गण्डः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डः, पुं, (गडि आस्यैकदेशे + अच् । यद्बा गम गतौ + “ञमन्ताड्डः ।” उणां । १ । ११३ । इति डः ।) हस्तिकपोलः । (यथा, पञ्चतन्त्रे । १ । ३५६ । “प्रमाणाभ्यधिकस्यापि गण्डश्याममदच्युतेः । पदं मूर्द्ध्नि समाधत्ते केशरी मत्तदन्तिनः ॥”) तत्पर्य्यायः । कटः २ । इत्यमरः । २ । ८ । ३७ ॥ करटः ३ । इति तट्टीका ॥ कटकः ४ हस्ति- गण्डकः ५ । इति शब्दरत्नावली ॥ कपोलः । इत्यमरः । २ । ६ । ९० ॥ गाल इति भाषा ॥ (यथा, कुमारे । ७ । ८२ । “तदीषदार्द्रारुणगण्डलेखं उच्छासिकालाञ्जनरागमक्ष्णोः ॥”) खड् गी । वीथ्यङ्गम् । पिटकः । चिह्नम् । वीरः । हयभूषणम् । वुद्वुदः । इति मेदिनी ॥ स्फोटकः । ग्रन्थिः । इत्यमरटीकायां रमानाथः ॥ विष्कुम्भादिसप्तविंशतियोगान्तर्गतदशमयोगः । (यथा, ज्योतिषवचने । “गण्डो वृद्बिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा ॥”) तत्र जातफलम् । “स्वकार्य्यकर्त्ता परकार्य्यहर्त्ता गण्डोद्भवः स्यादतिगण्डवाक्यः । अत्यन्तधूर्त्तः पुरुषः कुरूपः सुहृद्गणानामतितापदाता ॥” इति कोष्ठीप्रदीपः ॥ * ॥ दोषजनकोऽश्विन्यादिनक्षत्राणां भागविशेषः । यथा, -- “अश्विनीमघमूलानां तिस्रो गण्डाद्यनाडिकाः । अन्त्याः पौष्णोरगेन्द्राणां पञ्चैव जवना जगुः ॥ मूलेन्द्रयोर्दिवा गण्डो निशायां पितृसर्पयोः । सन्ध्याद्वये तथा ज्ञेयो रेवतीतुरगर्क्षयोः ॥” * ॥ तत्र जातस्य दोषो यथा, -- “सन्ध्यारात्रिदिवाभागे गण्डयोगोद्भवः शिशुः । आत्मानं मातरं तातं विनिहन्ति यथाक्रमम् ॥” तस्य शान्तिर्यथा, -- “सर्व्वेषां गण्डजातानां परित्यागो विधीयते । तातेनादर्शनं वापि यावत् पाण्मासिको भवेत् ॥ कुङ्कुमं चन्दनं कुष्ठं गोरोचनमथापि वा । घृतैरेवान्वितं कृत्वा चतुर्भिः कलसैर्ब्बुधः ॥ सहस्राक्षेण मन्त्रेण बालकं स्नापयेत्ततः । पितृयुक्तं दिवाजातं मातृयुक्तञ्च रात्रिजम् ॥ स्नापयेत् पितृमातृभ्यां सन्ध्ययोरुभयोरपि । कांस्यपात्रं घृतैः पूर्णं गण्डदोषोपशान्तये ॥ दद्याद्धेनुं हिरण्यञ्च ग्रहांश्चापि प्रपूजयेत् । मूलायाः प्रथमे पादे पितुर्व्वपुर्व्विनश्यति ॥ द्वितीये नियतां पीडां मातुः कुर्य्यात् पितुस्तथा । तृतीये धननाशाय चतुर्थे सर्व्वसम्पदः ॥ व्यत्ययेन फलं ज्ञेयमश्लेषास्वपि पूर्ब्बवत् । वल्मीकमृत्तिकां नद्यास्तूभयतटमृत्तिकाम् ॥ गोविषाणमृदञ्चापि दन्तिमृदञ्च निःक्षिपेत् । तीर्थाम्भःपञ्चगव्येन स्नानं मातुः पितुः शिशोः ॥ दिवा जाता तु या कन्या निशि जातस्तु यः पुमान् । नोभयोर्गण्डदोषः स्यात् नाचलो हन्ति पर्व्वतम् ॥” इति ज्योतिषतत्त्वम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डः [gaṇḍḥ], 1 The cheek, the whole side of the face including the temples; गण्डाभोगे पुलकपटलम् Māl.2.5; तदीष- दार्द्रारुणगण्डलेखम् Ku.7.82; Me.26,93; Amaru.83; Ṛs.4.6;6.1; Ś.6.18; Śi.12.54.

