गणक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणकः, पुं, (गणयति शुभाशुभग्रहभोगजनितफलं निरूपयतीति । गण त् क सङ्ख्याने + कर्त्तरि ण्वुल् ।) दैवज्ञः । ज्योतिर्वित् । तत्पर्य्यायः । साम्बत्- सरः २ ज्योतिषिकः ३ दैवज्ञः ३ मौहूर्त्तिकः ५ मौहूर्त्तः ६ ज्ञानी ७ कार्त्तान्तिकः ८ । इत्यमरः । २ । ८ । १४ ॥ ज्योतिषिकः ९ । इति तट्टीका ॥ स तु वर्णसङ्करजातिविशेषः । देवलाद्वैश्यागर्भजातः । तस्य कर्म्म तिथिवारादिज्ञापनम् । इति परा- शरपद्धतिः ॥ स तु अस्पृश्यः । यथा, -- “कलिकाले महाशानि ! पाषण्डा बहवो जनाः । सङ्गदोषान्महेशानि ! तत्क्षणाद्धानितां व्रजेत् ॥ तस्मात् प्रयत्नतो देवि ! संसर्गं वर्ज्जयेत् सुधीः । वरं चाण्डालसंस्पर्शं कुर्य्यात्तु साधकोत्तमः ॥ तथाप्यस्पृ श्यगणकं सर्व्वदा तं परित्यजेत् ॥” इति शाक्तानन्दतरङ्गिण्यां षोडशोल्लासे महिष- मर्द्दिनीतन्त्रवचनम् ॥ तस्य लक्षणं यथा, -- “ज्योतिःशास्त्रविशेषज्ञः सुन्दराङ्गः सभापटुः । कुलक्रमागतः शुद्धो गणकः स्यान्महीपतेः ॥” इति युक्तिकल्पतरुः ॥ (यदि च शास्त्रविशेषे गणकस्य निन्दादिकं श्रूयते तत्तु केवलं नक्षत्रजीविन एवेति बोध्यम् । प्रकृतज्योतिःशास्त्रन्तु द्बिजातिभिरेवा- वश्यमध्ययनीयं वेदाङ्गत्वात् । यथा, -- “संयुतोऽपीतरैः कर्णनासादिभि- श्चक्षुषाङ्गेन हीनो न किञ्चित् करः । तस्माद्द्विजैरध्ययनीयमेतत् पुण्यं रहस्यं परमञ्च तत्त्वम् ॥” इति सिद्धान्तशिरोमणिः ॥ * ॥ प्रजापतिपुत्त्रास्ताराविशेषकेतवः । यथा, -- “ताराः पुञ्जनिकाशा गणका नाम प्रजापतेरष्टौ पुत्त्राः ॥” इति बृहत्संहिता । ११ । २५ ॥ संकीर्णजातिविशेषः । यथोक्तम् । “चर्म्मकारस्य द्वौ पुत्त्रौ गणको वाद्यपूरकः ॥”)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणक पुं।
ज्यौतिषिकः
समानार्थक:सांवत्सर,ज्यौतिषिक,दैवज्ञ,गणक,मौहूर्तिक,मौहूर्त,ज्ञानिन्,कार्तान्तिक
2।8।14।1।4
सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि। स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि॥
स्वामी : राजा
पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणक¦ त्रि॰ गण--ण्वुल्।
१ संख्याकारके
२ सांवत्सरिके पु॰। तस्य लक्षणगुणदोषादिकमुक्तं वृ॰ सं॰
२ अ॰ यथा(
“ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितम् तत्कार्त्स्न्योपनयस्य नाम मुनिभिः सङ्कीर्त्यते संहिता। स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौहोरान्योऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः। [Page2499-b+ 38]
