव देवगन्धर्व्वयक्षकिम्पुरुषादिभिः। वर्णास्तत्राऽपि चत्वारो निजानुष्ठानतत्पराः। दमिनः शुष्मिणःस्नेहा मन्देहाश्च महामुने!। ब्राह्मणाः क्षत्रियाः वैश्याःशूद्राश्चानुक्रमोदिताः। यथोक्तकर्म्मकर्तृत्वात् स्वाधिकार-क्षयाय ते। तत्र यत्तत् कुशद्वीपे ब्रह्मरूपं जनार्द्दनम्। यजन्तः क्षपयन्नग्र्यमधिकारफलप्रदम्। विद्रुमो हेम-शैलश्च द्युतिमान् पुष्पवांस्तथा। कुशेशयो हरिश्चैवसप्तमो मन्दराचलः। वर्षाचलास्तु सप्तैव तत्र द्वीपेमहामुने!। नद्योऽपि सप्त तासाञ्च शृणु नामान्यनुक्र-मात्। धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा। विद्युद्धस्ता मही चैव सर्वपापहरास्त्विमाः। अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः। कुशद्वीपे कुशस्तम्बःसंज्ञया तस्य तत् स्मृतम्। तत्प्रमाणेन स द्वीपो वृतोदेनसमावृतः”। भाग॰

५ ,

२० अ॰ अन्यथैवायं वर्ण्णितः यथा(
“एवं सुरोदाद्बहिस्तद्द्विगुणः समानेनावृतो घृतोदेनयथा पूर्व्वः कुशद्वीपो यस्मिन् कुशस्तम्बो देवकृतस्तद्द्वीपा-ख्यापनो ज्वलन इवापरः सुशस्परोचिषस्ता दिशोविरा-जयति। तद्द्वीपपतिः प्रियब्रतो राजन्! हिरण्यरेता नामस्वंद्वीपं सप्तभ्यः स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं तपआतिष्ठत्! वसुवसुदानदृढरुचिनाभिगुप्तसत्यव्रतविप्रनामदेवनामभ्यः तेषां वर्षेषु सीमागिरयोनद्यश्चाभिज्ञाताःसप्तैव। बभ्रुश्चतुःशृङ्गकपिलश्चित्रकूटोदेवानीक ऊर्द्ध-रोमा द्रविण इति। रसकुल्या मधुकुल्या मित्रविन्दाश्रुतिविन्दा देवगर्भा घृतच्युता मन्द्रमालेनि यासांपयोभिः कुशद्वीपौकसः कुशलकोविदाभियुक्तकुलकसंज्ञा भगवन्तं जातवेदसरूपिणं कर्म्मकौशलेन यजन्ते”। कल्पभेदान्नामभेदः समाधेयः। कुशद्वीपोऽप्यत्र पु॰
“कुशोऽ-भूत् काञ्चनः कौशे स्वयम्भूश्चितिमर्हति”। कुत्सितेआचरणे शेते शी--ड।

७ पापिष्ठे

८ मत्ते च त्रि॰ भेदि॰। [Page2146-a+ 38]

९ नृपभेदे पु॰
“अजकस्य तु दायादो वलाकाश्वो महीपतिः। बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत्” हरि॰

२७ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुश(इर)कुशिर¦ r. 4th cl. (कुश्यति)
1. To embrace, to enfold.
2. To take out or from. (इ)कुशि r. 1st and 10th cls. (कुंशति कुंशयति) To shine: see कुस।

कुश¦ mfn. (-शः-शा-शं)
1. Wicked, deprave.
2. Mad, inebriate. mn. (-शः-शं) A species of grass used in many solemn and religious observances, hence called sacrificial grass, (Poa cynosuroides.) m. (-शः)
1. The yoke of a plough.
2. A proper name, one of the sons of RAMA.
3. One of the great Dwipas or divisions of the universe, surrounded by the sea of spirituous liquor. f. (-शा)
1. A rope.
2. A plant, com- monly Maukat'ha. n. (-शं) Water. f. (-शी)
1. A ploughshare.
2. Wrought iron. mf. (-शः-शी) A bridle, a horse's head rope. E. कु the earth. शीञ् to sleep or rest, and ड affix, or कु bad, and शी to des- troy, again कुश् to embrace or enfold, and क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशः [kuśḥ], a.

Wicked, vile, depraved.

Mad.

शः A kind of grass considered holy and forming an essential requisite of several religious ceremonies; पवित्रार्थे इमे कुशाः Śrāddha Mantra; कुशपूतं प्रवयास्तु विष्टरम् R.8.18, 1.49,95.

