ध्रुव

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुवम्, क्ली, (ध्रुवति स्थिरीभवतीति । ध्रु + “स्रुवः कः ।” उणां । २ । ६१ । इत्यत्र । “बाहुलकात् ध्रु स्थैर्य्ये अतोऽपि कः ।” इत्युज्ज्वलदत्तोक्त्या कः ।) निश्चितम् । (यथा, शाकुन्तले १ अङ्के । “ध्रुवं स नीलोत्पलपत्रधारया शमीलतां च्छेत्तुमृषिर्व्यवस्यति ॥”) तर्कः । इति मेदिनी । वे, १३ ॥ आकाशम् । इति हेमचन्द्रः ॥

ध्रुवम्, त्रि, (ध्रु गतिस्थैर्य्ये + बाहुलकात् कः ।) सन्ततम् । शाश्वतम् । इति मेदिनी । वे, १३ ॥ स्थिरम् । निश्चितम् । इति हेमचन्द्रः । ६ । ८९ ॥ (यथा, चाणक्यशतके । ६३ । “यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥”)

ध्रुवः, पुं, (ध्रुवति स्थिरीभवतीति । ध्रु + बाहुलकात् कः ।) शङ्कुः । हरः । (यथा, महाभारते । १३ । १७ । १०३ । “घाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥”) विष्णुः । (यथा, महाभारते । १३ । १४९ । १९ । “विश्वकर्म्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥”) वटः । उत्तानपादजः । (अस्य विवरणन्तु पश्चात् द्रष्टव्यम् ॥) वसुभेदः । (यथा, मात्स्ये । ५ । २१ । “आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ॥”) योगभेदः । इति मेदिनी । वे, १३ ॥ (यथा, ज्योतिषे । “गण्डो वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा ॥”) स्थाणुः । इत्यमरः । २ । ४ । ८ ॥ शरारि- पक्षी । इति त्रिकाण्डशेषः ॥ ध्रुवकः । इति सङ्गीतदामोदरः ॥ * ॥ (रोहिणीगर्भे वसुदेवा- ज्जातः पुत्त्रविशेषः । यथा, भागवते । ९ । २४ । ४६ । “बलं गदं सारणञ्च दुर्म्मदं विपुलं ध्रुवम् । वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत् ॥” पाण्डवपक्षीयः कश्चित् क्षत्त्रियवीरः । इति महाभारते । ७ । १५६ । ३७ ॥ नहुषस्य पुत्त्र- विशेषः । यथा, महाभारते । १ । ७५ । ३० । “यतिं ययातिं संयातिमायातिमयतिं ध्रुवम् । नहुषो जनयामास षट् सुतान् प्रियवाससि ॥” पुरुवंशीयरन्तिनावस्य पुत्त्रविशेषः । यथा, भागवते । ९ । २० । ६ । पदाङ्गुष्ठेन संपीड्य यदा च वसुधां स्थितः । तदा समस्तवसुधा चचाल सह पर्व्वतैः ॥ भगवानपि सर्व्वात्मा तन्मयत्वेन तोषितः । गत्वा ध्रुवमुवाचेदं चतुर्भुजवपुर्हरिः ॥ औत्तानपादे भद्रन्ते तपसा परितोषितः । वरदोऽहमनुप्राप्तो वरं वरय सुव्रत ! ॥ ध्रुव उवाच । भगवन् सर्व्वभूतेश ! सर्व्वस्यास्ते भवान् हृदि । किमज्ञातं तव स्वामिन् ! मनसा यन्मयेप्सितम् ॥ नैतद्राजासनं योम्यमजातस्य ममोदरात् । इति गर्व्वादवोचन्मां सपत्नी मातुरुच्चकैः ॥ आधारभूतं जगतः सर्व्वेषामुत्तमोत्तमम् । प्रार्थयामि प्रभो ! स्थानं त्वत्प्रसादादतोऽव्ययम् ॥ श्रीभगवानुवाच । त्रैलोक्यादधिके स्थाने सर्व्वताराग्रहाश्रयः । भविष्यति न सन्देहो मत्प्रसादाद्भवान् ध्रुव ! ॥ सूर्य्यात् सोमात् तथा भौमात् सोमपुत्त्राद्बृह- स्पतेः । सितार्कतनयादीनां सर्व्वर्क्षाणां तथा ध्रुवम् ॥ सप्तर्षीणामशेषाणां ये च वैमानिकाः सुराः । सर्व्वेषामुपरि स्थानं तव दत्तं मया ध्रुव ! ॥” इति विष्णुपुराणे १ अंशे ११ अध्यायः ॥ * ॥ ध्रुवयोगजातफलं यथा, -- “नरीनर्त्ति वाणी सदा वक्त्रपद्मे चरीकर्त्ति काव्यं बरीभर्त्ति बन्धून् । ध्रुवाख्ये प्रसूतिर्ध्रुवा तस्य कीर्त्ति- र्दिगन्ते नितान्तं भवेच्चारुमूर्त्तिः ॥” इति कोष्ठीप्रदीपः ॥ * ॥ ध्रुवगणो यथा । उत्तरफल्गुनी १ उत्तराषाढा २ उत्तरभाद्रपद् ३ रोहिणी ४ । इति ज्योति- षम् ॥ * ॥ ताराविशेषः । यथा, -- “मेरोरुभयतो मध्ये ध्रुवतारे नभःस्थिते । निरक्षदेशसंस्थानामुभये क्षितिजाश्रिते ॥ भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलैः । पर्य्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥” इति सूर्य्यसिद्धान्ते १२ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुव पुं।