“अथातः सांवत्सरसूत्रं व्याख्यास्यामः। तत्र सांवत्-सरोऽभिजातः प्रियदर्शनो विनीतवेषः सत्यवागनसूयकःसमसुसंहतोपचितगात्रसन्धिरविकलश्चारुकरचरणनखन-यनचिवुकदशनश्रवणललाटभ्रूत्तमाङ्गो वपुष्मान् गम्भी-रोदात्तघोषः। प्रायः शरीराकारानुवर्त्तिनो हि गुणाश्चदोषाश्च भवन्ति। तत्र गुणाः। शुचिर्दक्षः प्रगल्भोवाग्मी प्रतिभानवान् देशकालवित् सात्विको न पर्षद्भीरुःसहाध्यायिभिरनभिमवनीयः कुशलोऽव्यसनी शान्ति-पौष्टिकाभिचारस्नानविद्याभिज्ञो विबुधार्चनव्रतोपवास-निरतः स्वतन्त्राश्चर्योत्पादितज्ञानप्रभावः पृष्टाभिधाय्य-न्यत्र दैवात्ययाद्ग्रहगणितसंहिताहोराग्रन्थार्थवेत्ता। तत्र ग्रहगणिते पौलिशरोमकवासिष्ठसौरपैतामहेषु प-ञ्चस्वेतेषु सिद्धान्तेषु युगवर्षायनर्तुमासपक्षाहोरात्रयाम-मुहूर्त्तनाडीविनाडीप्राणत्रुटित्रुट्यवयवाद्यस्य कालस्यक्षेत्रस्य च वेत्ता। चतुर्णां च मासानां सौरसावन-नाक्षत्रचन्द्राणामधिमासकावमसम्भवस्य च कारणाभिज्ञः। षष्ट्यव्दयुगवर्षमासदिनहोराधिपतीनां प्रतिपत्तिविच्छेद-वित्। सौरादीनाञ्च मानानां सदृशासदृशयोग्या-योग्यत्वप्रतिपादनपटुः। सिद्धान्तभेदेऽप्ययननिवृत्तौ प्रत्यक्षंसममण्डलरेखासम्प्रयोगाभ्युदितांशकानाञ्च छायाजल-यन्त्रदृग्गणितसाम्येन प्रतिपादतकुशलः। सूर्य्यादीनाञ्चग्रहाणां शीघ्रमन्दयाम्योत्तरनीचोच्चगतिकारणाभिज्ञःसूर्य्यचन्द्रमसोश्च ग्रहणे ग्रहणादिमोक्षकालदिक्प्रमाण-स्थितिविमर्दवर्णदेशानामनागतग्रहसमागमयुद्धानामा-देष्टा। प्रत्येकग्रहभ्रमणयोजनकक्षाप्रमाणप्रतिविषय-योजनपरिच्छेदकुशलो भूभगणभ्रमणसंस्थानाद्यक्षाबल-म्बकाहर्व्यासचरदलकालराश्युदयच्छायानाडीकरणप्रभृ-तिंषु क्षेत्रकालकरणेष्वभिज्ञो नानाचोद्यप्रश्नभेदोपलब्धि-जनितवाक्सारो निकषसन्तापाभिनिवेशैर्विशुद्धस्य कनक-स्येवाधिकतरममलीकृतस्य शास्त्रस्य वक्ता तन्त्रज्ञो भवति। उक्तञ्च न प्रतिबद्धं गमयति वक्ति न च प्रश्न{??}कमपि पृष्टः। निगदति न च शिष्येभ्यः स कथं शास्त्रार्थविज्ज्ञेयः। ग्रन्थोऽन्यथान्यथार्थः करणं यच्चान्यथा करोत्यबुधः। सपितामहमुपगम्य स्तौति नरो वैशिकेनार्य्याम्। तन्त्रेसुपरिज्ञाते लग्ने छायाम्बुयन्त्रसोवदिते। होरार्थेच सुरूढे नादेष्टुर्भारती बन्ध्या। उक्तञ्चार्य्यविष्णु-गुप्तेन। अप्यर्णवस्य पुरुषः प्रतरन् कदाचिदासादयेद-निलवेगवशेन पारम्। न त्वस्य कालपुरुषाख्यमहा-[Page2500-a+ 38] र्णवस्य गच्छेत् कदाचिदनृषिर्मनसापि{??