N. of the elder son of Rāma. [He was one of the twin sons of Rāma, born after Sītā had been ruthlessly abandoned in the forest; yet he was the elder of the two in point of first seeing the light of this world. He, with Lava was brought up by the sage Vālmīki, and the two boys were taught to repeat the Rāmāyaṇa, the epic of the poet. Kuśa was made by Rāma king of Kuśāvatī, and he lived there for some time after his father's death. But the presiding deity of the old capital Ayodhyā presented herself to him in his dream and besought him not to slight her. Kuśa then returned to Ayodhya; see R.16.3-42.]

A rope of Kuśa grass for connecting the yoke of a plough with the pole.

One of the great Dvīpas; Bhāg.5.1.32.

शा A plank for covering anything.

A piece of wood.

A horse's bridle. -शी A sort of ladle.

Wrought iron.

Ploughshare.

A pod of cotton.

A piece of Udumbara wood used for counting the number of Sāmans in a Stotra; औदुम्बरे स्त्रियाम् । छन्दोगस्तोत्रगणनाशङ्कासु ...... Nm. -शम् Water; as in कुशेशय q. v. ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम् Mb.3.13.18.-Comp. -अक्षः a monkey. -अग्रम् the sharp point of a blade of the Kuśa grass; hence often used in comp. in the sense of 'sharp', 'shrewd', 'penetrating' as intellect. ˚बुद्धि a. having a penetrating intellect, sharp, shrewd; (अपि) कुशाग्रबुद्धे कशली गुरुस्ते R.5.4.-अग्रीय a. penetrating, sharp; कुरु बुद्धिं कुशाग्रीयां ... ... Bk.5.15. -अङ्गुली, -रीयम् a ring of Kuśa grass worn at religious ceremonies. -अरणिः N. of Durvāsas.-आकरः the sacrificial fire. -आसनम् a seat or mat of Kuśa grass; अक्षमालापवृत्तिज्ञा कुशासनपरिग्रहा । शांभवीव तनुः कस्य न वन्द्या दौर्जनी सभा ॥ Udb. -उदकम् water in which Kuśa grass has been infused; Ms.11.212. -कण्डिकाf. a type of संस्कार of the Vedic sacrificial fire. -चीरम् a garment of Kuśa grass; (प्रगृह्य) कैकेय्याः कुशचिरे ते जानकी शुभलक्षणा Rām.2.37.1. -ध्वजः the younger brother of Janaka; तौ कुशध्वजसुते सुमध्यमे R.11.54. -मुष्टिःf. a handful of Kuśa grass कुशमुष्टिमुपादाय लवं चैव तु स द्विजः Rām.7.66.6. -स्थलम् N. of a place in the North of India; perhaps Kanoj; Ve.1. (-ली) N. of the town Dvārakā. रथं समारोप्य ययुः कुशस्थलीम् Bhāg.1. 61.41.

N. of the town उज्जयिनी.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुश m. grass S3Br. S3a1n3khS3r. Ka1tyS3r. A1s3vGr2.

कुश m. (the ब्राह्मणs commonly call it दर्भ)

कुश m. the sacred grass used at certain religious ceremonies (Poa cynosuroides , a grass with long pointed stalks) Mn. Ya1jn5. MBh. etc.

कुश m. a rope (made of कुशgrass) used for connecting the yoke of a plough with the pole L.

कुश m. N. of a son of वसुउपरिचरHariv. 1806

कुश m. of the founder of कुशथलीSkandaP.

कुश m. of a son of बलाका-श्व(grandson of बलाक, father of कुशाम्बor कुश-नाभ) R. BhP. ix , 19 , 4

कुश m. of a son of सुहोत्र(See. काश) BhP.

कुश m. of a son of विदर्भib.

कुश m. of a son of राम(See. कुशीलव) Hariv. 822 BhP. Ragh. xvi , 72

कुश m. of and son of लव(king of कश्मीर) Ra1jat. i , 88

कुश m. one of the great द्वीपs or divisions of the universe (surrounded by the sea of liquefied butter) BhP. v , 1 , 32 VP.

कुश n. water

कुश mfn. wicked , depraved L.

