तारा

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारा, स्त्री, पुं, (तारयतीति । तॄ + णिच् + अच् ।) नक्षत्रम् । इत्यमरः । १ । ३ । २१ ॥ (यथा, महाभारते । १ । २११ । २६ । “चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौ- कसः ॥”) यथाच कर्म्मलोचने । “एकतारं नभो दृष्ट्वा स्मर्त्तव्यो नारदो मुनिः । तावद्भवति चाण्डालो यावदन्यां न पश्यति ॥” अक्षिमध्यम् । इति मेदिनी । रे, ४३ ॥ शेषस्य पर्य्यायः । विम्बिनी २ कनीनिका ३ । इति राजनिर्घण्टः ॥ तारका ४ । इत्यमरः । १ । ३ । २१ ॥ (यथा, हठयोगप्रदीपिकायाम् । ४ । ३९ । “तारे ज्योतिषि संयोज्य किञ्चिदुन्नमयेद्भुवौ ॥”)

तारा, स्त्री, (तारयति तापादिति । तॄ + णिच् + अच् + टाप् ।) बुद्धदेवताभेदः । बृहस्पति- भार्य्या । इति मेदिनी । रे, ४३ ॥ (यथा, देवी- भागवते । १ । ११ । ७५ । “ततः कालेन कियता तारासूत सुतं शुभम् ॥”) बालिभार्य्या । सा सुषेणवानरकन्या । इति रामायणम् ॥ (यथा, महाभारते । ३ । २७९ । १८ । “हेममाली ततो बाली तारां ताराघिपान- नाम् । उवाच वचनं वाग्मी तां वानरपतिः पतिः ॥”) चीडा । मुक्ता । इति राजनिर्घण्टः ॥ * ॥ द्वितीया शक्तिः । यथा, -- “लीलया वाक्प्रदा चेति तेन लीलसरस्वती । तारकत्वात् सदा तारा सुखमोक्षप्रदायिनी ॥ उग्रापत्तारिणी यस्मादुग्रतारा प्रकीर्त्तिता ॥” अस्या ध्यानं यथा, -- “प्रत्यालीढपदार्पिताङ्घ्रिशवहृद्घोराट्टहासा परा खड्गेन्दीवरकर्त्तृखर्परभुजा क्रूङ्कारबीजोद्भवा । खर्व्वा नीलविशालपिङ्गलजटाजूटैकनागैर्युता जाड्यं न्यस्य कपालके त्रिजगतां हन्त्युग्रतारा- स्वयम् ॥” अपि च । “प्रत्यालीढपदां घोरां मुण्डमालाविभूषिताम् । खर्व्वां लम्बोदरीं भीमां व्याघ्रचर्म्मावृतां कटौ ॥ नवयौवनसम्पन्नां पञ्चमुद्राविभूषिताम् । चतुर्भुजां ललज्जिह्वां महाभीमां वरप्रदाम् ॥ खडगकर्त्तृसमायुक्तसव्येतरभुजद्बयाम् । कपालोत्पलसंयुक्तसव्यपाणियुगान्विताम् ॥ पिङ्गोग्रैकजटां ध्यायेन्मौलावक्षोऽभ्यभूषिताम् । बालार्कमण्डलाकारलोचनत्रयभूषिताम् ॥ ज्वलच्चितामध्यगतां घोरदंष्ट्रां करालिनीम् । सावेशस्मेरवदनां स्त्र्यलङ्कारविभूषिताम् ॥ विश्वव्यापकतोयान्तःश्वेतपद्मोपरिस्थिताम् ॥” अस्या दशाक्षरमन्त्रोक्तध्यानं यथा, -- “श्यामवर्णां त्रिनयनां द्विभुजां वरपङ्कजे । दघानां बहुवर्णाभिर्बहुरूपाभिरावृताम् ॥ शक्तिभिः स्मेरवदनां स्मेरमौक्तिकभूषणाम् । रत्नपादुकयोर्न्यस्तपादाम्बुजयुगां स्मरेत् ॥” इति तन्त्रसारः ॥ (अस्या बीजं यथा, “ह्री~ स्त्री~ हु~ फट् ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारा स्त्री।

