चैत्र

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

चैत्रम्, क्ली, (चीयन्ते जीवाः स्थानात् स्थानान्तर- मनेनेति । चि + बाहुलकात् करणे त्रन् । ततः स्वार्थे अण् ।) मृतम् । देवकुलम् । इति मेदिनी । रे, ३७ ॥ देउल इति भाषा ॥ (यज्ञ- स्थानम् । यथा, महाभारते । १ । १०९ । १३ । “भीष्मेण धर्म्मतो राजन् ! सर्व्वतः परिरक्षिते । बभूव रमणीयश्च चैत्रयूपशताङ्कितः ॥”)

चैत्रः, पुं, (चित्रे विचित्रे कार्य्यादौ साधुः । चित्र + अण् ।) बुद्धभिक्षुकः । इति त्रिकाण्डशेषः ॥ वर्षपर्व्वतविशेषः । इति मेदिनी । रे, ३७ ॥ (यथा, हारावल्याम् । “हिमवान् हेमकूटश्च निषधो मेरुरेव च । चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्व्वताः ॥” चित्रायां भवः । चित्रा + अण् ।) चित्रा- गर्भजो बुधपुत्त्रः । स सप्तद्वीपाधिपतिः सुरथ- राजपितामहः । इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ (चित्रानक्षत्रयुक्ता पौर्णमासी यत्रसः । चित्रा + “विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः ।” ४ । २ । २३ । इति पक्षे अण् ।) मासभेदः । स तु सौरचान्द्रभेदेन द्विविधः । तत्र मीन- राशिस्थरविकः सौरः मीनस्थरविप्रारब्धशुक्ल- प्रतिपदादिदर्शान्तश्चान्द्रः । इति मलमास- तत्त्वम् ॥ तत्पर्य्यायः । चैत्रिकः २ मधुः ३ । इत्यमरः । १ । ४ । १५ ॥ चैत्री ४ कालादिकः ५ । इति राजनिर्घण्टः ॥ चैत्रकः ६ चित्रिकः ७ । इति शब्दरत्नावली ॥ * ॥ तत्र जातफलम् । “सत्कर्म्मशाली विनयी सुवेशो भोगी सुखी स्यान्मधुरान्नभोजी । सत्सङ्गयुक्तो द्बिजदेवभक्तो भवेन्मनुष्यो मधुमासजन्मा ॥” इति कोष्ठीप्रदीपः ॥ * ॥ (चैत्रकृत्यानि तु वारुण्यशोकाष्टमी-श्रीराम- नवमी-मदनत्रयोदशी-मदनचर्द्दशीप्रभृतीनि । एतेषां प्रकरणादिकं तत्तच्छब्दे द्रष्टव्यम् ॥) तत्र शिवव्रतं कर्त्तव्यम् । यथा, -- “चैत्रे मास्यथ माधे वा योऽर्च्चयेत् शङ्करं व्रती । करोति नर्त्तनं भक्त्या वेत्रपाणिर्दिवानिशम् ॥ मासं वाप्यर्द्धमासं वा दश सप्त दिनानि वा । दिनमानं युगं सोऽपि शिवलोके महीयते ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ अधुनास्य सन्न्यास इति गाजन् इति च भाषा ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

चैत्र पुं।

चैत्रमासः

समानार्थक:चैत्र,चैत्रिक,मधु

1।4।15।2।3

पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने। स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

चैत्र¦ न॰ चि--ष्ट्रण् चित्रमेव स्वार्थे अण् वा।

१ देवकुले(देउल)

२ मृते मेदि॰

३ पुद्धभिक्षुके पु॰

४ वर्षाचलभेदे पु॰त्रिका॰ कुलपर्ब्बतशब्दे

२१

२३ पृ॰ दर्शिते विष्णु पु॰ वाक्ये
“गोमेदश्चैव चन्द्रश्चेत्यत्र चैत्र इति पाठान्तरदर्शनात्त्रिकाण्डोक्तिः समञ्जसा। चित्रायां भवः अण्। बुधस्यकलत्रभेदचित्रायागर्भजे

५ बुधपुत्रभेदे पु॰ ब्रह्मवै॰ पा॰ख॰। चित्रानक्षत्रयुक्ता पौर्णमासी अण् ङीप् चैत्री-सास्मिन् मासे पुनरण्। चित्रानक्षत्रयुक्तपौर्णमासीयुक्तेतदुपलक्षिते वा

