तपस्

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपः, [स्] क्ली, (तपति तापयति वा । तप उप- तापे + “सर्व्वधातुभ्योऽसुन् ।” उणां । ४ । १८८ । इति असुन् ।) वैधक्लेशजनकं कर्म्म । यथा, -- “उमेऽतिचपला पुत्त्रि ! न क्षमं तावकं वपुः । सोढुं क्लशस्वभावस्य तपसः सौम्यदर्शने ॥” इति तिथ्यादितत्त्वे मत्स्यपुराणवचनम् ॥ * ॥ तत्फलं यथा, -- “तपोभिः प्राप्यतेऽभीष्टं नासाध्यं हि तपस्यतः । दुर्भगत्वं वृथा लोको वहते सति साधने ॥” इति च तत्रैव तद्वचनम् ॥ * ॥ अपि च । मरीचिरुवाच । “ब्राह्मणस्य तपोमूलं यज्ञः स्वाध्याय एव च । तस्मादग्ने ! फलं ब्रूहि तपसोऽध्ययनस्य च ॥ वह्निरुवाच । स्वाध्यायतपसोर्वक्ष्ये तन्मे निगदितं शृणु । तपसो हि परं नास्ति तपसा विन्दते महत् ॥ तपसा क्षीयते पापं मोदते सह दैवतैः । तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ॥ तपसा सर्व्वमाप्नोति तपसा विन्दते परम् । ज्ञानविज्ञानसम्पन्नः सौभाग्यं रूपमेव च ॥ तपसा लभते सर्व्वं तथैवाध्ययनेन च । तस्मात् स्वधर्म्मसंयुक्तो नित्यं सिध्यति पण्डितः ॥ धर्म्मात् सुखमवाप्नोति इह लोके परत्र च ॥” इत्याद्ये वह्निपुराणे नित्याह्निकस्नानविधि- नामाध्यायः ॥ तपस्या । तत्त्रिविधम् । शारीरं वाचिकं मानसञ्च । यथा, -- “देवद्बिजगुरुप्राज्ञपूजनं शौचमार्ज्जवम् । ब्रह्मचर्य्यमहिंसा च शारीरं तप उच्यते ॥ १ ॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितञ्च यत् । स्वाध्यायाभ्यसनञ्चैव वाङ्मयं तप उच्यते ॥ २ ॥ मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥” ३ ॥ तदपि त्रिविधम् । सात्त्विकं राजसं तामसञ्च यथा, -- “श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १ ॥ सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ २ ॥ मूढग्राहेणात्मनो यत् पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥” ३ ॥ इति श्रीभगवद्गीतायाम् । १७ । १४ -- १९ ॥ * ॥ जनलोकादूर्द्ध्वलोकः । यथा, -- “अस्योपरि तपोलोकस्तेजोमय उदाहृतः । वैराजा यत्र ते देवा वसेयुर्द्देवपूजिताः ॥ वासुदेवे मनो येषां वासुदेवेऽर्पितक्रियाः । तपसा तोष्य गोविन्दमभिलाषविवर्ज्जिताः ॥ तं तपोलोकमासाद्य वसन्ति विजितेन्द्रियाः । शिलोञ्छवृत्तयो ये वै दन्तोलूखलिकाश्च ये ॥ येऽश्मकुट्टाश्च मुनयः शीर्णपर्णाशिनश्च ये । ग्रीष्मे पञ्चाग्नितपसो वर्षासु स्थण्डिलेशयाः ॥ हेमन्ते शिशिरे वा ये क्षिपन्ति सलिले क्षपाः । कुशाग्रनीरबिन्दूंश्च तृषिता यतयोऽपिबन् ॥ वाताशिनोऽतिक्षुधिताः पादाङ्गुष्ठाग्रभूस्पृशः । ऊर्द्ध्वहस्ता रविदृशस्त्वेकाङ्घ्रिस्थाननिश्चलाः ॥ ये वै दिवानिरुच्छ्वासा मासोच्छ्वासाश्च ये परे । मासोपवासं कुर्व्वन्ति चातुर्म्मास्यव्रताश्च ये ॥ ऋत्वन्ते तोयपाना ये ये षण्मासोपवासकाः । ये च वर्षानिमेषा वै वर्षधाराम्बुतर्षकाः ॥ स्थाणुसाम्योपसंप्राप्ता मृगकण्डूतिसौख्यदाः । जटाटवीकोटरान्तः कृतनीडाण्डजाश्च ये ॥ प्ररूढवल्मिकाङ्गाश्च स्नायुनद्धास्थिसञ्चयाः । लताप्रतानैः परितो वेष्टितावयवाश्च ये ॥ शस्यानि च प्ररूढानि यदङ्गेषु महीपते ! । इत्येतैर्न्नियमैर्य्ये तु क्लिष्टात्मानस्तपोधनाः ॥ ब्रह्मायुषस्तपोलोके ते वसन्त्यकुतोभयाः ॥” इति पद्मपुराणम् ॥ * ॥ चान्द्रायणादिव्रतम् । धर्म्मः । इति मेदिनी । से, २४ ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस् पुं।

