तात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तातः, पुं, (तनोति विस्तारयति गोत्रादिकमिति । तन + “दुतनिभ्यां दीर्घश्च ।” उणां । ३ । ९० । इति क्तः दीर्घश्च । अनुदात्तेति नलोपः ।) पिता । इत्यमरः । २ । ६ । २८ । (यथा, रघुः । ९ । ७५ । “हा तातेति क्रन्दितमाकर्ण्यविषण्ण- स्त स्यान्विष्यन् वेतसगूढं प्रभवं सः । शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्त्रं तापादन्तःशैल्य इवासीत् क्षितिपोऽपि ॥”) अनुकम्प्यः । इति मेदिनी । ते, २१ ॥ (यथा, भागवते । १ । १४ । ३९ । “कच्चित्तेऽनामयं तात ! भ्रष्टतेजा विभासि मे । अलब्धमानोऽवज्ञातः किं वा तात ! चिरो- षितः ॥”) पूज्ये, त्रि । इति शब्दरत्नावली ॥ (यथा, रघौ । १ । ७२ । वशिष्ठं प्रति दिलीपोक्तिः । “तस्मात् मुच्ये यथा तात ! संविधातुं तथार्हसि । इक्ष्वाकूणां दुरापेऽर्थे त्वदघीना हि सिद्धयः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तात पुं।

पिता

समानार्थक:तात,जनक,पितृ

2।6।28।2।3

आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे। स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तात¦ पु॰ तन--क्त दीर्घश्च। पितरि अमरः।
“ईषदी-षदनधीतविद्यया तातमातृमुदमाविवर्द्धयन्” कुसुमाञ्जलौहरिदासः
“हा तातेति क्रन्दितमाकर्ण्य विषण्णः” रघुः।

२ अनुकम्प्ये मेदि॰।
“नाहंगृह्णामि वस्ताता! दृष्टीर्नास्मि-रुषान्विताः” भा॰ आ॰

१७

९ अ॰।
“स तात इति वि-प्रर्षिं वशिष्ठं प्रत्यभाषत। मातुः समक्षं कौन्तेय! अप-श्यन्त्याः परन्तप!। तातेति परिपूर्णार्थं तस्य तन्मधुरंवचः। अपश्यन्त्यश्रुपूर्णाक्षी शृण्वती तमुवाच ह। मा तात! तात! तातेति ब्रूह्येनं पितरं पितुः। रक्षसा भक्षितस्तात! तव तातो वनान्तरे। मन्यसेयन्तु तातेति नैष तातस्तवानघ!। आर्य्य एष पितातस्य पितुस्तव यशस्विनः” भा॰ आ॰

१७

८ अ॰
“ज्येष्ठ-स्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः” भा॰ आ॰

२३

२ अ॰।

३ पूज्ये त्रि॰ शब्दरत्ना॰।
“तस्मान्मुच्ये यथातात! संविधातुम् तथार्हसि” रघुः। पूज्यं वसिष्ठं प्रतिदिलीपसम्बोधनम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तात¦ mfn. (-तः-ता-तं) Venerable, reverend, respectable. m. (-तः)
1. A father.
2. A term of affection addressed to any person, but especi- ally to a junior or inferior, as हे तात oh! child, &c. E. तन् to extend, (his race or fame,) क्त affix, and the vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तातः [tātḥ], [तन्-क्त दीर्घश्च Uṇ3.9]

A father; मृष्यन्तु लवस्य बालिशतां तातपादाः U.6; हा तातेति क्रन्दितमाकर्ण्य विषण्णः R.9.75.

A term of affection, endearment of pity, applied to any person, but usually to inferiors or juniors, pupils, children &c.; तात चन्द्रापीड K.16; Māl.6.16; रक्षसा भक्षितस्तात तव तातो वनान्तरे Mb.

A term of respect applied to elders or other venerable personages; ह्रेपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुर्भृतः R.11.4.; तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि 1.72.

Any person for whom one feels pity. -Comp. -गुa.

agreeable to a father.

paternal. (-गुः) a paternal uncle. -तुल्यः a paternal uncle, or the most respectable of a man's male relations.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तात m. (See. 1. तत)a father MBh. i R. Vikr. S3ak. iv , 4/5 (in comp. )etc.

तात m. ( तात) voc. a term of affection addressed to a junior([ S3Br. xiv AitBr. vii ChUp. MBh. etc. ]) or senior [i , 6796 Ragh. etc. ] , addressed to several persons MBh. i , 6825 ; v , 5435 (C) Page442,1; in the latter use also voc. pl. ib. (B);i , 6820f.iv , 133;[ cf. ? ; Lat. tata etc. ]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tāta, apparently ‘dada's boy,’ an affectionate term of address by a father (cf. Tata) to a son, is found in the Brāhmaṇas,[१] occurring in the vocative only. But in the sense of ‘father,’ through confusion with Tata, it occurs also as early as the Aitareya Āraṇyaka.[२]

  1. Aitareya Brāhmaṇa, vii. 14, 4;
    Bṛhadāraṇyaka Upaniṣad, vi. 1, 6;
    Chāndogya Upaniṣad, iv. 4, 2.
  2. i. 3, 3, where Tata and Tāta are given as variant forms of the address of the child to the father. Little, Grammatical Index, 75, takes Tāta to mean ‘father’ primarily, but this seems unlikely.

    Cf. Delbrück, Die indogermanischen Verwandtschaftsnamen, 449, 454.
"https://sa.wiktionary.org/w/index.php?title=तात&oldid=499928" इत्यस्माद् प्रतिप्राप्तम्