नक्षत्रम्

समानार्थक:नक्षत्र,ऋक्ष,भ,तारा,तारका,उडु,धिष्ण्य,ज्योतिस्

1।3।21।1।4

नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम्. दाक्षायिण्योऽश्विनीत्यादि तारा अश्वयुगश्विनी॥

 : ध्रुवः, अश्विनीत्यादि-नक्षत्राणाम्_संज्ञा, अश्विनी-नक्षत्रम्, विशाखा-नक्षत्रम्, पुष्य-नक्षत्रम्, धनिष्ठा-नक्षत्रम्, पूर्वभाद्रपदा-नक्षत्रम्, उत्तरभाद्रपदा-नक्षत्रम्, मृगशिरा-नक्षत्रम्, मृगशीर्षनक्षत्रशिरोदेशस्थाः_पञ्चस्वल्पतारकाः, नक्षत्रनाम, नक्षत्रम्, मूलानक्षत्रम्, भभेदः

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारा¦ स्त्री तारयति संसारर्णवात् भक्तान् तॄ--णिच्--अच्।

१ दशमहाविद्यान्तर्गते द्वितीयमहाविद्याभेदे।

२ नक्षत्रे च[Page3279-a+ 38] तत्र नक्षत्रादीनां लिङ्गभेदा यथा
“हस्ता स्वातीश्रवणा अक्लीवे मृगशिरो नपुंसि स्यात्। पुंसि पुनर्वसु-पुष्यौ मूलं त्वस्त्रो स्त्रियः शेषाः अधिकमृक्षशब्दे

१४

०० पृ॰दृश्यम्।
“काली तारा महाविद्या षीडशी भुबनेश्वरी” इत्यादि तन्त्रसा॰
“तारकत्वात् सदा तारा सुखमोक्षप्रदा-यिनी। उग्रापत्तारिणी यस्मादग्रतारा ततः स्मृता” तन्त्रसा॰ तन्नामनिरुक्तिः।

३ बुद्धदेवताभेदे

४ वृहस्पतिभा-र्य्यायाम् मेदि॰।

५ सुषेणवानरकन्यायां वालिभार्य्यायाञ्च

६ चिडानामगन्धद्रव्ये

७ मुक्तायाञ्च राजनि॰।
“वृहस्पतेः स वै भार्य्यां तारां नाम यशस्विनीम्। जहार तरसा सर्वानवमत्याङ्गिरःसुतान्। स (चन्द्रः)याच्यमानो देवैश्च तथा देवर्षिभिः सह। नैव व्यसर्जयत्तारां तस्मायाङ्गिरसे तदा”
“ददावङ्गिरसे तारां स्वय-मेव पितामहः। तामन्तःप्रसवां दृष्ट्वा तारां प्राह वृहस्पतिः। मदीयायां न ते योनौ गर्भो धार्य्यः कथ-ञ्चन। अयोनावुत्सृजत्तं वै कुमारं दस्युहन्तमम्। ईषीकास्तम्बमासाद्य ज्वलन्तमिव पावकम्। जातमात्रःस भगवान् देवानामक्षिपद्वपुः। ततः संशयमापन्नास्ता-रामुचुः सुरोत्तमाः। सत्यं ब्रूहि सुतः कस्य सोम-स्याथ वृहस्पतेः। पृच्छ्यमाना यदा देवैर्नाह सा सा-ध्वसाधु वा। तदा तां शप्तुमारब्धः कुमारो दस्युह-न्तमः। तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम्। यदत्र तथ्यं तद् ब्रूहि तारे! कस्य सुतो ह्ययम्। साप्राञ्जलिरुवाचेदं ब्रह्माणं वरदं शनैः। सोमस्येति महात्मानं कुमारं दस्युहन्तमम्” हरिवं॰

