गुग्गुलु
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुग्गुलुः, पुं, (गुज्यतेऽनेनेति । गुज शब्दे + क्विप् । गुक् रोगस्तस्मात् गुडतीति । गुड रक्षणे + बाहुलकात् कुः । डलयोरैक्यात् डस्य लत्वम् ।) रक्तशोभाञ्जनवृक्षः । इति शब्दचन्द्रिका ॥ स्वनामख्यातवृक्षः । स तु गोमूत्रोद्भवः । यथा, -- “गोरोचनाया मङ्गल्याः संजाताः सर्व्वकामिकाः । गुग्गुलुस्तु ततो जातो गोमूत्राच्छुभदर्शनः ॥” इति वह्निपुराणे वैष्णवधर्म्मे शुद्धिव्रतनामाध्यायः ॥ अस्य निर्यासः सुगन्धिद्रव्यम् । तत्पर्य्यायः । कुम्भम् २ उलूखलकम् ३ कौशिकः ४ पुरः ५ ॥ इत्यमरः । २ । ४ । ३४ ॥ कुम्भोलुः ६ खलकम् ७ कुम्भोलूखलकम् ८ गुग्गुलः ९ । इति भरतः ॥ जटायुः १० कालनिर्यासः ११ देवधूपः १२ सर्व्वसहः १३ महिषाक्षः १४ पलङ्कषा १५ । इति रत्नमाला ॥ यवनद्बिष्टः १६ भवाभीष्टः १७ निशाटकः १८ जटालः १९ पुटः २० भूतहरः २१ शिवः २२ शाम्भवः २३ दुर्गः २४ यातुघ्नः २५ महिषाक्षकः २६ देवेष्टः २७ मरुदिष्टः २८ रक्षोहा २९ रूक्षगन्धकः ३० दिव्यम् ३१ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कफमारुतकासकृमिवातोदरक्लेदशोफार्शोनाशि- त्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥ दीप- नत्वम् । तीक्ष्णत्वम् । कषायत्वम् । मेदःकुष्ठ- नाशित्वम् । पित्तदाहित्वम् । लघुत्वञ्च । इति राजवल्लभः ॥ विशदत्वम् । सारकत्वम् । रूक्ष- त्वम् । पाके कटुत्वम् । भग्नसन्धानकारित्वम् । वृष्यत्वम् । सूक्ष्मत्वम् । स्वर्य्यत्वम् । पिच्छिलत्वम् । बलकारित्वम् । व्रणमेहाश्मवातामवातपिडका- ग्रन्थिगण्डमालानाशित्वञ्च ॥ * ॥ “माधुर्य्याच्छमयेद्वातं कषायत्वाच्च पित्तहा । तिक्तत्वात् कफजित्तेन गुग्गुलुः सर्व्वदोषहा ॥” स तु पञ्चधा यथा, -- “महिषाक्षो महानीलः कुमुदः पद्म इत्यपि । हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्चजातयः ॥” तेषां रूपाणि यथा, -- “भृङ्गाञ्जनसवर्णस्तु महिषाक्ष इति स्मृतः । महानीलस्तु विज्ञेयः स्वनामसमलक्षणः ॥ कुमुदः कुमुदाभः स्यात् पद्मो माणिक्यसन्निभः । हिरण्याख्यस्तु हेमाभः पञ्चानां लिङ्गमीरितम् ॥” एषां प्राणिविशेषे प्रयोगो यथा, -- “महिषाक्षमहानीलौ गजेन्द्राणां हितावुभौ । हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ ॥ विशेषेण मनुष्याणां कनकः परिकीर्त्तितः । कदाचिन्महिषाक्षस्तु मतः कैश्चिन्नृणामपि ॥” नूतनगुग्गुलो रूपं यथा, -- “स्निग्धकाञ्चनसङ्काशः पक्वजम्बूफलोपमः । नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः ॥” पुरातनस्य रूपं यथा । “शुष्को दुर्गन्धिकश्चैव त्यक्तप्रकृतवर्णकः । पुराणः स तु विज्ञेयो गुग्गुलुर्व्वीर्य्यवर्जितः ॥” इति भावप्रकाशः ॥ * ॥ अस्य स्थानविशेषे जन्मादिकथनम् । यथा, -- “जायन्ते पुरपादपा मरुभुवि ग्रीष्मेऽर्कसन्तापिताः शीतार्त्ताः शिशिरेऽपि गुग्गुलुरसं मुञ्चन्ति ते पञ्चधा । हेमाभं महिषाक्षतुल्यमपरं सत्पद्मरागोपमं भृङ्गाभं कुमुदद्युतिञ्च विधिना ग्राह्या परीक्षा ततः ॥ वह्नौ ज्वलन्ति तपने विलयं प्रयान्ति क्लिद्यन्ति कोष्णसलिले पयसः समानाः । ग्राह्याः शुभाः परिहरेच्चिरकालजाता- नङ्गारवर्णसमपूयविगन्धवर्णान् ॥” इति प्रयोगामृतम् ॥ पक्वस्यास्य पूर्णवीर्य्यत्वं मासत्रयपर्य्यन्तं तिष्ठति । इति परिभाषा ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुग्गुलु पुं।
गुग्गुलुवृक्षः
समानार्थक:कुम्भ,उलूखलक,कौशिक,गुग्गुलु,पुर
2।4।34।1।4
कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः। शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुग्गु(ल)लु¦ पु॰ गुज--क्विप् गुक् व्याधिः ततो गुडति रक्षतिगुड--क कु वा डलवोरेकत्वम्। स्वनामख्याते वृक्षभेदे,अमरः। भरतस्तु इममदन्तमप्याह स्म।
२ रक्तशोभा-ञ्जनष्ठक्षे शब्दच॰। (
“श्रीवासकरसगुग्गुलुभल्लातककुन्दुरूक्षसर्जरसैः”
“ला-क्षाकुन्दुरुगुग्गुलुगृहधूमकपित्थविल्वमध्यानि” वृ॰ स॰
५७ अ॰। तस्य पर्य्यायमदगुणादि भावप्र॰ उक्तं यथा(
“गुग्गुलु र्देवधूपश्च जटायुः कौशिकःपुरः। कुम्भा-[Page2595-b+ 38] लु खलकं क्लीवे महिषाक्षः पलङ्कषः। महिषाक्ष
१ महानीलः
२ कुमुदः
३ पद्म
४ इत्यपि। हिरण्यः
५ पञ्चमोज्ञेयो गुग्गुलोः पञ्च जातयः। भृङ्गाञ्जनसवर्णस्तुमहिषाक्ष इति स्मृतः। गहानीलस्तु विज्ञेयः स्वनाम-समलक्षणः। कुमुदः कुमुदागः स्यात् पद्मो माणिक्य-सन्निभः। हिरण्याख्यस्तु हेमाभः पञ्चानां लिङ्गमीरितम्। महिषाक्षो महानीलो गजेन्द्राणां हितावुभौ। हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ। विशेषेण मनुष्याणां कनकः परिकीर्त्तितः। कदा-चिन्महिषाक्षश्च मतः कैश्चिन्नृणामपि। गुग्गुलुर्विशदस्तिक्तो वीर्य्योष्णः पित्तलः सरः। कषायः कटुकःपाके कटू रूक्षो लघुः परः। भग्नसन्धानकृद् वृष्यःसूक्ष्मः स्वर्यो रसायनः। दीपनः पिच्छिलो बल्यःकफवातव्रणापचीः। मेदोमेहाश्मवातांश्च क्लेदकुष्ठाममारुतान्। पिडिकाग्रन्थिशोफार्शःगण्डमालाकृमीन् जयेत्। माधुर्य्याच्छमयेद्वातं कषायत्वाच्च पि-त्तहा। तिक्तत्वात् कफजित्तेन गुग्गुलुः सर्व्वदोषहा। स नवो वृंहणो वृष्यः पुराणस्त्वतिलेखनः। स्निग्धःकाञ्चनसङ्काशः पक्वजम्बूफलोपमः। नूतनो गु-ग्गुलुः प्रोक्तः सुगन्धिर्य्यस्तु पिच्छिलः। शुष्को दुर्गन्ध-कश्चैव त्यक्तप्रकृतिवर्णकः। पुराणः स तु विज्ञेयःगुग्गुलुर्वीर्य्यवर्ज्जितः। अम्लं तीक्ष्णामजीर्णञ्चव्यवायं श्रममातपम्। मद्यं रोषन्त्यजेत् सम्यग्गुणाथीपुरसेवकः” पुरः गुग्गुलुः। अस्य स्थानविशेषे जन्मादिकथनं यथा
“जायन्ते पुर-पादपा मरुभुवि ग्रीष्मेऽर्कसन्तापिताः शीतर्कौ शिशिरे-ऽपि गुग्गुलुरसं मुञ्चन्ति ते पञ्चधा। हेमाभं महिषा-क्षितुल्यमपरं सत् पद्मरागोपमं भृङ्गाभं कुमुदद्युति-ञ्चे विधिना ग्राह्या परीक्षा ततः। वह्नौ ज्वलन्ति त-पने विलयं प्रयान्ति क्लिद्यन्ति कोष्णसलिले पयसः स-मानाः। ग्राह्या शुभाः परिहरेच्चिरकालजातान् अङ्गार-वर्णसमपूयबिगन्धवर्णानिति” प्रयोगामृतम्। अस्य वह्नि-पु॰ उत्पश्विस्थानमुक्तम् यथा(
