छाग

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छागः, पुं, स्त्री, (छायते छिद्यते देवबलये इति । छो + “छापूखडिभ्यः कित् ।” उणां । १ । १२४ । इति गन् ।) पशुविशेषः । तत्पर्य्यायः । वस्तः २ छगलकः ३ अजः ४ स्तुभः ५ । इत्य- मरः । २ । ९ । ७६ ॥ छगः ६ छगलः ७ छागलः ८ तभः ९ स्तभः १० शुभः ११ । इति तट्टीका ॥ लघुकामः १२ क्रयसदः १३ वर्करः १४ पर्णभोजनः १५ लम्बकर्णः १६ भेनादः १७ वुक्कः १८ अल्पायुः १९ शिवाप्रियः २० । इति शब्दरत्नावली ॥ अवुकः २१ मेध्यः २२ पशुः २३ पयस्वलः २४ । तन्मांसगुणाः । लघ्रुत्वम् । स्निग्धत्वम् । नातिशीतत्वम् । रुचिबलपुष्टि- दातृत्वम् । निर्द्दोषत्वम् । वातपित्तनाशित्वम् । मधुरत्वञ्च । इति राजनिर्घण्टः ॥ शुक्रधातु- साम्यकारित्वम् । बृंहणत्वम् । स्निग्धत्वम् । मृदुत्वम् । अनभिष्यन्दित्वम् । नात्युष्णत्वञ्च । इति राजवल्लभः ॥ * ॥ छागपोतमांसगुणाः । लघु- त्वम् । शीतत्वम् । प्रमेहनाशित्वञ्च ॥ तृण- चारिछागस्य मांसगुणः । ईषल्लघुत्वम् । बल- दातृत्वञ्च ॥ तन्मूत्रगुणाः । कटुत्वम् । उष्णत्वम् । रूक्षत्वम् । नाडीविषार्त्तिप्लीहोदरकफश्वास- गुल्मशोफनाशित्वम् । लघुत्वञ्च । इति राज- निर्घण्टः ॥ “छागलो वर्करश्छागो वस्तोऽजश्छेलकः शुभः । छागमांसं लघु स्निग्धं स्वादुपाकं त्रिदोषणुत् ॥ नातिशीतमदाहि स्यात् स्वादु पीनसनाशनम् । परं बलकरं रुच्यं बृंहणं बलवर्द्धनम् ॥ अजाया अप्रसूताया मांसं पीनसनाशनम् । शुष्ककासेऽरुचौ शोषे हितमग्नेश्च दीपनम् ॥ अजासुतस्य बालस्य मांसं लघुतरं स्मृतम् । हृद्यं ज्वरहरं श्रेष्ठं सुखादु वलदं भृशम् ॥ मांसं निष्कासिताण्डस्य छागस्य कफकृद्गुरु । सोतःशुद्धिकरं वल्यं मांसदं वातपित्तनुत् ॥ वृद्धस्य वातलं रूक्षं तथा व्याधिमृतस्य च । ऊर्द्ध्वजत्रुविकारघ्नं छागमुण्डं रुचिप्रदम् ॥” इति भावप्रकाशः ॥ (एतन्मांसं पितॄणां तृप्तिकरत्वात् श्राद्धाय देयम् । यथाह याज्ञवल्क्यः । १ । २५८ । “मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥” छागमांसेन पितॄणां षण्मासान् यावत्तूप्तिः । वर्णैः प्रशस्तैर्मणिभिश्च युक्ता मुण्डाश्च ये ताम्रविलोचनाश्च । ते पूजिता वेश्मसु मानवानां सौख्यानि कुर्व्वन्ति यशः श्रियञ्च ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छाग पुं।

अजः

समानार्थक:स्तभ,छाग,वस्त,छगलक,अज

2।9।76।1।4

अजा छागी शुभच्छागबस्तच्छगलका अजे। मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके॥

पत्नी : अजा

वृत्तिवान् : अजाजीवनः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छाग¦ पुंस्त्री छो--गन् स्वनामख्याते पशुभेदे अमरः। जाति-त्वात् स्त्रियां ङीष्।