}म्। होरा-शास्त्रेऽपि राशिहोराद्रेक्काणनवांशकद्वादशभागत्रिंश-द्भागबलाबलपरिग्रहो ग्रहाणां दिक्स्थानकालचेष्टाभि-रनेकप्रकारबलनिर्धारणं प्रकृतिधातुद्रव्यजातिचेष्टादि-परिग्रहो निषेकजन्मकालविस्मापनप्रत्ययादेशसद्योमर-णायुर्दायदशान्तर्दशाष्टवर्गराजयोगचन्द्रयोगद्विग्रहादियो-गानां नाभसादीनाञ्च योगानां फलान्याश्रयभावाबलो-कननिर्याणगत्यनूकानि तात्कालिकप्रश्नशुभाशुभनिमि-त्तानि विवाहादीनाञ्च कर्मणां करणम्। यात्रायाञ्चतिथिदिवसकरणनक्षत्रमुहूर्त्तविलग्नयोगदेहस्पन्दनस्वप्नवि-जयस्नानग्रहयज्ञगणयागाग्निलिङ्गहस्त्यश्वेङ्गितसेनाप्रवाद-चेष्टादिग्रहषाङ्गुण्योपायमङ्गलामङ्गलशकुनसैन्यनिवेशभूम-योऽग्निवर्णा मन्त्रिचरदूताटविकानां यथाकालं प्रयोगाःपरदुर्गलम्भोपायाश्चेत्युक्तं चाचार्यैः। जगति प्रसा-रितमिवालिखितमिव मतौ निषिक्तमिव हृदये। शास्त्रंयस्य सभगणं नादेशा निष्फलास्तस्य। संहितापारगश्चदैवचिन्तको भवति। यत्रैते संहितापदार्थाः। दिनकरा-दीनां ग्रहाणां चारास्तेषु च तेषां प्रकृतिविकृतिप्रमाण-वर्णकिरणद्युतिसंस्थानास्तमनोदयमार्गमार्गान्तरवक्रानुव-क्रर्क्षग्रहसमागमचारादिभिः फलानि नक्षत्रकूर्मविभागेनदेशेष्वगस्तिचारः सप्तर्षिचारो ग्रहभक्तयो नक्षत्रव्यूह-ग्रहशृङ्गाटकग्रहयुद्धग्रहसमागमग्रहवर्षफलगर्भलक्षण-रोहिणीस्वात्याषाढीयोगाः सद्योवर्षकुसुमलतापरि-धिपरिवेषपरिघपवनोल्कादिग्दाहक्षितिचलनसन्ध्यारा-गगन्धर्बनगररजोनिर्घातार्घकाण्डसस्यजन्मेन्द्रध्वजेन्द्र-चापवास्तुविद्याङ्गविद्यावायसविद्यान्तरचक्रमृगचक्राश्व-चक्रवातचक्रप्रासादलक्षणप्रतिमालक्षणप्रतिष्ठापनवृक्षायु-र्वेददगार्गलनीराजनखञ्जनोत्पातशान्तिमयूरचित्रकघृत-कम्बलखङ्गपट्टकृकवाकुकूर्मगोऽजाश्वेभपुरुषस्त्रीलक्षणान्य-न्तःपुरचिन्तापिटकलक्षणोपानच्छेदवस्त्रच्छेदचामरदण्ड-शय्यासनलक्षणरत्नपरीक्षादीपलक्षणदन्तकाष्ठाद्याश्रितानिशुभाशुभानि निमित्तानि सामान्यानि च जगतः प्रति-षुरुषं पार्थिवे च प्रतिक्षणमनन्यकर्माभियुक्तेन दैव-ज्ञेन चिन्तयितव्यानि। न चैकाकिना शक्यन्तेऽहर्निश-मवधारयितुं निमित्तानि। तस्मात् सुभृतेनैव दैवज्ञे-नान्ये तद्विदश्चत्वारो भर्त्तव्याः। तत्रैकेनैन्द्री वाग्नेयीच दिगवलोकयितव्या। याम्या नैरृती चान्येनैवंवारुणींवायव्या, चोत्तरा चैशानी चेति। यस्मादुल्का-[Page2500-b+ 38] पातादीनि निमित्तानि शीघ्रमुपगच्छन्तीति। तेषां चा-कारबर्णस्नेहप्रमाणादिग्रहर्क्षामिघातादिभिः फलानिभवन्ति। उक्तञ्च गर्गेण महर्षिणा
