केतु

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

केतुः, पुं, नवग्रहान्तग्रहविशेषः । स तु राहोः शरीरम् । तत्पर्य्यायः । शिखी २ । इति दीपिका ॥ अयं पापग्रहः । यथा, -- “अर्द्धो नेन्द्वर्कसौराराः पापाः सौम्यास्तथापरे । पापयुक्तो बुधः पापो राहुकेतू च पापदौ” ॥ इति ॥ अयन्तु जन्मराश्यपेक्षया षष्ठत्रिदशमैकादश- स्थानस्थितश्चेत् शुभः । यथा, -- “केतूपप्लवभौममन्दगतयः षष्ठत्रिसंस्थाः शुभा- श्चन्द्रार्कावपि ते च तौ च दशमौ चन्द्रः पुनः सप्तमः । जीवः सप्तनवद्विपञ्चमगतो युग्मेषु सोमात्मजः शुक्रः षड्दशसप्तवर्जमितरे सर्व्वेऽप्युपान्त्ये शुभाः” ॥ इति ॥ * ॥ अस्य त्रिकोण उच्चस्वगृहशत्रुमित्र- समनीचा यथा, -- “सिंहस्त्रिकोणं धनुरुच्चसंज्ञं मीनो गृहं शुक्रशनी विपक्षौ । सूर्य्यारचन्द्राः सुहृदः समानौ जीवेन्दुजौ षट् शिखिनः परांशाः” ॥ इति ॥ “स्वोच्चाच्च सप्तमं नीचं प्राग्वद्भावैर्विनिर्द्दिशेत्” ॥ इति ॥ * ॥ अस्य रिष्टिर्यथा, -- “केतुर्यस्मिन्नृक्षेऽभ्युदितस्तस्मिन् प्रसूयते जन्तुः । रौद्रे सर्पमुहूर्त्ते वा प्राणैः संत्यज्यते चाशु” ॥ इति च ज्योतिस्तत्त्वम् ॥ * ॥ अस्य दशाफलं केरलीनामग्रन्थे द्रष्टव्यम् ॥ * ॥ अथातः केतुचा- राध्यायो व्याख्यायते । तत्रादावेवागमप्रदर्शनार्थ- माह । “गार्गीयं शिखिचारं पराशरमसितदेवलकृतञ्च । अन्यांश्च बहून्दृष्ट्वा क्रियतेऽयमनाकुलश्चारः” ॥ गार्गीयं गर्गप्रोक्तं केतूनां चार तत् पराशरेण कृतं असितनामाचार्य्येण कृतं देवलविरचितं एतान् केतुचारान् अवलोक्य तथान्यानपि कश्यपऋषि- पुत्त्रनारदवज्रादिरचितान् बहून् दृष्ट्वा मया अयं अनाकुलो निःसन्देहः केतुचारः क्रियते ॥ * ॥ अथोदयास्तमयलक्षणं आह । “दर्शनमस्तमयो वा न गणितविधिनास्य शक्यते ज्ञातुम् । दिव्यान्तरीक्षभौमास्त्रिविधाः स्युः केतवो यस्मात्” ॥ अस्य केतोर्दर्शनं उदयः अस्तमयोऽदर्शनं गणित- विधानेन ज्ञातुं न शक्यते । यस्मात् केतवस्त्रि- विधास्त्रिप्रकाराः । दिवि आकाशे भवा दिव्याः । अन्तरीक्षे भवा आन्तरीक्षाः । ग्रहनक्षत्रस्थानं विहायान्यत्र आकाशे ये दृश्यन्ते ते आन्त- रीक्षाः । भूमौ भवाः भौमाः । इति हेतोरूत्पात- रूपत्वात् एषामुदयास्तमयौ न ज्ञायेते इति ॥ * ॥ अथ केतूनां दिव्यवर्ज्जितानां अन्येषां स्वरूपमाह । “अहुताशेऽनलरूपं यस्मिंस्तत्केतुरूपमेवोक्तम् । खद्योतपिशाचालयमणिरत्नादीन् परित्यज्य” ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

केतु पुं।

ग्रहभेदः

समानार्थक:केतु

3।3।60।2।1

यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते। ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः॥

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

केतु पुं।

पताका

समानार्थक:पताका,वैजयन्ती,केतन,ध्वज,केतु,केतन,ललाम

3।3।60।2।1

यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते। ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः॥