२५ अ॰।
“सुषेणादुहिता चेयमर्थसूक्ष्मविनिश्चये। औत्पातिके च विविधेसर्वतः परिनिष्ठिता। यदेषा साध्विति व्रूयात् कार्य्यंतन्मुक्तसंशयम्। न हि तारा मतं किञ्चदन्यथा परि-वर्त्तते” रामा॰ कि॰

२३ अ॰। सा च पश्चात् वालिनीमरणानन्तरं सुग्रीवभार्य्या
“तारया सहितः कामी सक्तःकपिवृषस्तदा”

३१ अ॰
“अहल्या द्रौपदी कुन्ती तारामन्दोदरी तथा। पञ्च कन्याः स्मरेन्नित्यं महापातक-नाशनम्” तत्र मुक्तायां
“तारावलीविकरणैर्व्यरुचन् नि-वासाः” माघः कनीनिकायां
“लुलितनयनताराः क्षाम-वक्त्रेन्दुविम्बाः” माघः। ताराश्च अश्विनादयः। ज्यो॰ त॰ ताः तद्विशेषादिक-ञ्चोक्तं यथा
“अश्विनी भरणी चैव कृत्तिका रोहिणी तथा। मृग-[Page3279-b+ 38] शीर्षं तथा चार्द्रा पुनर्वसुकपुष्यकौ। अश्लेषा च मघापूर्वफल्गुन्युत्तरफल्गुनी। हस्ता चित्रा तथा स्वातीविशाखा चानुराधिका। ज्येष्ठा मूलं तथाषाढे पूर्वो-त्तरपदादिके। श्रवणा च धनिष्ठा च शतभिषाद्यभा-द्रिका। उत्तरादिभाद्रपदा रेवती भानि च क्र-मात्”।
“अश्वियमदहनकमलजशशिशूलभृददितिजी-वफणिपितरः। योन्यर्य्यमदिनकृत्त्वष्णृपवनशक्राग्नि-मित्राः। शक्रोनिरृतिस्तोयं विश्वविरञ्ची हरिर्वसु-र्वरुणः। अजपादोऽहिर्बुध्नः पूषा चेतीश्वरा भानाम्” विशाखायाः शक्राग्न्योर्मिलितदैवतत्वम् अभिजितोभिन्न-त्वेन अष्टाविंशतिरिति तच्च वक्ष्यते इति नक्षत्राधिपाः
“उग्रः पूर्वमघान्तका ध्रुवगणस्त्रीण्युत्तराणि स्वभूर्वाता-दित्यहरित्रयं चरगणः पुष्याश्विहस्ता लघुः। चित्रा नि-त्रमृगान्त्यभं मृदुगणस्तीक्ष्णोऽहिरुद्रेन्द्रयुक्। मिश्रोऽग्निःसविशाखभः शुभकराः सर्वे स्वकृत्ये गणाः।
“शशाङ्कतारयोःशुद्धिर्विचार्य्या सर्वकर्म्मसु। ग्रहाणामपि सर्वेषां तच्छुद्धौफलदातृता”। श्रीपतिसमुच्चये
“ताराचन्द्रबले प्राप्ते दोषा-श्चान्ये भवन्ति ये। ते सर्वे विलयं यान्ति सिंहं दृष्ट्वागजा इव। जन्मसम्पत् विपत्क्षेमं प्रत्यरिः साधको-बधः। मित्रं परममित्रञ्च जन्मभाच्च पुनःपुनः। सर्व-मङ्गलकार्य्याणि त्रिषु जन्मसु कारयेत्। विवादश्राद्ध-भैषज्ययात्राक्षौरादि वर्जयेत्। यात्रायां पथि बन्धनंकृषिविधौ सर्वस्य नाशोभवेत्। भै ज्ये मरणं तथा सुनि-यतं दाहोगृहारम्भणे। क्षौ रोगसमागमोबहुविधःश्राद्धेऽर्थनाशस्तथा वादे बुद्धिविनाशनं युधि भयं प्राप्नो-त्ययं जन्मभे। पापाख्या तु त्रिविधा पञ्चचतुर्दशबिंशति-स्त्रियुत्ता। सिद्धिफला वृद्धिकरी विनाशसंज्ञा क्रमात्कथिता”।
“जन्माद्यं कर्म्म ततोपि दशमं सांघातिकंषोडशकम्। समुदयमष्टादशभं विनाशसंज्ञं त्रयोविंशम्। आद्यात्तु पञ्चविंशम् मानसमेवं नरः षडृक्षः स्यात्। नवनक्षत्रोनृपतिः स्वजातिदेशाभिषेकर्क्षैः”। जात्यर्क्षन्तु।
“पूर्वात्रयं मानलमग्रजानां राज्ञान्तु पौष्णेन सहोत्त-राणि। सपौष्णमित्रं पितृदैवतञ्च प्रजापतेर्भञ्च कृषीव-लानाम्। आदित्यहस्ताभिजिदश्विभानि तान्यन्त्यजातेः-प्रभविष्णुतायाम्”। (देशभं देशनामर्क्षम्)। नाडीनक्ष-त्राणि।
“ईहादेहार्थहानिः स्याज्जन्मर्क्ष उपतापिते। कर्म्मर्क्षे कर्म्मणां हानिः पीडा मनसि मानसे। मूर्त्तिद्र-विणबन्धूनां हानिः सांघातिके तथा। संतप्ते सामुदयिके[Page3280-a+ 38] मित्रभृत्यार्थसंक्षयः। वैनाशिके विनाशः स्यात् देह-द्रविणसम्पदाम्”। नाडीनक्षत्रफलम्।
“जातिभे कुल-नाशः स्याद्बन्धनञ्चाभिषेकभे। देशभे देशभङ्गः स्यात्क्रूरैरेवं शुभैः शुभम्। यस्मिन्राजाभिषिक्तोभवति तदाभि-षेचनिकभम् अ इ उ ए कृत्तिका ओ ववि वु रोहिणी-त्यादिदेशभम् (चक्रशब्दे