ध्रुवः

समानार्थक:ध्रुव,औत्तानपादि

1।3।20।1।1

ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसम्भवः। मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी॥

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

ध्रुव पुं।

शाखापत्ररहिततरुः

समानार्थक:स्थाणु,ध्रुव,शङ्कु

2।4।8।2।2

फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु। स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

ध्रुव वि।

नित्यम्

समानार्थक:शाश्वत,ध्रुव,नित्य,सदातन,सनातन,निज,सना

3।1।72।2।2

ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ। शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

ध्रुव पुं।

भभेदः

समानार्थक:ध्रुव

3।3।211।2।1

शूद्रायां विप्रतनये शस्त्रे पारशवो मतः। ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

ध्रुव नपुं।

निश्चितम्

समानार्थक:सृष्टि,केवल,ध्रुव,नूनम्,अवश्यम्

3।3।211।2।1

शूद्रायां विप्रतनये शस्त्रे पारशवो मतः। ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

ध्रुव वि।

शाश्वतम्

समानार्थक:ध्रुव

3।3।211।2।1

शूद्रायां विप्रतनये शस्त्रे पारशवो मतः। ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुव¦ त्रि॰ कु॰ ध्रु--अच्।

१ स्थिरे

२ निश्चिते हेमच॰

३ सन्तते

४ शाश्वते

५ तर्के न॰ मेदि॰।

६ गगने न॰ हेम॰।

७ शङ्कौ

८ विष्णौ

९ हरे

१० वटे

११ उत्तानपादनृपसुतभेदे पु॰ मेदि॰

१२ वसुभेदे विष्कुम्भादिषु

१३ द्वादशे योगे पु॰ मेदि॰।

१४ स्थाणौ पु॰ अमरः

१५ शरारिखगे पुंस्त्री॰ त्रिका॰।

१६ ध्रुवके (धुया)ख्याते पदार्थे पु॰ संगीतदा॰।

१७ आका-शस्थिते ताराद्वये च पु॰। ते च सर्वेषां नक्षत्रादीना-माधारभूते उत्तरदक्षिणयोः स्थिते सू॰ सि॰ उक्ते यथा
“मेरोरुभयतो मध्ये ध्रुवतारे नमःस्थिते। निरक्षदेशसं-स्थानामुभये क्षितिजाश्रये” मू॰।
“मेरोरुभयतो दक्षिणो-त्तराग्रयोराकाशस्थिते ध्रुवतारे दक्षिणोत्तरे क्रमेण मध्य-आकाशमध्ये भवतः। निरक्षदेशसंस्थानां प्रागुक्तनगर-स्थितमनुष्याणामुभये दक्षिणोत्तरे ध्रुवतारे क्षितिजाश्रयेतद्भूगर्भक्षितिजवृत्तस्ये भवत इत्यर्थः। ” रङ्गना॰। अतएवतेष्यक्षांगाभावलम्बांशपरमत्वमिति वदन् मेरावक्षांशपर-[Page3916-b+ 38] मत्वमित्याह