“कृत्स्नाङ्गोपाङ्ग-कुशलं होरागणितनैष्ठिकम्। यो न पूजयते राजा सनाशमुपगच्छति। वनं समाश्रिता येऽपि निर्ममा निःपरि-ग्रहाः। अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम्। अप्रदीपा यथा रात्रिरनादित्यं यथा नभः। तथाऽसां-वत्सरो राजा भ्रमत्यन्ध इवाध्वनि। मुहूर्त्तं तिथि-नक्षत्रमृतवश्चायने तथा। सर्वाण्येवाकुलानि स्युर्न स्यात्सांवत्सरो यदि। तस्माद्राज्ञाभिगन्तव्यो विद्वान् सांवत्-सरोऽग्रणीः। जयं यशः श्रियं भोगान् श्रेयश्च सम-भीप्सता। नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता। चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते। न सांवत्-सरपाठी च नरकेषूपपद्यते। व्रह्मलोकप्रतिष्ठाञ्च लभतेदैवचिन्तकः। ग्रन्थतश्चार्थतश्चैतत्कृत्स्नं जानाति योद्विजः! अग्रभुक् स भवेच्छ्राद्धे पूजितः पङ्क्तिपाबनः। म्लेच्छा हि यवनास्तेषु सम्यक् शास्त्रमिदं स्थितम्। ऋषिवत्तेऽपि पूज्यन्ते किं पुनर्दैवविद्द्विजः! कुहका-वेशपिहितैः कर्णोपश्रुतिहेतुभिः। कृतादेशो न सर्वत्रप्रष्टव्यो न स दैववित्। अविदित्वैव यः शास्त्रं दैवज्ञत्वंप्रपद्यते। स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः। नक्षत्रसूचकोद्दिष्टमुपवासं करोति यः। स ब्रजत्यन्ध-तामिस्रं सार्द्धमृक्षविडम्बिना। नगरद्वारलोष्टस्य यद्वत्स्यादुपयाचितम्। आदेशस्तद्वदज्ञानां यः सत्यः स वि-भाव्यते। सम्पत्त्या योजितादेशस्तद्विच्छिन्नकथाप्रियः!। मत्तः शास्त्रैकदेशेन त्याज्यस्तादृग्महीक्षिता। यस्तुसम्यग्विजानाति होरागणितसंहिताः। अभ्यर्च्यः सनरेन्द्रेण स्वीकर्त्तव्यो जयैषिणा। न तत्सहस्रं करिणांवाजिनां वा चतुर्गुणम्। करोति देशकालज्ञो यदेकोदैवचिन्तकः। दुःस्वप्नदुर्विचिन्तितदुःप्रेक्षितदुःकृतानिकर्माणि। क्षिप्रं प्रयान्ति नाशं शशिनः श्रुत्वा भसं-वादम्। न तथेच्छति भूपतेः पिता जननी वा स्वजनोऽथवा सुहृत्। स्वयशोऽभिविवृद्धये यथा हितमाप्तःसवलस्य दैववित्”। ( सि॰ शि॰ ज्योतिःशास्त्रस्य वेदनेत्र रूपाङ्गत्वप्रतिपा-दनेन तदध्ययने द्विजातिमात्रस्यैवाधिकारं प्रतिपाद्य त-द्वेत्तुर्गणकस्य प्रशंसा दर्शिता यथा
