कोष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष्ठः, पुं, (कुष् ग निष्कर्षे + “उषिकुषिगतिभ्यस्थन्” । उणां । २ । ४ । इति थन् ।) कुसूलः । (यथा, महाभारते । २ । ५ । ६८ । “कच्चित् कोषश्च कोष्ठश्च वाहनं द्वारमायुधम् । आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः” ॥) गृहमध्यम् । (यथा, भागवते । ९ । १० । १७ । “सा वानरेन्द्रबलरुद्धविहारकोष्ठ- श्रीद्वारगोपुरसदोभलभीविटङ्का ॥) कुक्षिमध्यम् । यथा, वैद्यके । “स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च । हृदूण्डुकः फुष्फुषश्च कोष्ठ इत्यभिधीयते” ॥ “कोष्ठः पुनरुच्यते महास्रोतः शरीरमध्यं महा- निम्नमामपक्वाशयश्चेति पर्य्यायशब्दैस्तन्त्रे सरोग- मार्ग आभ्यन्तरः” ॥ “वीसर्पश्वयथुगुल्मार्शो विद्र- ध्यादयः कोष्ठमार्गानुसारिणो भवन्ति रोगाः” ॥ इति चरके सूत्रस्थाने ११ अध्याये ॥ कोष्ठाङ्गानि यथा, -- “सप्तचाधाराः रक्तस्यास्य क्रमात् परे । कफामपित्तपक्वानां वायोर्मूत्रस्य च स्मृताः ॥ गर्भाशयोऽष्टमः स्त्रीणां पित्तपक्वाशयान्तरे । कोष्ठाङ्गानि स्थितान्येषु हृदयं क्लोमफुष्फषम्” ॥ इति च वाभटे शारीरस्थाने ३ अः ॥ पञ्चदश कोष्ठाङ्गानि तद्यथा, “नाभिश्च हृदयञ्च क्लोम च यकृच्च प्लीहा च वुक्कौ च वस्तिश्च पुरीषाधार- श्चामाशयश्चेति पक्वाशयश्चोत्तरगुदञ्चाधरगुदञ्च क्षुद्रान्त्रञ्च स्थूलान्त्रञ्च वपावहनञ्चेति” । इति च चरके शारीरस्थाने ७ अध्याये ॥ उदरम् । यथा, भागवते । ६ । १८ । ५३ । “पतिं भार्य्योपतिष्ठेत ध्यायेत् कोष्ठगतञ्च तम्” ॥ नाभेरुपरिस्थितमणिपूरपद्मम् । यथा, तत्रैव । ४ । २३ । १४ । “संपीड्य पायुं पाष्णिर्भ्यां वायुमुत्सारयन् शनैः । नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरःकण्टशीर्षणि” ॥ प्राकारः । यथा, भागवते । ४ । २८ । ५६ । “पञ्चारामं नवद्वारमेकपालं त्रिकोष्ठकम् । षट्कुलं पञ्चविपणं पञ्चपृकृति स्त्रीधवम्” ॥ अत्र टीकाचूर्णी त्रिकोष्ठकं त्रिप्राकारमित्याह ॥ तन्त्रोक्तमन्त्रदीक्षाप्रकरणे अकथहादिचक्रचतुः- पार्श्वस्थितरेखाचतुष्कयुतस्थानभेदः ॥) आत्मीये त्रि । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष्ठ पुं।

अन्तर्जठरम्

समानार्थक:कोष्ठ

3।3।40।2।1

पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च। पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा॥

पदार्थ-विभागः : अवयवः

कोष्ठ पुं।

अन्तर्गृहम्

समानार्थक:कोष्ठ

3।3।40।2।1

पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च। पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

कोष्ठ पुं।

कुसूलः

समानार्थक:कोष्ठ

3।3।40।2।1

पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च। पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष्ठ¦ पु॰ कुष--थन्।

१ गृहमध्ये,

२ उदरमध्ये,

३ धान्यादिस्था-पने

४ कुशूले च (कुठी)