“अतो नाक्षोच्छ्रयस्तासु ध्रुवयोः क्षितिजस्थयोः। नवतिर्लम्बकांशास्तु मेरावक्षांशकास्तथा” मू॰।
“तासूक्तनगरीषु। अत उभये क्षितिजाश्रये इतिकारणात् अक्षोच्छ्रयो ध्रुवौच्च्यं न। तथाच क्षिति-जाद्ध्रुवौच्च्यमक्षांशा इति तदभावात् तदभाव इतिभावः। तुकारात् तन्नगरीषु ध्रुवयीः क्षितिजस्थयोःसतीर्लम्बांशा नवतिः शून्याक्षांशोननवतेर्लम्बांशत्वात्। खमव्याद्ध्रुवयोः क्षितिजस्य लम्बांशस्वरूपत्वाच्च मेराव-क्षांशास्तथा नवतिः, ध्रुवस्य परमोच्चत्वात्। यथानिरक्षदेशेऽक्षांशाभावाल्लम्बांशाः परमास्तथा मेरावक्षां-शपरमत्वाल्लब्धांशाभाब इत्यर्थसिद्धम्। ” रङ्गनाथः।
“निरक्षदेशक्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षि-णोत्तरौ। तदाश्रितं खे जलवन्त्रवत् तथा भ्रमद्भचक्रंनिजमस्तकोपरि। उदग्दिशं याति यथा यथा नरस्तथातथा स्यान्नतमृक्षमण्डलम्। उदग् ध्रुवं पश्यति चोन्नतंक्षितेस्तदन्तरे योजनजाः पलांशकाः। योजनसंख्याभां-शैर्गुणिता स्वपरिधिहृता भवन्त्यंशाः। भूमौ कक्षायांवा भागेभ्यो योजनानि च व्यस्तम्। सौम्यं ध्रुवं मेरु-गताः खमध्ये याम्यं च दैत्या निजमस्तकोर्द्ध्वे। सष्या-पसव्यं भ्रमदृक्षचक्रं विलोकयन्ति क्षितिजप्रसक्तम्” सि॰ शि॰। विष्णुवरेण उत्तानपादनृपपुत्रस्यैव तदधिष्ठा-तृत्वं तथाभूतपदलाभकथा च काशीख॰
“विष्णुरुवाच
“अयि! बाल! विशालाक्ष! ध्रुव! ध्रुवमते!ऽ-नघ!। परिज्ञातो मया सम्यक् तव हृत्स्थो मनोरथः। अन्नाद् भवन्ति भूतानि वृष्टेरन्नसमुद्भषः। तद्वृष्टेःकारणं सूर्यः सूर्य्याधारो ध्रुवो विभो!। ज्योतिश्चक्रस्यसर्वस्य ग्रहर्क्षादेः समन्ततः। गगने भ्रमगो नित्यं त्व-माधारो भविष्यसि। मेधीभूतः स वै सर्वान् वायुपाशै-र्नियन्त्रितान्। आकल्पं तत्पदे तिष्ठन् भ्वामयन् ज्यो-तिषाङ्गणान्। आराध्य श्रीमहादेवं पुरा पदमिदंमया। आसादि यत्तदेतत्ते तपसा प्रतिपादितम्। केचि-च्चतुर्युगं यावत् केचिन्मन्वन्तरं ध्रुव!। तिष्ठति त्वन्तु-वै कल्पं पदमेतत् प्रशास्यसि। मनुनापि न यत् प्रापिकिमन्यैर्मानवैर्ध्रुव!। तत्पदं विहितं वत्स! शक्राद्यै-रपि दुर्लमम्। अन्यान् वरान् प्रयच्छामि स्तवेनानेनतोषितः। सुनीतिरपि ते माता त्वत्समीपे भविष्यति” भाग॰