“त्रुट्यादिप्रलयान्तकालकलना मानप्रभेदः क्रमाच्चारश्च[Page2501-a+ 38] द्युसदां द्विधा च गणितं प्रश्नास्तथा सोत्तराः। भूधिष्ण्यग्रहसंस्थितेश्च कथनं यन्त्रादि यत्रोच्यते सिद्धान्तः सउदाहृतोऽत्र गणितस्कन्धप्रवन्धे बुधैः॥ जानन् जातक-संहिताः सगणितस्कन्धैकदेशा अपि ज्योतिःशास्त्रविचारसारचतुरः प्रश्नेष्वकिञ्चित्करः। यः सिद्धान्तमनन्तयुक्ति-विततं नो वेति भित्तौ यथा राजा चित्रमयोऽथवा सुव-टितः काष्ठस्य कण्ठीरवः॥ गर्जत्कुञ्जरवर्जिता नृपच-मूरप्यूर्जिताऽश्वादिकैरुद्यानं च्युतचूतवृक्षमथवा पाथो-विहीनं सरः। योषित् प्रोषितनूतनप्रियतमा यद्वन्नभात्युच्यकैर्ज्योतिःशास्त्रमिदं तथैव विबुधाः सिद्धान्त-हीनं जगुः”॥
“इदानीं ज्योतिःशास्त्रस्य वेदाङ्गत्वंनिरूय वेदाङ्गत्वादवश्यमध्येतव्यं तद्द्विजैरेव नान्यैःशूद्रादिभिरित्येतत्प्रतिपादनार्थं श्लोकचतुष्टयमाह” प्रमि॰
“वेदास्तावद्यज्ञकर्मप्रवृत्ता यज्ञाः प्रोक्तास्ते तु कालाश्रयेण। शास्त्रादस्मात् कालबोधो यतः स्याद्वेदाङ्गत्वं ज्योतिष-स्योक्तमस्मात्॥ शब्दशास्त्रं मुखं ज्यौतिषं चक्षुषीश्रोत्रमुक्तं निरुक्तं च कल्पः करौ। या तु शिक्षास्यवेदस्य सा नासिका पादपद्मद्वयं छन्द आद्यैर्बुधैः। वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्यता चाङ्गमध्येऽस्यतेनोच्यते। संयुतोऽपीतरैः कर्णनासादिभिश्चक्षुषाङ्गेनहीनो न किञ्चित्करः। तस्माद्द्विजैरध्ययनीयमेतत् पुण्यंरहस्यं परमं च तत्त्वम्। यो ज्योतिषं वेत्ति नरः ससम्यग् धर्मार्थकामान् लभते यशश्च” सि॰ शि॰। एवं गणकस्यप्रशंसायां स्थितायाम् सिद्धान्तानभिज्ञस्य नक्षत्रसूचिनोनिन्दाश्रवणाच्च
“वरं चाण्डालसंस्पर्शं कुर्य्यात्तु साधको-त्तमः! तथाप्यस्पृश्यगणकं सर्वदा तु परित्यजेत्” महिष-मर्द्दिनीतन्त्रवाक्यम् नक्षत्रसूचिविषयम्
“चमकारस्य द्वौपुत्रौ गणको वाद्यपूरकः, इत्युक्त सङ्कीर्णवर्णरूपगणकपरत्वेसङ्कोचाभावाच्च तस्याधमशूद्रतया वेदाङ्गज्योतिषेऽनधिकारात्अनधिकृतशास्त्राध्यायिनो निन्दौचित्यात्।
“द्विजातेऽस्तुयथोक्त स्कन्धादित्रयवेत्तृरूपगणकस्य प्रशंस्यत्वात्। न तथा। यथाहपी॰ धा॰
“सिद्धान्तसंहिताहोरारूपस्कन्दत्रयात्मकम्। वेदस्य निर्मलं चक्षुर्ज्योतिःशास्त्रमकल्मषम्। विनैतदखिलंश्रौतं स्मार्तकर्म न सिध्यति। तस्माज्जगद्धितायेदं ब्रह्मणानिर्मितं पुरा। अतएव द्विजैरेतदध्येतव्यं प्रयत्नतः” इति। तत्रैव ज्योतिःशास्त्राध्येतुर्माहात्म्यमाह माण्डव्यः
“एवं-विधस्य श्रुतिनेत्रशास्त्रस्वरूपवेत्तुः खलु दर्शनं वै। निह-न्त्यशेषं कलुषं जनानां षडव्दजं धर्मसुखास्पदं स्यात्” अत्र[Page2501-b+ 38] ज्ञानविशेषेण ज्योतिर्विदः पूज्यतातारतम्यं जीर्णैरभ्य-धायि