५ आत्मींये त्रि॰ मेदि॰
“स्था-नान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च। हृदुण्डुकःपुप्पुषश्च कोष्ठैत्यभिधीयते”

६ सुश्रुतोक्ते आमाग्निपक्वमूत्ररुधिरस्थाने
“प्रवाहिका शिरः शूलं कोष्ठशूलञ्च दारुणम्”
“चले दोषे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम्” सुश्रु॰
“भुक्तंभुक्तमिदः कोष्ठे कथमन्नं विपच्यते” भा॰ आश्र॰

५७ श्लो॰
“पतिं भार्य्योपतिष्ठेत ध्यायेत् कोष्ठगतं यथा” भा॰ भी॰

६ ।

१८ ।

५२ । अकथहादिचक्रचतुःपार्श्वस्थरेखाचतु-ष्कान्विते

७ स्थानभेदे अकथहशब्दे

३८ पृ॰ उदा॰।

८ पदेस्थानमात्रे
“पञ्चारामं नवद्वारमेकपालं त्रिकोष्ठकम्। यत्पञ्चविपणम् क्षेत्रं पञ्चप्रकृतिस्त्रीधरम्। पञ्चेन्द्रियार्थाआरामा द्वारः प्राणा नव प्रमो!। तेजोऽबन्नानि कोष्ठानिकु{??}निन्द्रियसंग्रहः। विपणस्तु क्रियाशक्तिर्भूतप्रकृतिर-व्यया” भाग॰

४ ।

२८ ।

५१ ।

५२ ।

५२ । कुशूले
“जरत्कोष्ठाद्-व्रीहीञ्छर्कराभिमिश्रानाहरति” कौषीतकिब्रा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं) Own. m. (-ष्ठः)
1. A granary, a place in which grain is kept.
2. A treasury.
3. An apartment.
4. Any viscus, as the heart, lungs, stomach, bowels, &c. E. कुष् to issue, थन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष्ठ [kōṣṭha], a. [कुष्-थन् Uṇ.2.4] Own.

ष्ठः Any one of the viscera of the body, such as the heart, lungs &c.

The belly, abdomen; आकोष्ठं ज्यां समुत्कृष्य Bhāg.1. 83.22.

An inner apartment.

A granary, storeroom; कन्दुः कोष्ठः कुशूलः Mbh. on P.I.2.45. etc.

ष्ठम् A surrounding wall; Bhāg.4.28.56.

The shell of anything.

Comp. अगारम् a storehouse, store room; पर्याप्तभरितकोष्ठागारं मांसशोणितैर्मे गृहं भविष्यति Ve.3; Ms.9.28.

a treasury.

अगारिकाः an animal living in a shell.

the manager of a store-room. -अग्निः the digestive faculty, gastric juice; कोष्ठाग्निर्नाम अशितपीत- लेह्यचोष्यं पचतीति Garbha. Up.5.

पालः a treasurer, store-keeper.

a guard, watch.

a constable (resembling the modern municipal officer). -शुद्धिः f. evacuation of the bowels.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष्ठ m. ( कुष्? ; probably related to कुक्षिand कोश) , any one of the viscera of the body (particularly the stomach , abdomen) MBh. Sus3r. etc.

कोष्ठ mn. ( अस्L. ; अम्)a granary , store-room MBh. BhP. ( ifc. f( आ). )

कोष्ठ mn. a treasury W.

कोष्ठ m. an inner apartment L.

कोष्ठ m. the shell of anything W.

कोष्ठ m. a kind of pan , pot Kaus3. Pat. Car. Bhpr.

कोष्ठ m. property (or mfn. " own ") L.

कोष्ठ m. night L.

कोष्ठ n. a surrounding wall BhP. iv , 28 , 57

कोष्ठ n. any enclosed space or area , chess square VarBr2S. liii , 42 Hcat. Tithya1d. Ka1tyS3r. Sch.

"https://sa.wiktionary.org/w/index.php?title=कोष्ठ&oldid=497503" इत्यस्माद् प्रतिप्राप्तम्