वृत्तिवान् : ध्वजधारिः

वैशिष्ट्य : ध्वजधारिः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

केतु¦ पु॰ चाय--तु क्यादेशः।

१ प्रज्ञायां निरु॰

२ राहोरर्द्ध-देहात्मके ग्रहभेदे ज्यो॰

३ दीप्तौ हेमच॰

४ पताकायांचिह्ने

५ ज्योतिषे प्रसिद्धे

६ उत्पातभेदे च वा ब॰ व॰मेदि॰ तद्भेदश्च वृ॰ सं॰

११ अ॰ उक्तो यथा
“गार्गीयं शिखिचारं पाराशरमसितदेवलकृतं च। अ-न्यांश्च बहून्दृष्ट्वा क्रियतेऽयमनाकुलश्चारः। दर्शनमस्तमयोवा न गणितविधिर्नास्य शक्यते ज्ञातुम्। दिव्यान्तरिक्ष-भौमास्त्रिविधाः स्युः केतवो यस्मात्। अहुताशेऽनल-रूपं यस्मिंस्तत् केतुरूपमेवोक्तम्। खद्योतपिशाचालयमणिरत्नादीन् परित्यज्य। ध्वजशस्त्रभवनतरुतुरगकुञ्ज-राद्येष्वथान्तरिक्षास्ते। दिव्या नक्षत्रोत्था भौमाः स्युर-तोऽन्यथा शिखिनः। शतमेकाधिकमेके सहस्रमपरे वद-न्ति केतूनाम्। बहुरूपमेकमेव प्राह मुनिर्नारदः केतुम्यद्येको यदि बहवः किमनेन फलं तु सर्वथा वाच्यम्[Page2231-a+ 38] उदयास्तमयैः स्थानैः स्पर्शैराधूमलैर्वर्णैः। यावन्त्यहानिदृश्यो मासास्तावन्त एव फलपाकाः। मासैरव्दांश्च वदेत्प्रथमात्पक्षत्रयात् परतः। ह्रस्वस्तनुः प्रसन्नः स्निग्ध-स्त्वृजुरचिरसंस्थितः शुक्लः। उदितो वाऽप्यभिदृष्टः सुभि-क्षसौख्यावहः केतुः। उक्तविपरीतरूपो न शुभकरोधूमकेतुरुत्पन्नः। इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलोवा। हारमणिहेमरूपाः किरणाख्याः पञ्चविंशतिः सशि-खाः। प्रागपरदिशोर्दृश्या नृपतिविरोधावहा रविजाः। शुकदहनबन्धुजीवकलाक्षाक्षतजोपमा हुताशसुताः। आ-ग्नेय्यां दृश्यन्ते तावन्तस्तेऽपि शिखिभयदाः। वक्रशिखामृत्युसुता रूक्षा कृष्णाश्च तेऽपि तावन्तः। दृश्यन्ते या-म्यायां जनमरकावेदिनस्ते च। दर्पणवृत्ताकाराबिशिखाः किरणान्विता धराततनयाः। क्षुद्भयदा द्वाविं-शतिरैशान्यामम्बुतैलनिभाः। शशिकिरणरजतहिमकु-मुदकन्दकुसुमोपमाः सुताः शशिनः। उत्तरतो दृश्यन्तेत्रयः सुभिक्षावहाः शिखिनः। ब्रह्मसुत एक एव त्रि-शिखो वर्णैस्त्रिभिर्युगान्तकरः। अनियतदिक्सम्प्रभवोविज्ञेयो ब्रह्मदण्डाख्यः। शतमभिहतमेकसमेतमेतदेकेनविरहितान्यस्मात्। कथयिष्ये केतूनां शतानि नव ल-क्षणैः स्पष्टैः। सौम्यैशान्योरुदयं शुक्रसुता यान्ति चतु-रशीत्याख्याः। विपुलसिततारकास्ते स्निग्धाश्च भवन्तितीव्रफलाः। स्निग्धाः प्रभासमेता द्विशिखाः षष्टिः शनै-श्चराङ्गभवाः। अतिकष्टफला दृश्याः सर्वत्रैते कनक-संज्ञाः। विकचा नाम गुरुसुताः सितकतांराः शिखाप-रित्यक्ताः। षष्टिः पञ्चभिरधिका स्निग्धा याम्याश्रिताः पा-पाः। नातिव्यक्ताः सूक्ष्मा दीर्वाः शुक्ला यर्थष्टदिक्प्रभ-वाः। बुधजास्तस्करसञ्ज्ञाः पापफलास्त्वेकपञ्चशात्। क्षतजानलानुरूपास्त्रिचूलताराः कुजात्मजाः षष्टिः। नाम्ना च कौङ्कुमास्ते सौम्याशासंस्थिताः पापाः। त्रिंशत्त्य्रधिका राहोस्ते तामसकीलका इति ख्याताः। रविशशिगा दृश्यन्ते तेषां फलमर्कचारोक्तम्। विं-शत्याधिकमन्यच्छतमग्नेर्विश्वरूपसञ्ज्ञानाम्। तीव्रान-लभयदानां ज्वालामालाकुलतनूनाम्। श्यामारुणा वि-ताराश्चामररूपा विकीर्णदीधितयः। अरुणाख्या वायोःसप्तसप्ततिः पापदाः परुषाः। तारापुञ्जनिकाशा गणकानाम प्रजापतेरष्टौ। द्वे च शते चतुरधिके चतुरम्राब्रह्मसन्तानाः। कङ्का नाम वरुणजा द्वात्रिंशद्वंशगुल्म-संस्थानाः। शशिवत् प्रभासमेतास्तीव्रफलाः