१२

४८ पृ॰ शतपदचक्रे दृश्यम्)। उग्रादिगणादिकार्य्यभेदः मु॰ चि॰ उक्तो यथा
“उत्तरात्रयरोहिण्यो भास्करश्च ध्रुवं स्थिरम्। तत्र स्थिरंवीजगेहशान्त्यारामादिसिद्धये। स्वात्यादित्ये श्रुतेस्त्रीणिचन्द्रश्चापि चरं चलम्। तस्मित् गजादिकारोही वाटि-कागमनादिकम्। पूर्वात्रयं याम्यमघे उग्रं कूरं कुज-स्तथा। तस्मिन् घाताग्निशाठ्यानि विषशस्त्रादिसिध्यति। विशाखाग्नेयभे सौम्यो मिश्रं साधारणं स्मृतम्। तत्रा-ग्निकार्य्यमिश्रं च वृषोत्सर्गादिसिद्धये। हस्ताश्विपुष्पाभि-जितः क्षिप्रं लघु गुरुस्तथा। तस्मिन् पण्यरतिज्ञानं भूषा-शिल्पकलादिकम्। मृगान्त्यचित्रामित्रर्क्षमृदु मैत्रं भृगु-स्तथा। तत्र गीताम्बरं क्रीडा मित्रकार्य्यविभूषणम्। मूलेन्द्रार्द्राहिभं सौरिस्तीक्ष्णं दारुणसंज्ञकम्। तत्राभि-चारघातोग्रभेदाः पशुदमादिकम्। मूलाहिमिश्रोग्रमधो-मुखं भवेदूर्ध्वास्यमार्द्रेज्यहरित्रयं ध्रुवम्। तिर्यङ्मुखंमैत्रकरानिलादितिज्येष्ठाश्विनानीदृशकृत्यमेषु”।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारा [tārā], 1 A star or planet in general; हंसश्रेणीषु तारासु R.4.19; Bh.1 15.