कुश n. mad , inebriate L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of राम, born in वाल्मिकी's आश्रम and brought up by the sage. Father of Atithi. फलकम्:F1:  भा. IX. ११. ११; १२. 1; M. १२-51; Vi. 4. १०४-5.फलकम्:/F Ruled over Kosala kingdom from its capital कुशस्थली. फलकम्:F2:  Br. III. ६३. १९८; Vi. ८८. १९८-9.फलकम्:/F
(II)--a son of Ajaka; father of four sons, कुशाम्बु and others. भा. IX. १५. 4.
(III)--a son of Suhotra and father of Prati. भा. IX. १७. 3, १६.
(IV)--a son of Vidarbha. भा. २४. 1.
(V)--the son of बलाकाश्व. Father of कौशाम्ब and three other sons. Br. III. ६६. ३१-2; Vi. IV. 7. 8.
(VI)--a son of Caidyoparicara (Vidyoparicara- वा प्।). M. ५०. २७; वा. ९९. २०२.
(VII)--a son of Gaya and father of four sons, all versed in the Vedas. वा. ९१. ६१-2. [page१-412+ ३४]
(VIII)--(कुशद्वीप, कुमुदद्वीपम्?)--thrice the Suroda in size surrounded by घृतोड (sea of Ghee) (milk ocean-म्।प्।). Its name comes from a shining divine cluster of grass in it. Its king was a son of Priyavrata, हीरण्यरेतस्, who divided it among his seven sons. Here Agni is worshipped. फलकम्:F1:  भा. V. 1. ३२; २०. १३-17; M. १२२. ४९; वा. ३३. १२; ४९. ४७-58.फलकम्:/F ज्योतिष्मत्, its first king divided it among his seven sons. Their names, and the names of hills and rivers described. फलकम्:F2:  Br. II. १४. १२-30; १९. ५२-64.फलकम्:/F A तीर्थम् sacred to कुशोदका फलकम्:F3:  M. १३. ५०.फलकम्:/F in the neighbourhood of जम्बूद्वीप; फलकम्:F4:  वा. ४८. १४. ३४.फलकम्:/F of different villages and the residence of Kumuda the wily sister of महादेव. फलकम्:F5:  Ib. ४८. ३४-35.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUŚA I : A great sage of ancient India. He was as effulgent as burning fire. The famous Sage Viśvāmitra was born in Kuśa's dynasty. (For genealogy etc see under Viśvāmitra).


_______________________________
*8th word in right half of page 445 (+offset) in original book.

KUŚA II : One of the two sons of Śrī Rāma, the other, being Lava.

1). Birth. To Sītā forsaken by Rāma a son called Lava was born while she was living at the āśrama of Vālmīki. One day Sītā took Lava to the stream to bathe him, and Vālmīki, who did not know about it was upset not to see the child in the āśrama. He feared that it might have been eaten up by some animal, and fearing that Sītā might die when she missed the child he created a child with Kuśa grass and laid it where Lava was lying before. When Sītā returned to the āśrama with Lava after their bath Vālmīki explained the whole situation to Sītā. Since the second child was created with Kuśa grass he was called Kuśa, and he was made the second son of Sītā (Uttara Rāmāyaṇa and Kathāsaritsāgara, Alaṅkāravatīlambaka, Taraṅga 1).

2) Kuśa went to Ayodhyā. Śrī Rāma decided to conduct an Aśvamedha yajña. It was ordained that the emperor, who conducted a yajña should have his wife. As Sītā had been abandoned, Rāma had no wife for the pur- poses of the yajña. It was laid down that in the absence of the wife a statue of hers may be made with palāśa wood. But, Vasiṣṭha decreed that a statue of Sītā might be made with gold. The yajña was to be held in the Naimiṣa forest. During the triumphal tour of Śatrughna with the yājñika horse he reached the banks of the river Tamasā near the āśrama of Vālmīki where Lava and Kuśa captured the horse. Śatrughna could not defeat Lava and Kuśa, and they routed the addi- tional force also which arrived under the leadership of Lakṣmaṇa to help Śatrughna. Then Vālmīki intervened and the horse was returned to Śatrughna. Afterwards, Vālmīki, Sītā and Lavakuśas also attended Śrī Rāma's yajña where Lava and Kuśa recited the poem Rāmā- yaṇa composed by Vālmīki. Rāma recognised the boys and they were made to live in Ayodhyā. Thus did Kuśa visit Ayodhyā.

The Kathāsaritsāgara tells the following story about Kuśa's visit to Ayodhyā.