केतवः प्रोक्ताः। [Page2231-b+ 38] पण्णवतिः कालसुताः कबन्धसञ्ज्ञाः कवन्धसंस्थानाः। चण्डा भयप्रदाः स्युर्विरूपताराश्च ते शिखिनः। शुक्लविपुलैकतारा नव विदिशां केतवः समुत्पन्नाः। एवं के-तुसहस्रं विशेषमेषामतो वक्ष्ये। उदगायतो महान्स्निग्धमूर्तिरपरोदयी वसाकेतुः। सद्यः करोति मरकंसुभिक्षमप्युत्तमं कुरुते। तल्लक्षणोऽस्थिकेतुः स तु रूक्षःक्षुद्भयावहः प्रोक्तः। स्निग्धस्तादृक् प्राच्यां शस्त्राख्यो डम-रमरकाय। दृश्योऽमावास्यायां कपालकेतुः सधूम्ररश्मि-शिखः। प्राग्नभसोऽर्धविचारी क्षुन्मरकावृष्टिरोग-करः। प्राग्वैश्वानरमार्गे शूलाग्रः श्यावरूक्षताम्रार्चिः। नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः। अपरस्यां चलकेतुः शिखया याम्याग्रयाङ्गुलोच्छ्रि-तया। गच्छेद्यथा यथोदक् तथा तथा दैर्घ्यमायाति। सप्त मुनीन् संस्पृश्य ध्रुवमभिजितमेव च प्रति-निवृत्तः। नभसोऽर्धमात्रमित्वा याम्येनास्तं समुप-याति। हन्यात् प्रयागकूलाद् यावदवन्तीं च पुष्करार-ण्यम्। उदगपि च देविकामपि भूयिष्ठं मध्यदेशाख्यम्। अन्यानपि च स देशान् क्वचित् क्वचिद्धन्ति रोगदु-र्भिक्षेः। दश मासान् फलपाको ऽस्य कैश्चिदष्टादशप्रीक्तः। प्रागर्धरात्रदृश्यो याम्याग्रः श्वेतकेतुरन्यश्च। कइति युगाकृतिरपरे युगपत्तौ सप्तदिनदृश्यौ। स्निग्धौसुभिक्षशिवदावथाधिको दृश्यते कनामा यः। दश वर्षा-ण्युपतापं जनयति शस्त्रप्रकोपकृतम्। श्वेत इति जटा-कारो रूक्षः श्यावो वियत्त्रिभागगतः। विनिवर्ततेऽपसव्यं त्रिभागशेषाः प्रजाः कुरुते। आधूम्रया तु शि-खया दर्शनमायाति कृत्तिकासंस्थः। ज्ञेयः स रश्मि-केतुः श्वेतसमानं फलं धत्ते। ध्रुवकेतुरनियतगतिप्रमाणवर्णाकृतिर्भवति विष्वक्। दिव्यान्तरिक्षभौमो भव-त्ययं स्निग्ध इष्टफलः। सेनाङ्गेषु नृपाणां गृहतरुशैलेषुचापि देशानाम्। गृहिणामुपस्करेषु च विनाशिनां दर्शर्नयाति। कुमुद इति कुमुदकान्तिर्वारुण्यां प्राक्छिखो नि-शामेकाम्। दृष्टः सभिक्षमतुलंदश किल वर्षाणिस करो-ति। सकृदेकयामदृश्यः सुसूक्ष्मतारोऽपरेण मणिकेतुःऋज्वी शिखास्य शुक्ला स्तनोद्गता क्षीरधारेव। उदयन्नेव सुभिक्षं चतुरोमासान् करोत्यसौ सार्धान्। प्रादुर्भावं प्रायः करोति च क्षुद्रजन्तूनाम्। जलकेतुरपिच पश्चात् स्निग्धः शिखयाऽपरेण चोन्नतया। नव मासान्स सुभिक्षं करोति शान्तिं च लोकस्य। भवकेतुरेकरात्रं[Page2232-a+ 38] दृश्यः प्राक् सूक्ष्मताकरः स्निग्धः। हरिलाङ्गूलोपमयाप्रदक्षिणावर्तया शिखया। यावत एव मुहूर्तान् दर्शनमा-याति निर्देशेन्मासान्। तावदतुलं सुभिक्षं रूक्षे प्राणान्ति-कान् रोगान्। अपरेण पद्मकेतुर्मृणालगौरो भवेन्निशामे-काम्। सप्त करोति सुभिक्षं वर्षाण्यतिहर्षयुक्तानि। आ-वर्त इति निशार्धे सव्यशिखोऽरुणनिभोऽपरे स्निग्धः। यावत्क्षणान् स दृश्यस्तावन्मासान् सुभिक्षकरः। पश्चात्सन्ध्याकाले र्सवर्तो नाम धूम्रताम्रशिखः। आक्रम्य वि-यत्त्य्रंशं शूलाग्रावस्थितो रौद्रः। यावत एव मुहूर्तान्दृश्यो वर्षाणि हन्ति तावन्ति। भूपांश्छस्त्रनिपातैरुदयर्क्षंचापि पीडयति। ये शस्तास्तान् हित्वा केतुभिराधूमितेऽथवा स्पृष्टे। नक्षत्रे भवति बधो येषां राज्ञां प्रवक्ष्येतान्। अश्विन्यामश्मकपं भरणीषु किरातपार्थिवं ह-न्यात्। बहुलासु कलिङ्गेशं रोहिण्यां शूरसेनपतिम्। औशीनरमपि सौम्ये