An elephant's temple; गण्डोड्डीनालिमाला˚ Māl.1.1.

A bubble.

A boil, tumour, swelling, pimple; अयमपरो गण्डस्योपरि विस्फोटः Mu.5; तदा गण्डस्योपरि पिटिका संवृत्ता Ś.2.

Goitre and other excrescences of the neck.

A joint, knot.

A mark, spot; गण्डोज्ज्वलामुज्ज्वलनाभिचक्रया Śi.12.8.

A rhinoceros.

The bladder.

A hero, warrior.

Part of a horse's trappings, a stud or button fixed as an ornament upon the harness.

An unexpected combination of words consisting in putting one speech immediately after another, so as to be syntactically connected; see वीथि; e. g. राक्षसः- अपि नाम दुरात्मा चाणक्यबटुः । दौवारिकः जयतु । -रा˚ -अति- संधातुं शक्यः स्यात् । दौ˚ -अमात्यः । Mu.4; so किमस्या न प्रेयो यदि पुनरसह्यस्तु विरहः. दौ˚ -देव उपस्थितः U.1.

The tenth yoga or one of the twenty-seven portions of a circle on the plane of the ecliptic.

An astronomical period. -Comp. -अङ्गः a rhinoceros. -उपधानम् a pillow; मृदुगण्डोपधानानि शयनानि सुखानि च Suśr. -कुसुमम् the juice that exudes from the elephant's temples during rut, ichor.

कूपः a well on the peak or summit of a mountain.

Upper region or table-land of a mountain. -ग्रामः any large or considerable village.

देशः, प्रदेशः, स्थलम्, पाली, पिण्डः the cheek, the temples of an elephant.

temple-region (in general); कण्डूलद्विपगण्डपिण्डकषणम् U.2.9; Māl.9.31. -फलकम् a broad cheek; धृतमुग्धगण्डफलकैर्विबभुर्विकसद्भिरास्यकमलैः प्रमदाः Śi.9.47. -भित्तिः f.

the opening in the temples of an elephant from which ichor exudes during rut.

'a wall-like cheek', an excellent i. e. broad and expansive cheek; निर्धौतदानामलगण्डभित्तिः (गजः) R.5.43 (where Malli. says प्रशस्तौ गण्डौ गण्डभित्ति, see et seq.); 12.12.-भेदः a thief; गण़्डभेददास्याः शीलं जानन्नापि आत्मनो भोजनविस्रम्भेण छलितो$स्मि Avimāraka 2. -मालः, -माला inflammation of the glands of the neck. -मूर्ख a. exceedingly foolish, very stupid. -शिला any large rock; दृष्टो$ङ्गुष्ठशिरोमात्रः क्षणाद्गण्डशिलासमः Bhāg.3.13.22.

शैलः a huge rock thrown down by an earthquake or storm; Ki.7.37; cf. also गण्डशैलैः कारवेल्लैर्लोहकण्टकवेष्टितैः । (अचलः परिपूर्णो$यम् ...) Parṇāl 4.75.

the forehead; गण्डशैलः कपोले च द्रोणपाषा- णभेदयोः । Nm.; किं पुत्रि गण्डशैलभ्रमेण नवनीरदेषु निद्रासि । Āryā Saptaśatī. -साह्वया N. of a river, also called गण्डकी.

स्थलम्, स्थली the cheek; गण्डस्थलेषु मदवारिषु Pt.1.123; Ś. Til.7; गण्डस्थलीः प्रोषितपत्रलेखाः R.6.72; Amaru.82.

temples of an elephant.

"https://sa.wiktionary.org/w/index.php?title=गण्डः&oldid=498801" इत्यस्माद् प्रतिप्राप्तम्