माघमासः

समानार्थक:तपस्,माघ

1।4।15।1।4

पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने। स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

तपस् नपुं।

कृच्छ्रादिकर्मः

समानार्थक:तपस्

3।3।233।1।2

छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च। सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्¦ न॰ तप--असुन्। आलोचनात्मके ईश्वरज्ञानभेदे अन्त-र्य्यामिब्राह्मणभाष्ये दृश्यम्।

२ लग्नावधिक-नवमस्थाने ज्यो॰

३ स्वाश्रमविहितकर्मणि

४ वैधक्लेशजनकेकर्मणि।
“तपोतानशनात्परम्”।

५ क्षुत्पिपा-साशीतोष्णादिद्वन्द्वसहने।

६ चित्तप्रसादहेतुभूते व्रतनिय-मोपासनादिकर्मणि।

७ मौनादिव्रते”

८ कायेन्द्रियमनसांसमाधाने

९ शास्त्रीयमार्गेण कायेन्द्रियमनसां शोषणे।

१० कृच्छ्रचान्द्रायणप्रजापत्यादिरूपे प्रायश्चित्ते।

११ शास्त्र-विहिततप्तशिलारोहणादौ।

१२ वानप्रस्थस्यासाधरणधर्मे। तपश्च शारीरादिभेदात् त्रिविधम् यथाह
“देवद्विजगुरु-प्राज्ञपूजनं शौचमार्जवम्। व्रह्मचर्य्यमहिंसा चशारीरं तप उच्यते। अनुद्वेगकरं वाक्यं सत्यंप्रियहितञ्च यत्। स्वाध्यायाभ्यसनं चैव वाङ्मयं तपउच्यते। मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः। भावसंशुद्धिरित्येतत् तपोमानसमुच्यते” गीता। तदपिसात्त्विकादि भेदात् त्रिविधम् यथाह
“श्रद्धया परया तप्तंतपस्तत् त्रिविधं नरैः। अफलाकाङ्क्षिभिर्युक्तं सात्विकंपरिचक्षते। सत्कारमानपूजार्थं तपोदम्भेन चैव यत्। क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्। मूढग्राहेणा-त्मनो यत् पीडया क्रियते तपः। परस्योत्सादनार्थं वातत् तामसमुदाहृतमिति” गीता।

१३ मनैन्द्रियाणामै-काग्र्ये
“मनसश्चेन्द्रियाणाञ्च ह्यैकाग्र्यं परमन्तपः” इत्युक्तेः

१४ जनोलोकादुर्द्धस्थे लोकभेदे।
“तस्योपरि तपो-[Page3232-a+ 38] लोकस्तेजोमय उदाह्वतः। वैराजा यत्र ते देवा वसेयुर्द्देवपूजिताः। वासुदेवे मनो येषां वासुदेवाऽर्पितक्रियाः। तपसातोष्य गोविन्दमभिलाषविवर्जिताः। ते तपो-लोकमासाद्य वसन्ति विजितेन्द्रियाः। शिलोञ्छवृत्तयोये वै दन्तोलूखलिकाश्च ये। येऽश्मकुट्टाश्च मुनयः शीर्ण-पर्णाशिनश्च ये। ग्रीष्मे पञ्चाग्नितपसो वर्षासु स्थण्डि-लेशयाः। हेमन्ते शिशिरे वा ये क्षपन्ति सलिले क्षपाः। कुशाग्रनीरविन्दूंश्च तृषिता यतयोऽपिबन्। वाताशि-नोऽतिक्षुधिताः पादाङ्गुष्ठाग्रभूस्पृशः। ऊर्द्ध्वहस्तारविदृशस्त्वेकाक्षिस्थाननिश्चलाः। ये वै दिवा नि-रुच्छ्वासा मासोच्छ्वासाश्च ये परे। मासोपवासं कुर्वन्तिचातुर्म्मास्यव्रताश्च ये। ऋत्वन्ते तोयपाना ये ये षण्मा-सोपवासकाः। ये च वर्षानिमेषा वै वर्षधाराम्बुत-र्षकाः। स्थाणुसाम्योपसंप्राप्ता मृगकण्डूतिसौख्यदाः। जटाटवीकोटरान्तःकृतनीडाण्डजाश्च ये। प्ररूढबल्मीकाङ्गाश्च स्नायुनद्धास्थिसञ्चयाः। लताप्रतानैःपरितो वेष्टितावयवाश्च ये। शस्यानि च प्ररूढानियदङ्गेषु महीपते। इत्येतैर्नियमैर्ये तु क्लिष्टात्मानस्तपो-धनाः। ब्रह्मायुषस्तपोलोके ते वसन्त्यकुतोभयाः”।