“गोरचना या सङ्गल्या संजाता सर्वकामिका। गुग्गु-लुस्तु ततो जातो गोमूत्राच्छुभदर्शनः”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुग्गुलु¦ m. (-लुः)
1. A fragrant gum resin, Bdellium or the exudation of the Amyris agallochum.
2. A species of morunga, (M. hyperanthe- ra.) E. गुज् (here said to mean) disease, and गुड to perfume, affixes क and उ, ड change to ल; also गुग्गुल।
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुग्गुलु n. (= गुल्ग्)bdellium or the exudation of Amyris Agallochum (a fragrant gum resin , used as a perfume and medicament) AV. (called सैन्धवor समुद्रिय, " obtained near rivers or the sea " , xix , 38 , 2 ) Kaus3. A1s3vS3r. xi , 6 , 3
गुग्गुलु m. id. Ya1jn5. i , 278 MBh. xiii Sus3r. Bhpr.
गुग्गुलु m. = -द्रुL.
गुग्गुलु f( ऊस्). ( Pa1n2. 4-1 , 71 Pat. )N. of an अप्सरस्AV. iv , 37 , 3 (See. कण-, गौग्गुलवand गौल्ग्.)
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Guggulu, ‘bdellium,’ is referred to in one passage of the Atharvaveda[१] as produced by the Sindhu[२] and by the sea. The latter source presumably alludes, as Zimmer[३] assumes, to seaborne trade, bdellium being the gum of a tree, not a product of the sea. It is, however, possible that in this passage some other substance may be meant. The word in this form also occurs elsewhere in the Atharvaveda[४] and later;[५] it is often[६] mentioned in the older form of Gulgulu, between which and Guggulu the manuscripts constantly vary
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुग्गुलु पु.
गूगुल, एक सगुन्धियुक्त गोंद, जिसका प्रयोग सुगन्धि- द्रव्य एवं मरहम के रूप में किया जाता है, का.श्रौ.सू. 5.4.15 (वरुण प्रघास में उत्तरवेदि की नाभि पर स्थापित); द्रष्टव्य-श्रौ.को. (सं.) II.15.
- ↑ xix. 38, 2.
- ↑ Or ‘from streams’ (saindhava), as Roth, St. Petersburg Dictionary, s.v. guggulu, suggests.
- ↑ Altindisches Leben, 28.
- ↑ ii. 36, 7.
- ↑ Aitareya Brāhmaṇa, i. 28.
- ↑ Taittirīya Saṃhitā, vi. 2, 8, 6;
Maitrāyaṇī Saṃhitā, iii. 8, 5;
Pañcaviṃśa Brāhmaṇa, xxiv. 13;
Śatapatha Brāhmaṇa, iii. 5, 2, 16.
Cf. Bloomfield, Hymns of the Atharvaveda, 675;
Lassen, Indische Alterthumskunde, 12, 339;
Whitney, Translation of the Atharvaveda, 957, 958.