Vālmīki duly performed the thread-wearing ceremony of Lava and Kuśa and taught them, even in their very childhood, all arts and sciences including the secrets about divine arrows. The boys one day killed a deer in the āśrama and worshipped with its flesh the liṅga, which Vālmīki used to worship daily, and as a result of that the sage became ill. Sītādevī requested for penance for the action of her children, and Vālmīki said that Lava should bring golden lotus flowers from Vaiśravaṇa's pond and flowers of Kalpakavṛkṣa from his garden, and that Lava and Kuśa together should worship the Śivaliṅga with those flowers. Lava then went to mount Kailāsa and after killing many yakṣas collected the flowers. On his way back he rested for some time at the foot of a tree. Just then Lakṣmaṇa, who was on the look-out for a human being for the naramedha (human sacrifice) of Śrī Rāma, also reached the spot. He decided to take Lava captive with him, and they fought with each other for some time. At last Lakṃaṇa took Lava captive by using mohanāstra (arrow which makes the opponent unconscious) and took him to Ayodhyā. Sītā was pained that Lava had not returned yet, and Vālmīki with his divine vision understood the reason for his absence. He deputed Kuśa to Ayodhyā to bring back with him Lava somehow or other. When Kuśa reached Ayodhyā, Śrī Rāma was conducting the Aśvamedha yajña, and Kuśa, successfully confronting a number of people, got into the yajña ground. In the combat that ensued between Kuśa and Lakṣmaṇa the latter was defeated, as he could not defeat Kuśa due to the greatness of Vālmīki. When Śrī Rāma asked Kuśa who he was he replied that he was the brother of Lava and that he had heard from his mother Sītā that both of them were the sons of Śrī Rāma. Rāma was overjoyed to hear that and he covered the boys with kisses. Sītā also was brought down from the āśrama of Vālmīki, and all of them lived very happily. (Kathā- saritsāgara, Alaṁkāravatīlambaka, Taraṅga 1).

3). Kuśa's reign. Following the demise of Lakṣmaṇa Śrī Rāma divided the country between Kuśa and Lava. A city called Kuśāvatī was built in the Kosala Kingdom and Kuśa was crowned King thereof. Thirtytwo out of the sixtyfour akṣauhiṇīs of the kings of the solar dynasty, four out of the eight ministers and half of the movable property were allotted to Kuśa. Lava was crowned king of north Kosala where a city called Śarāvatī was built for him, and the other half of the army, ministers etc. became his share. While Kuśa and Lava were ruling the country thus, Śrī Rāma immolated himself in the depths of the river Sarayū (Uttara Rāmāyaṇa).

4). Kuśa's successors. Descended from Śrī Rāma thus: Kuśa--Aditi--Niṣadha--Nabhas--Puṇḍarīka--Kṣema- dhanvā--Devānīka--Ṛkṣa--Pāriyātra--Vindorala-- Vajranābha--Khagaṇa--Vīdhṛti--Hiraṇyanābha-- Puṣya--Dhruva--Sudarśana--Agnipūrṇa--Śīghra-- Maru. The solar dynasty was annihilated at the advent of Kaliyuga (Bhāgavata, 9th Skandha).


_______________________________
*9th word in right half of page 445 (+offset) in original book.

KUŚA III : A king born in the Kuru dynasty. To Kuru, who built Kurukṣetra was born a son called Sudhanvā, and to him was born Suhotra, who became the father of Cyavana. Suhotra begot of another wife Girikā seven sons called Bṛhadratha, Kuśa, Yadu, Pratyagraha, Bala, Matsyakāla and Vīra. Kuśa was one of the seven sons. (Agni Purāṇa, Chapter 78).


_______________________________
*1st word in right half of page 446 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuśa, a word later denoting the ‘sacred grass’ (Poa cynosuroides), is taken by the St. Petersburg Dictionary to mean simply ‘grass’ in the passages of the Śatapatha Brāhmaṇa in which it occurs.

^1) ii. 5, 2, 15; iii. 1, 2, 16; v. 3, 2, 7, etc. Kuśā and Kuśī occur in Maitrāyaṇī Saṃhitā, iv. 5, 7; Śatapatha Brāhmaṇa, iii. 6, 2, 9; Taittirīya Brāhmaṇa, i. 5, 10, 1. 2, 7, apparently denoting pins of wood or metal, used as a mark in a special mode of recitation.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुश पु.
पवित्र घास, साधारणतया दर्भ के रूप में ज्ञात, अगिन् के समीप तीन अथवा पाँच तहों में बिछाने के लिए प्रयुक्त, शां.गृ.सू. 1.8.1-2; दो पत्रों से अगिन् के चारों ओर तीन बार जल छिड़कने के लिए प्रयुक्त, वही. 17. पवित्र के रूप में प्रयुक्त एवं पात्र के उपर धृत, जिसमें (पात्र में) प्रोक्षणी जल को तैयार करने के लिए जल निथारा जाता है, आप.गृ.सू.2०; द्रष्टष्य-श्रौ.को. (सं.) II .75.

"https://sa.wiktionary.org/w/index.php?title=कुश&oldid=496832" इत्यस्माद् प्रतिप्राप्तम्