५ ।

२३ अ॰ शनिलोकपर्यन्तवर्णनान्ते
“अथ तस्मात् परतस्त्रयोदश लक्षयोजनान्तरतोयत्तद्विष्णोः[Page3917-a+ 38] परमं पदमभिवन्दन्ति। यत्र महाभागवतो ध्रुव औ-त्तानपादिरग्निनेत्रेण प्रजापतिना कश्यपेन धर्मेण चसमकालयुग्भिः। सहबहुमानं दक्षिणतः क्रियमाणइदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्य महानु-भाव उपवर्णितः। स हि सर्वेषां ज्योतिर्गणानां ग्रह-नक्षत्रादीनाम् अनिमिषेणाव्यक्तरंहसा भगवता कालेनभ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः शश्व-दवभासते। यथा मेधीस्तम्भ आक्रमणपशवः संयोजितास्त्रिभिः सवनैर्यथा स्थानमण्डलानि चरन्ति। एवंभगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आ-योजिता ध्रुवमेवालम्ब्य वायुनोदीर्य्यमाणा आकल्पान्तंपरितः क्रामन्ति। नभसि यथा मेघाः श्येनादयो वायु-वशाः कर्मसारथयः परिवर्त्तन्ते। एवं ज्योतिर्गणाःप्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयो भुवि नपतन्ति। ”
“सर्वे ध्रुवे निबद्धास्ते निबद्धा वातरश्मिभिः। एते वै भ्राम्यमाणास्ते यथायोगं वहन्ति वै। वायव्या-भिरदृश्याभिः प्रबद्धा वातरश्मिभिः। परिभ्रमन्ति तद्-बद्धाश्चन्द्रसूर्यग्रहादिवि। यावत्तमनुपर्येति ध्रुवं वै ज्यो-तिषाङ्गणः। यथा नद्युदके नौस्तु उदकेन सहोह्यते। तथा देव गृहाणि स्युरुह्यन्ते वातरंहसा। तस्माद्यानिप्रगृह्यन्ते व्योम्नि देवग्रहा इति। यावन्त्यश्चैव ताराःस्युस्तावन्त्योऽस्य मरीचयः। सर्वा ध्रुवनिबद्धास्ता भ्रमन्त्योभ्रामयन्ति च। तैलपीडं यथा चक्रं भ्राम्यते भ्राम-यन्ति वै। तथा भ्रमन्ति ज्योतींषि वातबद्धानि सर्वशः। अलातचक्रवद्यान्ति वातचक्रेरितानि तु। यस्मात्प्रवहते तानि प्रवहस्तेन स स्मृतः। एवं ध्रुवे नियु-क्तोऽसौ भ्रमते ज्योतिषाङ्गणः। एष तारामयः प्रोक्तःशिशुमारे ध्रुवो दिवि” मत्स्यपु॰

१२

६ अ॰वसुभेदश्च
“धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः” भा॰ आ॰

६६ अ॰। औत्तानपादिकथा
“प्रियव्रतोत्तानपादौ मनोःस्वायम्भुवस्य तु। द्वौ पुत्रौ सुमहावीर्य्यौ धर्मज्ञौकथितौ तव। तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः। अभीष्टायामभूद्व्रह्मन्! पितुरत्यन्तवल्लमः। सुनीतिर्नामया राज्ञस्तस्यामून्महिषी द्विज!। स नृपीऽप्रीतिमां-स्तस्यां तस्याश्चाभूद्ध्रुवः सुतः” विष्णुपु॰

११ अ॰। ( गानाङ्गे
“ध्रुवाहि नाट्यस्य प्राणाः” तच्छास्त्रम्।

१८ रोमावर्त्तभेदे
“आवर्त्तसाम्यादावर्त्तो रोमसंस्थानमङ्गि-[Page3917-b+ 38] नाम्” ते च दशधा
“द्वावुरस्यौ शिरस्यौ द्वौ द्वौ च रन्ध्रोपरन्ध्रयोः। एको भाले ललाटे च दशावर्त्ता ध्रुवाःस्मृताः” शब्दार्थचि॰
“उग्रः पूर्वमथान्तको ध्रुवगणस्त्रीण्यु-त्तराणि स्वभूः ज्यो॰ उक्ते

१९ उत्तरात्रयरोहिणीषुनक्षत्रेषु
“मित्र ध्रुवक्षिप्रभे” मु॰ चि॰।
“ध्रुवगुरुकर-मूलापौष्णभान्यर्कवारे” ज्यो॰ त॰।

२० नासाग्रभागे
“अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते। विष्णोःपदानि भ्रूमध्यं नेत्रयोर्मातृमण्डलम्” काशीख॰

४१ अ॰
“अरुन्धतीं ध्रुवञ्चैव विष्णोस्त्रीणि पदानि च। आसन्न-मृत्युर्नोपश्येत् चतुर्थं मातृमण्डलम्” तत्रैव। तत्रवितर्क उत्प्रेक्षा तत्र
“ध्रुवं स नीलोत्पलपत्र धारयाशमीलतां छेत्तुमृषिर्व्यवस्यति” शकु॰। स्थिरे
“ध्रुवमपाये” पा॰।
“अपाये यदुदासीनं चलं वा यदि वाऽचलम्। ध्रुवमेवातदावेशात्” हरिका॰ निश्चिते
“यो ध्रुवाणिपरित्यज्य अध्रुवाणि विचिन्तयेत्। ध्रुवाणि तस्यनश्यन्ति अध्रुवं नष्टमेव च” हितो॰। विष्णौ
“व्यवसायोव्यवस्थानः संस्थानः स्थानदो ध्रुवः” विष्णुस॰।