“दशदिनकृतपापं हन्ति सिद्धान्तवेत्ता त्रिदिनजनि-तदोषं तन्त्रबिज्ञः स एव। करणभगणवेत्ता हन्त्यहोरा-त्रदोषं जनयति घनमंहश्चात्र नक्षत्रसूची”। नक्षत्रसूचीदैवज्ञो घनं बहु अंहः पापं जनयति। तल्लक्षणं वरा-हसंहितायां
“अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रप-द्यते। स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः” अन्यच्च
“तिथ्युत्पत्तिन्न जानन्ति ग्रहाणां नैव साधनम्। पर-वाक्येन वर्त्तन्ते ते वै नक्षत्रसूचकाः” व्युत्पत्तिस्तु गृहे गृहेगत्वाऽपृष्ट एव नक्षत्राण्यश्विन्यादीनि शुभाशुभफलसूच-कानि सूचयतीति नक्षत्रसूची। वराहः
“नक्षत्रसूच-कोद्दिष्टमुपवासं करोति यः। स व्रजत्यन्धतामिस्रं सा-र्द्धमृक्षविडम्बिना नक्षत्रसूचकं पापं भिषजं शुल्क-जीविनम्। तादृक् पौराणिकादींश्च वाङ्मात्रेणापिनार्चयेत्” अतएव वसिष्टः
“त्रिस्कन्धपारङ्गम एव पूज्यःश्राद्धे सदा भूसुरवृन्दमध्ये। नक्षत्रसूची खलु पापरूपोहेयः सदा सर्वसुधर्मकृत्ये”। वराहोऽपि ग्रन्थतश्चाऽर्थत-श्चैव कृत्स्नं जानाति यो द्विजः। अग्रभुक् स भवे-च्छ्राद्धे पूजितः पङ्क्तिपावनः। नासांवत्सरिके देशेवस्तव्यं भूतिमिच्छता। चक्षुर्भूतोऽपि यत्रैव पापं तत्रन विद्यते। मुहूर्त्तं तिथिनक्षत्रमृतवश्चायनानि च। सर्वाण्येवाकुलानि स्पुर्न स्यात् सांवत्सरो यदि”। अतएव यद्धर्मशास्त्रे सुमन्तुः
“तस्करकितवेत्यादिना महतागद्येन यत्
“सांवत्सरिकोऽपाङ्क्तेयः” इत्याह यच्च महा-भारतेऽपि
“कितवो भ्रूणहा यक्ष्मीत्यादिपद्यषट्कमध्येक्रुशीलवो देवलको नक्षत्रैर्यश्च जीवति। एतानिहविजानीयाद्ब्राह्मणान् पङ्क्तिदूषकानित्युक्तं तन्नक्षत्र-सूचकज्योतिर्विद्विषयं यदाह कश्यपः
“दारर्त्विगृभ्रूण-हन्तॄंश्च व्यङ्गान्नक्षत्रसूचकान्। वर्ज्जयेत् ब्राह्मणानेतान्सर्वकर्मसु यत्नतः” इति
“नक्षत्रसूचकश्चैव पर्वकारश्च ग-र्हितः” इति ब्रह्मपुराणेऽप्युक्तम् मनुः
“तिथिं पक्षस्यन ब्रूयान्न नक्षत्राणि निर्दिशेत्” इत्याह स्मअपृष्ट इति शेषः। यमोऽपि
“नक्षत्रतिथिपुण्याहान्मु-हूर्त्तान् मङ्गलानि च। न निर्दिशन्ति ये विप्रा-स्तैर्भुक्तं ह्यक्षयं भवेदिति” वसिष्ठवाक्यन्तु
“प्राग-भिहितम् महाप्रयोजनं त्वेतच्छास्त्रस्य सम्यग्ज्ञा-नाद्ब्रह्म सायुज्यमिति” तदुक्तं गर्गेण
“ज्योतिश्चक्रतु लोकस्य सर्वस्योक्तं शुभाऽशुभम्। ज्योतिर्ज्ञानं च यो[Page2502-a+ 38] वेद स याति परमां गतिम्”। गतिं ब्रह्मसायुज्यमितिसूर्य्यसिद्धान्तेऽपि
