गरुडः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • गरुडः, उत्क्रोशः, श्येनः।
गरुडः

नाम[सम्पाद्यताम्]

  • गरुडः नाम पक्षिः, पक्षिराजः।

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणम्[सम्पाद्यताम्]

  • दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा। वराहमकराभ्यां वा सूच्या वा गरुडेन वा॥
  • सूक्ष्ममुखपश्चाद्भागः पृथुमध्यो वराहव्यूहः। एष एव पृथुतरमध्यो गरुडव्यूहः इति कुल्लूकभट्टः।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरुडः, पुं, (गरुद्भ्यां पक्षाभ्यां डयते उड्डयते । इति गरुत् + डी + डः । पृषोदरात् तलोपे साधुः । यद्वा, “गिर उडच् ।” उणां ४ । १५५ । इति उडच् ।) स्वनामख्यातपक्षी । तत्- पर्य्यायः । गरुत्मान् २ तार्क्ष्यः ३ वैनतेयः ४ खगेश्वरः ५ नागान्तकः ६ विष्णु रथः ७ सुपर्णः ८ पन्नगाशनः ९ । इत्यमरः । २ । २ । ३२ ॥ महा- वीरः १० पक्षिसिंहः ११ उरगाशनः १२ । इति जटाधरः ॥ शाल्मली १३ हरिवाहनः १४ अमृताहरणः १५ नागाशनः १६ । इति हारा- वली ॥ शाल्मलिस्थः १७ खगेन्द्रः १८ भुजगा- न्तकः १९ तरस्वी २० तार्क्ष्यनायकः २१ । इति राजनिर्घण्टः ॥ * ॥ तस्योत्पत्तिकारणं यथा, -- “यजतः पुत्त्रकामस्य कश्यपस्य प्रजापतेः । साहाय्यमृषयो देवा गन्धर्व्वाश्च ददुः किल ॥ तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह । मुनयो वालिखिल्याश्च ये चान्ये देवतागणाः ॥ शक्रस्तु वीर्य्यसदृशमिष्मभारं गिरिप्रभम् । समुत्क्षिप्यानयामास नातिकृच्छ्रादिव प्रभुः ॥ अथापश्यदृषीन् ह्रस्वानङ्गुष्ठोदरवर्ष्मणः । पलाशवृन्तिकामेकां सहितान् वहतः पथि ॥ तान् सर्व्वान् विस्मयाविष्टो वीर्य्योन्मत्तः पुरन्दरः । अवहस्याभ्ययाच्छीघ्रं लङ्घयित्वावमन्य च ॥ तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः । आरेभिरे महत् कर्म्म तदा शत्रुभयङ्करम् ॥ कामवीर्य्यः कामगमो देवराजभयप्रदः । इन्द्रोऽन्यो सर्व्वदेवानां भवेदिति यतव्रताः ॥ (व्यूहविशेषः । यथा, मनुः । ७ । १८७ । “वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥” “सूक्ष्ममुखपश्चाद्भागः पृथुमध्यो वराहव्यूहः । एष एवपृथुतरमध्यो गरुडव्यूहः ।” इति कुल्लूकभट्टः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरुडः [garuḍḥ], [गरुद्भयां डयते, डी-ड पृषो˚ तलोपः, गॄ-उडच् Uṇ 4. 166.]

N. of the king of birds. [He is a son of Kaśyapa by his wife Vinatā. He is the chief of the feathered race, an implacable enemy of serpents, and elder brother of Aruṇa. In a dispute between his mother and Kadrū, her rival, about the colour of उचैःश्रवस् Kadrū defeated Vinatā, and, in accordance with the conditions of the wager, made her her slave. Garuḍa brought down the heavenly beverage (Amṛita) to purchase her freedom, not, however, without a hard struggle with Indra for the same. Vinatā was then released; but the Amṛita was taken away by Indra from the serpents. Garuḍa is represented as the vehicle of Visnu, and as having a white face, an aquiline nose, red wings and a golden body.]

A building or architecture (such as चिति) shaped like Garuḍa; गरुडो रुक्मपक्षो वै त्रिगुणो$ष्टादशात्मकः Rām.1.14. 29.

N. of a particular military array. -Comp. -अग्रजः an epithet of Aruṇa, the charioteer of the sun; विभिन्नवर्णा गरुडाग्रजेन Śi.4.14. -अङ्कः an epithet of Viṣṇu. -अङ्कितम्, -अश्मन् m. -उत्तीर्णम् an emerald. -ध्वजः an epithet of Viṣṇu; समाहितमतिश्चैव तुष्टाव गरुडध्वजम् V. P. -व्यूहः a particular military array.

"https://sa.wiktionary.org/w/index.php?title=गरुडः&oldid=499031" इत्यस्माद् प्रतिप्राप्तम्