५ जलजाजीवाधिपं तथार्द्रासु। आ-दित्ये

७ ऽश्मकनाथं पुष्ये मगधाधिपं हन्ति। असिकेशं भौ-जङ्गे

९ पित्र्ये

१० ऽअङ्गं पाण्ड्यनाथमपि भाग्ये

११ । औज्जयनिकमार्यम्णे

१२ सावित्रे

१३ दण्डकाधिपतिम्। चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिश त्तञज्ञः। काश्मीरककाम्बोजौ नृपती प्राभज्जने

१५ न स्तः। इक्ष्वाकुरलकनाथो हन्येते यदि भवेद्विशाखासु। मैत्रे

१७ पुण्ड्राधिपतिर्ज्येष्ठास्वथ सार्वभौमवधः। मूलेऽन्ध्रमद्र-कपती जलदेवे

२० काशिपो मरणमेति। यौधेयकार्जु-नायनशिविचैद्यान् वैश्वदेवे

२१ च। नैमिषनृपं

२२ हन्यात्केकयनाथं

२३ पाञ्चनदम्

२४ । सिंहलाधिपं

२५ वाङ्गम्

२६ किरातं

२७ श्रवणादिषु षट्खिमान् क्रमशः। उल्काभि-ताडितशिस्वः शिवः शिवतरो ऽभिवृष्टो यः। अशुभः सएव चोलावगाणसितहूणचीनानाम्। नम्रा यतः शिखि-शिखाभिसृता यतो वा ऋक्षं च यत् स्पृशति तत्कथितांश्चदशान्। दिव्यप्रभावनिहतान् स यया गरुत्मान् भुङ्-क्ते गतो नरपतिः परभोगिभोगान्”। केतुविशेषाणां कालविशेषादनन्तरमुदयः पराशरवाक्यादिषुज्ञेयस्तानि यथा

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

केतु¦ m. (-तुः) KETU the dragon's tail or descending node; in astronomy, the ninth of the planets; in mythology, a demon: the body of SAINHIKEYA severed from the head (RAHU), by VISHNU, at the churning of the ocean, but immortal, by having tasted the Amrita.
2. A banner, a flag.
3. A mark, a sign, a symbol, &c.
4. Light.
5. A comet, falling star, &c.
6. Disease.
7. A pigmy race inhabit- ing Kusa Dwipa, the progeny of JAIMINI. E. चाय् to worship, तु Unadi affix, कि substituted for the root.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

केतुः [kētuḥ], [चाय्-तु की आदेशः Uṇ.1.73]

A flag, banner; चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य Ś.1.33;

A chief, head, leader, foremost, any eminent person (oft. at the end of comp.); मनुष्यवाचा मनुवंशकेतुम् R.2.33;14.7; कुलस्य केतुः स्फीतस्य (राघवः) Rām.