२ पुरोडाशे न॰ शब्दार्थचि॰। छाग्या दुग्धम् अण्।

२ छाग्या दुग्धे न॰ छागस्येद-मण्।

४ छागसम्बन्धिनि त्रि॰ स्त्रियां ङीप्। छागस्यलक्षणादिकं वृ॰ सं॰ दर्शितं यथा
“छागशुभाशुमलक्षणमभिधास्ये नवदशाष्टदन्तास्ते। घन्याः स्थाप्या वेश्मनि सन्त्याज्याः सप्तदन्ता ये। दक्षिणपार्श्वे मण्डलमसितं शुक्लस्य शुभफलं भवति। ऋष्यनिभकृष्णलोहितवर्णानां श्वेतमपि शुमदम्। स्तनवदवलम्बते यः कण्ठेऽजानां मणिः स विज्ञेयः। एकमणिः शुभफलकृद्धन्यतमा द्वित्रिमणयो ये। मुण्डाः सर्वे शुभदाः सर्वसिताः सर्वकृष्णदेहाश्च। अर्धासिताः सितार्धा धन्याः कपिलार्धकृष्णाश्च। विचरति यूथस्याग्रे प्रथमं चाम्भोऽवगाहते योऽजः। स शुभः सितमूर्धा वा मूर्धनि वा टिक्किका यस्य। स पृषतकण्टशिरा वा तिलपिष्टनिभश्च ताम्रदृक् शस्तः। कृष्णचरणः सितो वा कृष्णो वा श्रेतचरणो यः। यः कृष्णाण्डः श्वेतो मध्ये कृष्णेन भवति पट्टेन। यो वा चरति सशब्दं मन्दं च स शोभनश्छागः। ऋष्यशिरोरुहपादो यो वा प्राक्पाण्डुरोऽपरे नीलः। स भवति शुभकृच्छागः श्लोकश्चाप्यत्र गर्गोक्तः। कुट्टकःकुटिलश्चेव जटिलो वामनस्तथा। ते चत्वारः श्रियः पुत्रानालक्ष्मीके वसन्ति ते। अथाप्रशस्ताः खरतुल्यनादाःप्रदीप्तपुच्छाः कनखा विवर्णाः। निकृत्तकर्णा द्विपमस्तकाश्च[Page2983-a+ 38] भवन्ति ये चासिततालुजिह्वाः। वर्णैः प्रशस्तैर्मणिभिश्चयुक्ता मुण्डाश्च ये ताम्रविलोचनाश्च। ते पूजितावेश्मसु मानवानां सौख्यानि कुर्वान्त यशः श्रियं च”। बलौ तस्य शुभाशुभत्व युक्तिकल्पतरौ दर्शितं यथा
“तेषा शुभाय निर्दिष्टं पशुवस्तुत्रयं बलौ। ये कृष्णाःशुचयश्छागाः पशवोऽन्ये तथैब च। देवजातिभिरुत्-सृज्यास्ते सर्वार्थोपसिद्धये। ये पीता हरिता वापिनरजातेरुदीरिताः। ये शुक्लाश्च महान्तो वा रक्षोजातेः शुमप्रदाः। यो मोहादथ वाऽज्ञानाद्बलिमन्येप्रयच्छति। बध एव फलं तस्य नान्यत् किञ्चित् फलंभवेदिति”। तन्मासगुणा भावप्र॰ उक्ता यथा
“छागलो वर्करश्छागो वस्तोऽजः छेलकः स्तुभः। अजाछागी स्तुभा चापि छेलिका च गलस्तनी। छागमांसंलघु स्निग्धं स्वादुपाकं त्रिदोषनुत्। नातिशीतमदाहिस्यात् स्वादु पीनसनाशनम्। परं बलकरं रुच्यं वृंहणंविर्य्यवर्द्धनम्। अजाथा अप्रसूताया मांसं पीनस-नाशनम्। शुष्ककासेऽरुचा शोषे हितमग्नेनश्च दीपनम्। अजासुतस्य बालस्य मांसं लघुतरं स्मृतम्। हृद्यंज्वरहरं श्रीष्ठं सुखदं बलदं भृशम्। मांसं निष्कुषिताण्डस्य (खासि) छागस्य कफकृद्गुरु। स्रोतःशुद्धिकरंबल्यं मांसदं वातपित्तनुत्। वृद्धस्य वातलं रूक्षं तथाव्याधिमृतस्य च। ऊर्द्धजत्रुविकारघ्नं छागमुण्डं रुचि-प्रदम्। ” तद्दुग्धादिगुणास्तत्रोक्ता यथा
“छाग कषायंमधुरं शीतं ग्राहि पर्यों{??}घु। रक्तपित्तातिसारघ्नंक्षयकासज्वरापहम्। अजानां लघुकायत्वान्नानाद्रव्य-निषेवणात्। नात्यम्बुपानाद् व्यायामात् सर्वव्याधिहर पयः। आजं दध्युत्तम ग्राहि लघु दोषत्रयापहम्। शस्यते श्वासकासार्शःक्षयकासेषु दीप-नम्। तद् घृतगुणा घृतशब्द