A fixed star; Y.3.172; R. 6.22.

The pupil of the eye, the eye-ball; कान्तामन्तः- प्रमोदादभिसरति मदभ्रान्ततारश्चकोरः Māl.9.3; विस्मयस्मेरतारैः 1.28; Ku.3.47.

A pearl.

(in Sāṅkhya Phil.) One of the 8 Siddhis.

(in music) N. of a Rāga of six notes.

A kind of perfume.

(a) N. of the wife of Vāli, king of the monkeys, and mother of Aṅgada. She in vain tried to dissuade her husband Vāli from fighting with Rāma and Sugrīva, and married Sugrīva after Vāli had been killed by Rāma. (b) N. of the wife of Bṛihaspati, the preceptor of the gods. She was on one occasion carried off by Soma (the moon) who refused to deliver her up to her husband when demanded. A fierce contest then ensued, and Brahmā had at last to compel Soma to restore her to her husband. Tārā gave birth to a son named Budha who became the ancestor of the Lunar race of kings (see Bhāg.9.14). (c) N. of the wife of Hariśchandra and mother of Rohidāsa (also called Tārāmatī). (d) N. of a Buddha goddess. (e) N. of a Śakti; Jaina.

Comp. अधिपः the moon; Ku.7.48; Bh.1.71.

Śiva.

Sugrīva. -आपीडः the moon. -आभः quicksilver. -ग्रहः one of the 5 lesser planets exclusive of the sun and moon; Bṛi.S.69.1.

पतिः the moon R.13.76.

Śiva. -पथः the atmosphere, firmament, sky. -प्रमाणम् sidereal measure, sidereal time. -भूषा the night.

मण्डलम् the starry region, the zodiac.

the pupil of the eye.

(लः) A kind of Śiva temple. -मृगः the constellation मृगशिरस् -मैत्रकम् 'the friendship of the stars', spontaneous or unaccountable love; Māl.7.4; U.5. -वर्षम् falling stars.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारा f. ( g. भिदा-दि)a fixed star , asterism(See. स्तृ) Ya1jn5. iii , 172 MBh. etc. ( ifc. f( आ). Mr2icch. iii , 10 )

तारा f. the pupil of the eye (chiefly ifc. ) VarBr2S. lviii , 11 etc.

तारा f. a kind of meteor , vli , 86 and 94

तारा f. (in सांख्यphil. ) one of the 8 सिद्धिs Tattvas.

तारा f. (in music) N. of a रागof six notes

तारा f. a kind of perfume L.

तारा f. a form of दाक्षायणी(worshipped on the mountain किष्किन्धMatsyaP. xiii , 46 ; protectress of the गृत्स-मदs BrahmaP. ii , 18 , 8 ; See. RTL. p.187)

तारा f. N. of a Buddh. goddess , Va1sav. , 433

तारा f. of बृहस्पति's wife (carried off by सोम) MBh. v , 3972 Hariv. 1340 ff. BhP. etc.

तारा f. of the wife of बुद्धअमोघसिद्धBuddh.

तारा f. of a शक्तिJain.

तारा f. of a योगिनीHcat. ii , 1 , 710

तारा f. of a female monkey (daughter of सुषेण, wife of बालिन्and mother of अङ्गद) MBh. iii , 16110 ff. R. i , iv , vi.

तारा f. of रSee.

"https://sa.wiktionary.org/w/index.php?title=तारा&oldid=400252" इत्यस्माद् पुनः प्राप्तिः