A comet, meteor; Bhāg.2.6.15; Ms.1.38.

A sign, mark.

Brightness, clearness.

A ray of light; प्रययौ कान्तिमिव द्रुमाब्जकेतुम् Bu. Ch.5.3; Bhāg.8.6.15. cf. also 'केतुर्द्युतौ पताकायाम्' इति विश्वः.

The descending node considered as the ninth planet, and the body or trunk of the demon सैंहिकेय (the head being regarded as Rāhu); क्रूर- ग्रहः स केतुश्चन्द्रं संपूर्णमण्डलमिदानीम् Mu.1.6.

Day-time.

Apparition, form, shape.

Intellect, judgement; नि केतुना जनानां चिकेथे पूतदक्षसा Rv.5.66.4.

A pigmy race.

A disease.

An enemy. -Comp. -ग्रहः the descending node. -चक्रम् a kind of diagram. -तारा a comet. -भः a cloud. -मालः, -मालम् one of the nine great divisions of the known world (the western portion of जम्बुद्वीप.) -यष्टिः f. a flag-staff; नामाङ्करावणशराङ्कितके- तुयष्टिमूर्ध्वं रथं हरिसहस्रयुजं निनाय R.12.13. -रत्नम् lapis lazuli, (also called वैडूर्य). -वसनम् a flag.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

केतु m. (fr. 4. चित्) , bright appearance , clearness , brightness (often pl. , " rays of light ") RV. VS. AV.

केतु m. lamp , flame , torch ib.

केतु m. day-time S3a1n3khBr.

केतु m. ( Naigh. iii , 9 ) apparition , form , shape RV. Pa1rGr2.

केतु m. sign , mark , ensign , flag , banner RV. AV. MBh. etc.

केतु m. a chief , leader , eminent person RV. R. iv , 28 , 18 Ragh. ii , 33 BhP.

केतु m. intellect , judgement , discernment (?) RV. v , 66 , 4 AV. x , 2 , 12

केतु m. any unusual or striking phenomenon , comet , meteor , falling star AdbhBr. Mn. i , 38 VarBr2S. BhP. etc.

केतु m. the dragon's tail or descending node (considered in astron. as the 9th planet , and in mythol. as the body of the demon सैंहिकेय[son of सिंहिका] which was severed from the head or राहुby विष्णुat the churning of the ocean , but was rendered immortal by having tasted the अमृत) Hariv. 4259 R. VP.

केतु m. " a pigmy race "See. -गणbelow

केतु m. disease L.

केतु m. an enemy L.

केतु m. N. of a son of अग्नि(author of RV. x , 156 ) RAnukr.

केतु m. (with the patr. वाज्य) VBr.

केतु m. N. of a दानवHariv. 198

केतु m. of a son (of ऋषभBhP. v , 4 , 10 ; of the 4th मनु, viii , 1 , 27 )

केतु m. अरुणाः केतवः, " red apparitions " , a class of spirits (a kind of sacrificial fire is called after them आरुणकेतुकSee. ) AV. xi , 10 , 1 f. and 7 TA1r. MBh. xii , 26 , 7.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--a son of ऋषभ. भा. V. 4. १०. [page१-456+ २९]
(II)--one of the १०० sons of Vipracitta and Sim- हिका besides राहु (s.v.). भा. V. २३. 7; VI. 6. ३७.
(III)--a son of तामस Manu. भा. VIII. 1. २७.
(IV)--a planet with a chariot of 8 horses, all green; फलकम्:F1:  Br. II. २३. ९०; २४. १३६ and ३९; M. ९३. १०; १२७. ११; वा. ५२. ८२; १११. 5; Vi. II. १२. २३.फलकम्:/F in size one-fourth less than बृहस्पति. फलकम्:F2:  M. १२८. ६४.फलकम्:/F धूमकेतु, the first among the Ketus. फलकम्:F3:  वा. ५३. १११.फलकम्:/F
(V)--a son of Danu. M. 6. १८.
(VI)--the second son of Druhyu. M. ४८. 6.
(VII)--one of the प्राणहिनस् of the king. वा. ५७. ६९.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Ketu : m.: Name of a planet, also designated as Śvetagraha.