२७

९८ पृ॰ दृश्याः। तन्मूत्रगुणाः
“गोजाविमहिषीणां तु स्त्रीणां मूत्रंप्रशस्यते। खरोष्ट्रेभनराश्वानां पुंसां मूत्र हितंस्पृतम्”
“अनादेशे पशुश्छागः” ति॰ त॰
“मात्स्य-हारिणकौरभ्रभशाकुनच्छागलार्षभैः” याज्ञ॰।
“षण्मासांश्छागमांसेन” मनुः
“अनादेशे यज्ञे स एव पशुशब्द-वाच्यः यथाह कात्या॰ श्रौ॰

६ ।

३ ।

२० ।
“छागं मन्त्राम्नानात्” सू॰।
“अजं पशुमुपाकरोति होता यक्ष्यदश्विनौ छाग-स्येत्यादिषु भन्त्रेषु छागस्याम्नानात् तथा
“अग्नीषोमाभ्यांछागस्य वपायै मेदसोऽनुब्रूहीति” यदि च छागी याग-[Page2983-b+ 38] साधनं भवति तदा अयं मन्त्रः संगताथो भवतिनान्यथा। पुन कीवृशम्।
“पन्नदम्” सू॰।
“पन्नदोजातदन्त इति निगमषूक्तम्”।
“अव्यङ्गम्” सू॰। विगतमङ्गं चक्षुःकर्णादिकं यस्यासौ व्यङ्गः अन्यूनाङ्गगम्शाखान्तरात्” कर्कः
“वायव्यं श्वेतमालभेत” श्रुता छागएवालभ्यः
“छागो वा मन्त्रवर्णात्” जै॰ सू॰ तथा निर्णयात्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छाग¦ f. (-गः) A goat. f. (-गी) A she goat. E. छो to cut, Unadi affix गन्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छाग [chāga], a. (-गी f.) Relating to a goat or she-goat; Y.1.258. -गः (-गी f.)

A goat; ब्राह्मणश्छागतो यथा (वञ्चितः) H.4.53; Ms.3.269; छागो वा मन्त्रवर्णात् Ms.6. 8.31.

The sign Aries of the zodiac.

A horse whose movements have been cut off; यश्छिन्नगमनो$श्चः स छागः । छिदेर्गमेश्च छागशब्दः प्रसिद्धः । ŚB. on MS.6.8.36.

गम् The milk of a she-goat.

An oblation. -Comp. -भोजिन् m. a wolf. -मुखः an epithet of Kārtikeya.-रयः, -वाहनः an epithet of Agni, the god of fire.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छाग m. = छग(" limping " ? , of ? etc. ) a he-goat RV. i , 162 , 3 : VS. xix , xxi S3Br. v Ka1tyS3r. Mn. etc.

छाग m. the sign Aries VarBr2. v , 5

छाग m. N. of one of शिव's attendants L. Sch.

छाग mfn. coming from a goat or she-goat Ya1jn5. i , 257 Car. Sus3r.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the goat, as the riding animal of Agni; its flesh pleasing to पितृस्. M. १४८, ८३; १७. ३२.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Chāga, ‘goat,’ is found in the Rigveda,[१] and not rarely later.[२] See Aja and Chaga.

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छाग पु.
अज, बकरा (वध्य पशु के रूप में व्यवहृत), का.श्रौ.सू. 16.3.1०।

  1. i. 162, 3.
  2. Vājasaneyi Saṃhitā, xix. 89;
    xxi. 40. 41;
    Satapatha Brāhmaṇa, iii. 3, 3, 4;
    v. 1, 3, 14;
    Maitrāyaṇī Saṃhitā, iii. 11, 2.
"https://sa.wiktionary.org/w/index.php?title=छाग&oldid=499621" इत्यस्माद् पुनः प्राप्तिः