खञ्जन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनम्, क्ली, (खजि विकलगतौ + भावे ल्युट् ।) गमनम् । इति मेदिनी । ने । ५५ ॥

खञ्जनः, पुं, (खजि + कर्त्तरि ल्युः ।) स्वनामख्यात- पक्षी । तत्पर्य्यायः । खञ्जरीटः २ । इत्यमरः । २ । ५ । १५ ॥ कणाटीनः ३ काकच्छर्द्दिः ४ खञ्जखेलः ५ तातनः ६ मुनिपुत्त्रकः ७ भद्रनामा ८ रत्न- निधिः ९ । इति त्रिकाण्डशेषः ॥ खञ्जखेटः १० गूढनीडः ११ तण्डकः १२ चरः १३ । इति शब्दमाला ॥ काकच्छदः १४ नीलकण्ठः १५ कणाटीरः १६ कणाटारकः १७ । इति शब्द- रत्नावली ॥ (अस्य दर्शनेन यत् शुभाशुभं फलं भवति तदुक्तं बृहत्संहितायां ४५ अध्याये । तद्यथा, -- “खञ्जनको नामायं यो विहगस्तस्य दर्शने प्रथमे । प्रोक्तानि यानि मुनिभिः फलानि तानि प्रवक्ष्यामि ॥” तत्र चत्वारः खञ्जना भवन्ति । तेषां नामान्याह । “स्थूलोऽभ्युन्नतकण्ठः कृष्णगलो भद्रकारको भद्रः । आकण्ठमुखात् कृष्णः सम्पूर्णः पूरयत्याशाम् ॥ कृष्णो गलेऽस्य विन्दुः सितकरटान्तः स रिक्त- कृद्रिक्तः । पीतो गोपीत इति क्लेशकरः खञ्जनो दृष्टः ॥” अथ कस्मिन् काले दृष्टः कीदृक्फलं करोति इत्याह । “अथ मधुरसुरभिफलकुमुमतरुषु सलिलाशयेषु पुण्येषु । करितुरगभुजगमूर्द्ध्नि प्रासादोद्यानहर्म्म्येषु ॥ गोगोष्ठसत्समागमयज्ञोत्सवपार्थिवद्विजसमीपे । हस्तितुरङ्गमशालाच्छत्रध्वजचामराद्येषु ॥ हेमसमीपसिताम्बरकमलोत्पलपूजितोपलिप्तेषु । दधिपात्रधान्यकूटेषु च श्रियं खञ्जनः कुरुते ॥ पङ्के स्वाद्वन्नाप्तिर्गोरससम्पच्च गोमयोपगते । शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः ॥ गृहपटलेऽर्थभ्रंशो वध्रे बन्धोऽशुचौ भवति रोगः । पृष्ठे त्वजाविकानां प्रियसङ्गममावहत्याशु ॥ महिषोष्ट्रगर्द्दभास्थिश्मशानगृहकोणशर्करा- द्रिस्थः । प्राकारभस्मकेशेषु चाशुभो मरणरुग्भयदः ॥ पक्षौ धुन्वन्नशुभः शुभः पिबन्वारि निम्नगासंस्थः । सूर्य्योदयेऽथ शस्तो नेष्टफलः खञ्जनोऽस्तमये ॥ नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम् । पश्येत्तया गतस्य क्षिप्रमरातिर्वशमुपैति ॥ तस्मिन् निधिर्भवति मैथुनमेति यस्मिन् यस्मिंस्तु छर्द्दयति तत्रतलेऽस्ति काचः । अङ्गारमप्युपदिशन्ति पुरीषणेऽस्य तत्कौतुकापनयनाय खनेद्धरित्रीम् ॥ मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः । धनकृदभिनिलीयमानको वियति च बन्धुसमागमप्रदः ॥ नृपतिरपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विदध्यात् । सुरभिकुमुमधूपयुक्तमर्घं शुभमभिनन्दितमेवमेति वृद्धिम् ॥ अशुभमपि विलोक्य खञ्जनं द्विजगुरुसाधुसुरार्च्चने रतः । न नृपतिरशुभं समाप्नुया- न्न यदि दिनानि च सप्त मांसभुक् ॥” ततः कालफलप्रदर्शनार्थमाह । “आ वर्षात् प्रथमे दर्शने फलं प्रतिदिनं तु दिनशेषे । दिक्स्थानमूर्त्तिलग्नर्क्षशान्तदीप्तादिभिश्चोह्यम् ॥” शाकुने दिग्विशेषेऽस्य शब्दफलं यथा, -- “वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे भयं याम्यामग्निभयं सुरद्विषि कलिर्लाभः समुद्रालये । वायव्यां वरवस्त्रगन्धसलिलं दित्याङ्गना चोत्तरे- ऐशान्यां मरणं ध्रुवं निगदितंदिग्लक्षणं खञ्जने ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जन पुं।