A. Description: white (śveta) 6. 3. 11, (śvetagraha) 6. 78. 12; having a ruddy crest (aruṇaśikha) 6. 3. 24; blazing (prajvalant) 6. 3. 24; harsh (paruṣa) 6. 3. 16.

B. Importance: Listed as one of the names of Śiva (ketur grahaḥ) 13. 17. 37 (for Nī.'s interpretation of graha here as Rāhu, see p. 266. 2).

C. Omens:

(1) According to one of the omens observed by Vyāsa before the start of the war, the Śvetagraha had gone beyond the constellation Citrā and was stationed between Citrā and Svāti (śveto grahas tathā citrāṁ samatikramya tiṣṭhati) 6. 3. 11 (NĪ. on Bom. Ed. 6. 3. 12: śveto grahaḥ ketuḥ; Nī., who reads Bom. Ed. 6. 3. 16 śveto grahaḥ prajvalitaḥ in place of śyāmo grahaḥ prajvalitaḥ of the Cr. Ed. 6. 3. 15, explains śveto dvitīya upagrahaḥ ketusaṁjñaḥ); citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ) 6. 3. 16 (Nī., however, on Bom. Ed. 6. 3. 17 paruṣagraho rāhuḥ); according to an omen noticed also by Karṇa a certain Graha (not named but probably the Śvetagraha i. e. Ketu) was severly afflicting Citrā (viśeṣeṇa hi vārṣṇeya citrāṁ pīḍayate grahaḥ) 5. 141. 9; according to still another omen noticed by Vyāsa, the two planets having copper-red and rudy crests (Rāhu and Ketu respy. ?) were blazing, thereby obscuring the light of the constellation Ursa Major (grahau tāmrāruṇaśikhau prajvalantāv iva sthitau/saptarṣīṇām udārāṇāṁ samavacchādya vai prabhām) 6. 3. 24; (śveto grahaḥ in 5. 37. 39, however, seems to refer not to Ketu but to a comet, cf. Nī. on Bom. Ed. 5. 37. 43: śveto graho dhūmaketuḥ).

D. Simile: Bhīṣma with a bright bow in his hand and riding a chariot drawn by white horses looked like the risen Śvetagraha (…bhīṣmam śvetāśvaṁ śvetakārmukam/…śvetagraham ivoditam//) 6. 78. 12; (Ketu is probably included among the Mahāgrahas surrounding the sun 6. 73. 10).

p. 245. 2 before Citrā add the entry: Candramas: See Soma.

p 246. 2. 7 (from below) read (i. e. Rāhu) for (i. e. Ketu).

p. 247. 1. at the end of the entry Jyeṣthāmūla read [See Śukra ].

p. 247. 2. 1 read Mṛgottama for Mṛgaśiras.

p. 259. 1 at the end of the entry Prājāpatya^2 add: [See Rohiṇī ].

p. 259. 2. 23 after 2. 11. 20 add the following: the sages saw Budha, along with Candra, Āditya and many others, in the abode of Pitāmaha (Brahmadeva) 1. 203. 4;

p. 260. 2 at the end of the entry Brahmarāśī add [See Śravaṇa ].

p. 266. 2. 8 read ketur graho.

p. 268. 2. 27 after 3. 65. 21 add the following: Kūntī blessed Draupadī after her marriage saying that she might be united with her husbands as Rohiṇī with Soma (rohiṇī ca yathā some) 1. 191. 5; also cf. 5. 115. 9, 13. 134. 4.

1.5 Names of Tīrthas, Rivers, Mountains, Forests etc.

_______________________________
*2nd word in right half of page p283_mci (+offset) in original book.

previous page p282_mci .......... next page p285_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

1. Ketu is a term which Weber[१] understands in the sense of ‘meteor’ or ‘comet’ in the late Adbhuta Brāhmaṇa.

  1. Indische Studien, 1, 41. The aruṇāḥ ketavaḥ (Av. xi. 10, 1. 2. 7), referred to in this sense in the St. Petersburg Dictionary, are not so treated by Bo7htlingk in his Dictionary.
"https://sa.wiktionary.org/w/index.php?title=केतु&oldid=497234" इत्यस्माद् प्रतिप्राप्तम्