गिरिः
संस्कृतम्
[सम्पाद्यताम्]- गिरिः, पर्वतः, शिखरः, शैलः, उपशैलः, शैलपादः, समुच्छ्रयः।
नाम
[सम्पाद्यताम्]- गिरिः नाम पर्वतः, शिखरः।
अनुवादाः
[सम्पाद्यताम्]- आङ्ग्लम्-Hill
- मलयालम्-
- हिन्दि-पर्वत
- बङ्गाळि-() ()
- फ़्रॆन्च्- (fr)
- रूसीय्- (ru) ()
- जेर्मन्-
- स्पानिष्- (es)
- तेलुगु-పర్వతము
- तमिल्-
- पोलिष्- (pl)
- कन्नड- ಗಿರಿ
उदाहरणानि
[सम्पाद्यताम्]- गिरिः पूज्येऽक्षिरुजि कन्दुके। शैले गैरेयके गीर्णावपि।
- एष पर्वतसंकाशो हनुमान्मारुतात्मजः।
तितीर्षति महावेगः समुद्रं मकरालयम्॥ सुन्दकाण्डः॥
- हिमालयगिरिः, तिरुमलगिरिः, मैनाकपर्वतः, आरावळीपर्वतः इत्यादि।
- आन्ध्रप्रदेशे हैदराबाद् नगरे गोल्कोण्ड अस्ति।
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गिरिः, पुं (गिरति धारयति पृथ्वीं ग्रियते स्तूयते गुरुत्वाद्वा । “कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च ।” उणां । ४ । १४२ । इति इः किच्च ।) पर्व्वतः । इत्यमरः । २ । ३ । १ ॥ (पर्व्वतानां अष्टावेव पूजनीयाः कुलाचलत्वात् । यदुक्तम्, -- “मेरुमन्दरकैलासमलया गन्धमादनः । महेन्द्रः श्रीपर्व्वतश्च हेमकूटस्तथैव च । अष्टावेते तु सम्पूज्या गिरयः पूर्ब्बदिक् क्रमात् ॥” इति शब्दार्थचिन्तामणिः ॥) गेण्डुकः । इति हेमचन्द्रः । ३ । ३५२ ॥ चक्षू- रोगविशेषः । इति मेदिनी । रे । २३ ॥ पार- दस्य दोषविशेषः । यथा, रत्नावल्याम् । “नागो वङ्गो मलो वह्निश्चाञ्चल्यञ्च विषं गिरिः । असह्याग्निर्महादोषा निसर्गात् पारदे स्थिताः ॥” सन्न्यासिनां पद्धतिविशेषश्च ॥ (तत्र प्रथमत- स्तान्त्रिकगिरिसन्न्यासिलक्षणं यथा, -- “सदोर्द्ध्वबाहुर्यो वीरो मुक्तकेशो दिगम्बरः । सर्व्वत्र समभावेग भावयेद्यो नरोत्तमः । इष्टदेवीधिया नारीं स गिरिः परिकीर्त्तितः ॥” इति तन्त्रशास्त्रम् ॥ शङ्कराचार्य्यकृतदशनामब्रह्मचारिपरिव्राज- कानामन्यतमः । तेषां दशनामानि यथा, -- “तीर्थाश्रमवनारण्यगिरिपर्व्वतसागराः । पुरिः सरस्वती चैव भारती च तथा दश ॥” तत्र गिरेर्लक्षणम् । यथा, प्राणतोषिण्यां अव- धूतप्रकरणे । “वासो गिरिवरे नित्यं गीताभ्यासे हि तत्परः । गम्भीराचलबुद्धिश्च गिरिनामा स उच्यते ॥” यदुवंशीयश्वफल्कस्य द्वादशपुत्त्राणामन्यतमः । यथा, भागवते । ९ । २४ । १५--१६ । “अक्रूरप्रमुखा आसन् पुत्त्रा द्वादशविशुताः । आसङ्गः सारमेयश्च मृदुरो मृदुविद्गिरिः ॥”)
गिरिः, स्त्री, (गॄ + भावे इः किच्च ।) निगरणम् । इत्यमरः । ३ । २ । ११ ॥ गेला इति भाषा ॥ बालमूषिका । इत्यमरटीकायां रमानाथः ॥ पूज्ये त्रि । इति मेदिनी । रे । २४ ॥