१५ माघेमासि
“तपाश्च तपस्यश्च शैशिरावृतू” यजु॰

२७ ।

२४
“तपसे त्वा” यजुः

७ ।

३० । तपसे माघाय। तपति सूर्योयत्र अमुन् तपाः” वेददी॰। तत्र हि उत्तरायणप्रवृत्तौ रवेःप्रखरकरता अतएवाह
“मकरे प्रखरो रविः”।

१६ धर्मे
“विनाप्यस्मदलं भूष्णुरिज्यायैतपसः सुतः” माघः

१७ नि-यमे
“समाधिमास्थाय तपोभिरात्मनः” निशम्य चैनां तपसेकृतोद्यमाम्”
“तपः क्व वत्से क्व च तावकं वपुः” कुमा॰
“तपसा किल्विषं हन्ति विद्ययाऽमृतमश्नुते” वेदान्तप॰।
“तमेतं ब्राह्मणा विविदिषन्ति वेदानुवचनेन यज्ञेन तपसानाशकेन” श्रुतिः।
“ब्राह्मणस्य तपो ज्ञानं तपःक्षत्रस्यरक्षणम्। वैश्यस्य तु तपोवार्त्ता तपः शूद्रस्य सेवनम्” मनुःतपश्च योगसाधनं क्रियायोगभेदः यथोक्तं पात॰ सू॰ भाष्य-विवरणेषु
“तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” सू॰।
“नातपस्विनो योगः सिद्ध्यति अनादिकर्मक्लेशवा-सनाचिता प्रत्युपस्थितविषयजाला चाशुद्धिः नान्तरेणतपःमम्भेदमापद्यते इति तपस उपादानं तच्चित्तप्रसादन-मबाधमानमनेनासेव्यमिति मन्यते” भा॰।
“व्यतिरेक-मुखेन तपस उपायत्वमाह नातपस्विन इति तपसो-ऽवान्तरव्यापारमुपायोपयोगिनं दर्शयति अनादि[Page3232-b+ 38] कर्म्मेति। अनादिभ्यां कर्मक्लेशवासनाभ्यां चिता अतएवप्रत्युपस्थितमुपनतं विषयजालं यस्यां सा तथोक्ता। अशुद्धीरजस्तमःसमुद्रेको नान्तरेण तपःसम्भेदमापद्यतेसान्द्रस्य नितान्तविरलता सम्भेदः ननूपादीयमानमपितपो धातुवैषम्यहेतुतया योगप्रतिपक्ष इति कथंतदुपाय इति। अत आह। तच्चेति तावन्मात्रमेवतपश्चरणीयं न यावता धातुवैषम्यमापद्यतैत्यर्थः” विवरणम्।

१८ अग्नौ तपोजाः।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस्¦ m. (-पाः)
1. The name of a month, Magha, (January February.)
2. The cold or dewy season.
3. The hot season. n. (-पः)
1. Religi- ous austerity, penance, mortification, the practice of mental or perso- nal self-denial, or the infliction of bodily tortures.
2. A world, the region above the Janaloka, inhabited by saints or devotees after death.
3. Virtue, moral merit.
4. Duty, the special observance of certain things: thus the Tapas of a Brahman is sacred learning; of a Kshetrya, the protection of subject; of a Vaisya, almsgiving to Brahmans; of a Sudra, the service of the same tribe; and of a Rishi or saint, feeding upon herbs and roots. E. तप् to heat or in- flame, affix असुन्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस् [tapas], n. [तप्-असुन्]

Warmth, heat, fire, light; एकः सूर्यस्तपसो योनिरेका Mb.12.351.1.

Pain, suffering; न तपः कुतश्चन Rv.7.82.7.

Penance, religious austerity, mortification; तपः किलेदं तदवाप्तिसाधनम् Ku.5.64.

Meditation connected with the practice of personal self-denial or bodily mortification; गीरा वा$$शंसामि तपसा ह्यनन्तौ Mb.1.3.57.; Bhāg.12.11.24.