खञ्जनः

समानार्थक:खञ्जरीट,खञ्जन

2।5।15।3।4

पत्री श्येन उलूकस्तु वायसारातिपेचकौ। दिवान्धः कौशिको घूको दिवाभीतो निशाटनः। व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जन¦ न॰ खजि--मावे ल्युट्।

१ विकलगतौ मेदि॰ कर्त्तरिल्यु।

२ स्वनामख्याते पक्षिभेदे पुंस्त्री॰ स्त्रियां ङीष्। स्वार्थे क। तत्रार्थे। तस्य दर्शने शुभाशुभफलाद्युक्तंवृ॰ सं॰

४५ अ॰ यथा
“खञ्जनको नामायं यो विहग-स्तस्य दर्शने प्रथमे। प्रोक्तानि यानि मुनिभिः फलानितानि प्रवक्ष्यामि। स्थूतोऽभ्युन्नतकण्ठः कृष्णगलो भद्र-कारको भद्रः। आ कण्ठमुखात् कृष्णः सम्पूर्णः पूरय-त्याशाम्। कृष्णो गलेऽस्य विन्दुः सितकरटान्तः सरिक्तकृद्रक्तः। पोतो गोपीत इति क्लेशकरः खञ्जनोवृष्टः। अथ मधुरसुरभिफलकुसुमतरुषु सलिलाशयेषुपुण्येषु। करितुरगभुजगमूर्घ्नि प्रासादोद्यानहर्म्येषु। गोगोष्ठसत्समागमयज्ञोत्वपार्थिवद्विजसमीपे। हस्तितुरङ्ग-मशालाच्छत्रध्वजचामराद्येषु। हेमसमीपसिताम्बर-[Page2456-b+ 38] कमलोत्पलपूजितोपलिप्तेषु। दधिपात्रधान्यकूटेषु चश्रियं खञ्जनः कुरुते। पङ्के स्वाद्वन्नाप्तिर्गोरससम्पच्चगोमयोपगते। शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः। गृहपटलेऽर्थभ्रशो बघ्रे बन्धोऽशुचौ भवति रोगः। पृष्ठे त्वजाविकानां प्रियसङ्गममावहत्याशु। महिषोष्ट्र-गर्दभास्थिश्मशानगृहकोणशर्कराद्रिस्थः। प्राकारभस्म-केशेषु चाशुभो मरणरुगभयदः। पक्षौ धुन्वन्न शुभःशुभः पिबन् वारि निम्नगासंस्थः। सूर्य्योदयेऽथो शस्तोनेष्टफलः खञ्जनोऽस्तमये। नीराजने निवृत्ते ययादिशा खञ्जनं नृपो यान्तम्। पश्येत्तया गतस्य क्षिप्र-मरातिर्वशमुपैति। तस्मिन्निधिर्भवति मैथुनमेति यस्मिन्यस्मिंस्तु छर्दयति तत्र तलेऽस्ति काचः। अङ्गारमत्युप-दिशन्ति पुरीषणेऽस्य तत्कौतुकापनयनाय खनेद्धरित्रीम्। मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः। धनकृदभिनिलीयमानको वियति च बन्धुसमागमप्रदः। नृपतिरपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विद-ध्यात्। सुरभिकुसुमधूपयुक्तमर्धं शुभमभिनन्दितमेवगेतिवृद्धिम्। अशुभमपि बिलोक्य खञ्जनं द्विजगुरुसाधु-सुरार्चने रतः। न नृपतिरशुभं समाप्नुयान् न यदिदिनानि च सप्तं मांसभुक्। आ वर्षात् प्रथमे दर्शनेफलं प्रतिदिनं तु दिनशेषे। दिक्स्थानमूर्त्तिलग्नर्क्षशान्त-दीप्तादिभिश्चोह्यम्” ति॰ त॰।
