घोषणा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घोषणा, स्त्री, (घुषिर् विशब्दने + “ण्यासश्रन्थो युच् ।” ३ । ३ । १०७ । इति युच् ।) उच्चैः- शब्दः । लोकविज्ञापनायोच्चैःशब्दितम् । (यथा, कथासरित्सागरे । २४ । ५० । “गच्छ भ्रमय कृत्स्नेऽत्र पुरे पटहघोषणाम् ॥”) तत्पर्य्यायः । उच्चैर्घुष्टम् २ । इत्यमरः । १ । ६ । १२ ॥ निघुष्टम् ३ घुष्टघोषणम् ४ । इति शब्दरत्ना- वली ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घोषणा स्त्री।
उच्चैः_शब्दनम्
समानार्थक:उच्चैर्घुष्ट,घोषणा
1।6।12।1।3
आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घृष्टं तु घोषणा। काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः॥
पदार्थ-विभागः : , गुणः, शब्दः
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घोषणा f. id. Mr2icch. x , 12 and 25 Pan5cat. Das3. Katha1s.