“दिव्यञ्चक्षुर्ग्रहर्क्षाणां दर्शितं ज्ञान-मुत्तमम्। विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शाश्व-तम्” वराहसंहितायामपि
“न साम्बत्सरपाठी च नरकेपरिपच्यते। ब्रह्मलोके प्रतिष्ठाञ्च लभते दैवचिन्तक” इतिगणकस्य पत्नी ङीष् गणकी तत्पत्न्यां जटा॰।
“तस्मिन्मग्नं गणक! कथय क्षिप्रमम्भः प्रमाणम्
“गणक! पव-नवेगादेकदेशे स भग्नः” लीला॰।
“गणकचक्रचूडामणिः” सि॰ शि॰।
“चर्म्मकारस्य द्वौ पुत्रौ गणको वाद्यपूरकः” इत्युक्ते
३ सङ्कीर्णजातिभेदे प्रजापतिपुत्रे तारापुञ्जा-त्मके अष्टसंख्यके
४ केतुभेदे
“तारापुञ्जनिकाशा गणकानाम प्रजापतेरष्टौ” वृह॰ सं॰
११ अ॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणक¦ m. (-कः)
1. An astrologer, a calculator of nativities. &c.
2. An arithmetician. f. (-की) The wife of an astrologer. E. गण् to calcul- ate, affix क्वुन्, fem. affix ङीष्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणक [gaṇaka], a. [गण्-ण्वुल्] (-णिका f.) Bought for a large sum.
कः An arithmetician.
An astrologer; Vāj.3.2; रे पान्थ पुस्तकधर क्षणमत्र तिष्ठ वैद्योसि किं गणकशास्त्र- विशारदोसि । केनौषधेन मम पश्यति भर्तुरम्बा किं वा गमिष्यति पतिः सुचिरप्रवासी ॥ Subhāṣ.
An assemblage of eight stars; तारापुञ्जनिकाशा गणका नाम प्रजापतेरष्टौ Bri. S.11.25. -की The wife of an astrologer.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणक mfn. bought for a large sum Pa1n2. 5-1 , 22 Ka1s3.
गणक m. one who reckons , arithmetician MBh. ii , 206 ; xv , 417
गणक m. a calculator of nativities , astrologer VS. xxx , 20 R. i , 12 , 7 Katha1s.
गणक m. pl. N. of a collection of 8 stars VarBr2S. xi , 25
गणक m. a female elephant L.
गणक m. Jasminum auriculatum L.
गणक m. Aeschynomene Sesban L.
गणक m. = गणिका-रिकाSee. L.
गणक m. counting , enumerating W.
गणक m. apprehension W.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Gaṇaka, ‘an astrologer,’ occurs in the list of victims at the Puruṣamedha, or human sacrifice, in the Yajurveda.[१] See also Nakṣatradarśa.
- ↑ Vājasaneyi Saṃhitā, xxx. 20;
Taittirīya Brāhmaṇa, iii. 4, 15, 1. Cf. Weber. Indische Streifen, 1, 78.