६ चान्द्रे मासि वार्हस्पत्ये

७ वर्षभेदे

८ तथाभूते अर्द्धमासे मीनस्थरविके

९ सौरचैत्रे चकार्तिकशवदे

१९

४८ पृ॰ दृश्यम्। चित्रायां भवः अण्।

१० चित्रानक्षत्रजाते त्रि॰ स्त्रियान्तु तस्याणो लुक्। चित्रा चित्राजातायां स्त्रियां स्त्री चित्राशब्दे दृश्यम्। स्वार्थे क तत्रार्थे शब्रत्ना॰।
“फाल्गुनं वाथ चैत्रं वामासं प्रति यथावलम्” मनुः।
“मीनादिस्थो रविर्येषा-मारम्भः प्रथमक्षणे। भवेत् तेऽव्दे चान्द्रमासाश्चैत्राद्याद्वादशः स्मृताः” व्यासः
“चैत्रे मदोन्मादिनी” उद्वा॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

चैत्र¦ m. (-त्रः)
1. The month Chaitra or Cheyte, (March-April.)
2. One of the ranges of mountains dividing the continent into portions or Varshas: see वर्ष।
3. A Baud'dha or Jaina religious mendicant.
4. The son BUDHA by CHITRA. n. (-त्रं)
1. A monument erected to the dead, a column or block of wood, a tree, &c. so considered.
2.
2. A small temple. E. चित्रा the star, or चित्र wonderfull, &c. affix अण्, or चि-ष्ट्रन् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

चैत्रः [caitrḥ], [चि ष्ट्रण्; चित्रमेव स्वार्थे अण्; चित्रायां भवः अण् वा]

N. of a lunar month in which the full moon stands in the constellation Chitrā (corresponding to MarchApril).

A Buddhist mendicant.

One of the seven ranges of mountains dividing the continent into Varṣas. -त्रम् A temple, monument for the dead.-Comp. -आवलिः f. the full-moon-day of Chaitra.-सखः an epithet of the god of love.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

चैत्र m. N. of the 2nd spring month (its full moon standing in the constellation चित्राSee. Pa1n2. 4-2 , 23 ) S3a1n3khBr. xix , 3 Ka1tyS3r. La1t2y. Mn. vii , 182 MBh. etc.

चैत्र m. the 6th year in the cycle of Jupiter VarBr2S. viii , 8

चैत्र m. a Buddh. or Jain religious mendicant L.

चैत्र m. a common N. for any man (like देव-दत्त) , Gaud2ap. on Sa1m2khyak. 5 and 7 Prab. iii , 7/8 Sch. Pa1n2. 2-3 , 29 Sch. (not in Ka1s3. )

चैत्र m. " son of चित्रा" , N. of a son of बुधand grand father of सु-रथBrahmaP.

चैत्र m. = चैत्रियायणAnukr. on Ka1t2h. xxxix , 14

चैत्र m. N. of two ऋषिs VP. iii , 1 , 12 and 18

चैत्र m. one of the seven ranges of mountains (dividing the continent into वर्षs) L.

चैत्र n. = चैत्य, a sepulchre L.

चैत्र n. a sanctuary L.

चैत्र mfn. for चित्र(B) or जैत्र( Sch. ) MBh. vii , 76

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--one of the nine sons of स्वारोचिष-Manu. Br. II. ३६. १९; Vi. III. 1. १२.
(II)--a Paulastya and a sage of the तामस Manvantara. Br. II. ३६. ४८.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Caitra  : m.: Name of a month.

Aṅgiras had told Bhīṣma (13. 109. 910) that if one, with restrained mind, spent the month of Caitra eating only once a day he was born in a noted family that was rich with gold, gems and pearls 13. 109. 22; Nārada told the Pāṇḍavas that Brahmadeva and other gods, the Seers, the Siddhas and the Cāraṇas visit the famous and very holy confluence of the river Sarasvatī where Janārdana was worshipped (saṅgamaṁ lokaviśrutam/ sarasvatyā mahāpuṇyam upāsante janārdanam// 3. 80. 130) on the fourteenth day of the bright half of Caitra (3. 80. 131); if a king was threatened by a stronger adversary (12. 69. 32) he should, in the month of Caitra when there was fear of fire, get in advance all houses, that were covered with grass, smeared with mud and remove the grass from them (tṛṇacchannāni veśmāni paṅkenāpi pralepayet/nirharec ca tṛṇaṁ māse caitre vahnibhayāt puraḥ) 12. 69. 45.

_______________________________
*2nd word in right half of page p245_mci (+offset) in original book.

previous page p244_mci .......... next page p246_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=चैत्र&oldid=457583" इत्यस्माद् पुनः प्राप्तिः