Moral virtue, merit.

Special duty or observance (of any particular caste); यत्सप्तान्नानि मेधया तपसाजनयत्पिता Bṛi. Up. 1.5.1.

One of the seven worlds; i. e. the region above the world called जनस्.

The month of religious austerities.

A long period of time, Kalpa.

(In astrol.) The ninth lunar mansion.

Chastisement (दण्ड); आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत् Mb. 12.267.35. -m.

The month of Māgha; तपसि मन्द- गभस्तिरभीषुमान् Śi.6.63.

An epithet of Agni. -m., -n.

The cold season (शिशिर).

The winter (हेमन्त).

The hot season (ग्रीष्म). -Comp. -अनुभावः the influence of religious penance. -अर्थीय a. destined for austerities; तपोर्थीयं ब्राह्मणी धत्त गर्भम् Mb.11.26.5.-अवटः the Brahmāvarta country. -कर a. undergoing penance; also तपस्कर> -करः the mango-fish (Polynemus Risua). -कृश a. emaciated by austerities.-क्लेशः the pain of religious austerity. -गच्छः (also तपागच्छः) the 6th गच्छ of the Śvetāmbara Jainas.-चरणम्, -चर्या the practice of penance. -तक्षः, -तङ्कः an epithet of Indra. -धन a.

rich in religious penance.

pious, ascetic.

consisting in penance, (-नः) 'rich in penance', an ascetic, devotee; रम्यास्तपोधनानां क्रियाः Ś.1.13; शमप्रधानेषु तपोधनेषु 2.7;4.1; Śi.1.23; R.14.19; Ms.11.242. -निधिः an eminently pious man, an ascetic; R.1.56. -निष्ठ a. performing penance; Ms.3.134; Y.1.221. -पतिः N. of Viṣṇu; Bhāg.4.24.14. -प्रभावः, -बलम् the power acquired by religious austerities; efficacy or potency of devotion.-भृत् a. ascetic, pious.

मूर्तिः an ascetic.

the Supreme spirit. -मूल a. founded on religious austerity; तपोमूलमिदं सर्वं दैवमानुषकं सुखम् Ms.11.234. -यज्ञः sacrificing by austerites; Bg.4.28. -राजः the moon.

राशिः an ascetic.

N. of Viṣṇu (पुरुषोत्तम). -लोकः the region above the world called जनस्; Bhāg.2.5.4. -वनम् a penance-grove, a sacred grove in which ascetics practise penance; कृतं त्वयोपवनं तपोवनमिति प्रेक्षे Ś1; R.1.9;2.18. -वासः a place of penance or religious austerities. -विशेषः excellence of devotion, pre-eminent religious austerities. -वृद्ध a. very ascetic or devout.-शील a. inclined to practise penance. -समाधिः the practice of penance or religious austerities; तपःसमाधेः प्रतिकूलवर्ती Ku.3.24;5.6,18. -सुतः N. of Yudhi- ṣṭhira; Mb.3.313.19.

स्थली a seat of religious austerity.

N. of Benares.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तपस् n. warmth , heat( पञ्च तपांसि, the 5 fires to which a devotee exposes himself in the hot season , viz. 4 fires lighted in the four quarters and the sun burning from above Mn. vi , 23 R. BhP. iv BrahmaP. ; See. Ragh. xiii , 41 ) RV. AV. VS. S3a1n3khS3r.

तपस् n. pain , suffering RV. vii , 82 , 7

तपस् n. religious austerity , bodily mortification , penance , severe meditation , special observance( e.g. " sacred learning " with Brahmans , " protection of subjects " with क्षत्रियs , " giving alms to Brahmans " with वैश्यs , " service " with शूद्रs , and " feeding upon herbs and roots " with ऋषिs Mn. xi , 236 ) RV. ix , 113 , 2

तपस् n. x (personified , 83 , 2 f. and 101 , 1 , " father of मन्यु" RAnukr. ) AV. etc.

तपस् n. ( m. L. )N. of a month intervening between winter and spring VS. TS. i S3Br. iv Sus3r. Pa1n2. 4-4 , 128 Va1rtt. 2 Pat. S3is3. vi , 63

तपस् n. the hot season L. Sch.

तपस् n. = पो-लोकVeda7ntas. 120

तपस् n. the 9th lunar mansion( धर्म) VarBr2. i , 19 ; ix , 1 and 4

तपस् n. N. of a कल्पperiod Va1yuP. i , 21 , 27.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tapas, Tapasya. See Māsa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=तपस्&oldid=499881" इत्यस्माद् प्रतिप्राप्तम्