“कृत्वा नीराजनं राजाबलवृद्धैर्यथाबलम्। शोभनं खञ्जनं पश्येत् जलगोगोष्ठ-सन्निधौ। (तन्नतिमन्त्रः)
“नीलग्रीव! शुभग्रीव! सर्वकाम-फलप्रद!। पृथिव्यामवतीर्णोऽसि खञ्जरीट! नमीऽस्तु ते”। वसन्तराजे
“दृष्टोदितेऽगस्त्यमुनौ सुदेशे सुचेष्टितं खञ्जन-कोविदध्यात्” इत्युपक्रम्य
“त्वं योगयुक्तोमुनिपुत्रकस्त्वम-दृश्यतामेषि शिखोद्गमेन। सं दृश्यसे प्रावृषि निर्गतायां त्वंखञ्जनाश्चर्य्यमयो नमस्ते”। एतद्वचनात् यदा शिरसिशिखोद्गमस्तदा खञ्जनो न दृश्यते अगस्त्योदयानन्तरंशिखाविगमात् पुनर्दृश्यते। दर्शनफलम्
“अब्जेषु गोषुगजवाजिमहोरगेषु। राज्यप्रदः कुशलदः शुचिशाद्वलेषु। स्मास्थिकेशनखलोमतुषेषु दृष्टोदुःखं ददाति बहुशः खलुखञ्जरीटः”। वर्षकृत्ये
“वित्तं ब्रह्मणि कार्यसिद्धिर-तुला शक्रे हुताशे भयं, याम्येत्वग्निभयं सुरद्विषि कलि-र्लाभः समुद्रालये। वायव्यां वरवस्त्रगन्धसलिलं दिव्या-ङ्गना चोत्तरे ऐशान्यां मरणं ध्रुवं निगदितं दिग्-लक्षणं खञ्जने”। [Page2457-a+ 38]
“अपि खञ्जनमञ्जनाञ्चिते विदधाते रुचिगर्वदुर्विधम्” नैष॰
“युष्मत्कृते खञ्जनगञ्जनाक्षि! शिरोमदीपं यदि यातियातु”
“एकोहि खञ्जनवरोनलिनीदलस्थः” इति च उद्भटः। ततः शिवादि॰ अपत्यादौ अण्। खाञ्जन तदपत्यादौ

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जन¦ m. (-नः) A small bird, the wag-tail, (Motacilla alba.) f. (-ना)
1. A small kind of wag-tail.
2. Mustard. n. (-नं) Going, moving. E. खजि to go lamely, affix ल्यु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनः [khañjanḥ], [खञ्ज्-ल्युट्] A species of the wag-tail; स्फुट- कमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् Gīt.11; नेत्रे खञ्जनगञ्जने S. D; एको हि खञ्जनवरो नलिनीदलस्थः Ś. Til.4,5. -ना A kind of wag-tail.

Mustard. -नम् Going lamely. -Comp. -रतम् the cohabitation of saints.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जन m. the wagtail (Montacilla alba) VarBr2S. Sus3r. etc.

खञ्जन m. N. of a man g. शिवा-दि

खञ्जन n. going lamely L.

"https://sa.wiktionary.org/w/index.php?title=खञ्जन&oldid=498272" इत्यस्माद् प्रतिप्राप्तम्