२१ यज्ञिये ग्रहपात्रभेदे पु॰।
“ततो ग्रहग्रहणमाध्रुवात्” कात्या॰ श्रौ॰

७ ।

५ ।

१७
“आध्रुवग्रहग्रहणात्” कर्कः।

२२ ग्रहनक्षत्राद्यानयनोपयोगिनि अङ्कभेदे तत्र नक्षत्रध्रुवःसू॰ सि॰ उक्तः खगोलशब्दे

२४

२३ पृ॰ दर्शितः। संक्षेप-तस्तु सि॰ शि॰ प्रमिताक्षरोक्तः

२४

२५ पृ॰ दर्शितः। ग्रहध्रुवानयनन्तु
“कल्पजचक्रहतास्तु गताव्दाः क-ल्पसमाविहृता भगणाद्याः। स्युध्रुर्वका दिनकृद्भगणान्तेपानमृदूच्चचलोच्चखगानाम्” सू॰ सि॰। अत्र स्वार्थे क। ध्रुवनक्षत्रे
“हुत्वोत्थायोपनिष्क्रम्य ध्रुवं दर्शयति” गो॰ सू॰
“ध्रुवं नक्षत्रविशेषं दर्शयति पतिः” सं॰ त॰ रघु॰।
“शरत्प्रस-सन्नैर्ज्योतिर्भिः विभावर्य इव ध्रुवम्” रघुः।
“स्फुटतर-मुपरिष्टादल्पमूर्त्तेर्ध्रुवस्य स्फुरति सुरमुनीनां मण्डलंव्यस्तमेतत्” माघः।

२३ आवश्यके धृतिहोमशब्दे दर्शितगोभिलवाक्ये
“ध्रुवा आहुतीर्जुहोति”।
“अष्टका-माघ्यभ्युदयास्तीर्थपात्रोपत्तयः। पितॄणामतिरेकोऽयंमासिकान्नात् ध्रुवः स्मृतः” देवीपु॰
“मासिकान्नात्अमावस्याश्राद्धादतिरेकः अष्टकादिश्राद्धगणो ध्रुवआवश्यकः” श्रा॰ त॰ रघु॰। आवश्यकत्वञ्च अवश्यकर्तव्यत्वंतेनाकरणे प्रत्यवायजनकत्वात् नित्यत्वमिति फलितम्। सन्तते निश्चिते
“जातस्य हि ध्रुबोमृत्युर्ध्रुवं जन्म मृतस्यच” गीता
“यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः” मनुः[Page3918-a+ 39] स्थिरे
“ध्रुवोऽसि पृथिवीं दृंह ध्रुवक्षिदसि” यजु॰

५ ।

१३
“ध्रुवे स्थिरे यज्ञे क्षीयति निवसति इति ध्रुवक्षित्” वेददी॰

२४ सोमभेदे
“उपयामगृहीतोऽसि ध्रुवोऽसिध्रुवक्षितिर्ध्रुवाणां ध्रुवतमोऽच्युतानामच्युतक्षित्तमः” यजु॰

७ ।

२५
“हे सोम! त्वमुपयामेन पात्रेण गृही-तोऽसि ध्रुवनामकोऽसि कीदृशस्त्वम् ध्रुवा स्थिरा क्षि-तिर्निवासो यस्य स ध्रुवक्षितिः” वेददी॰।

२५ शकुन्यादिकरश्चतुष्के न॰
“ध्रुवाणि शकुनिर्नागं तृतीयं च चतुष्वदम्। किंस्तुघ्नं च चतुर्द्दश्याः कृष्णायाश्चापरार्द्धतः” सू॰ सि॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुव¦ r. 6th cl. (ध्रुवति)
1. To stand, firm.
2. To go or move. ध्रु अच् |

ध्रुव¦ mfn. (-वः-वा-वं)
1. External.
2. Fixed, stable, firm.
3. Continual, permanent.
4. Certain, ascertained.
5. Spread, extended. m. (-वः)
1. A name of BRAMHA
4.
2. SIVA.
3. VISHN4U.
4. The polar star or north pole itself; in mythology, personified by DHRUVA, the son of UTTA4NAPA4DA, and grandson of the first MANU.
5. The pole of any great circle, particularly either of the celestial poles.
6. (In Astronomy,) The distance of a planet from the beginning of the sydereal zodiac.
7. Any epoch to which a computation of dates is referred.
8. One of the demi-gods called VASUS.
9. The trunk of a lopped tree.
10. The Indian fig tree, (Ficus Indica.)
11. One of the twenty-seven astronomical Yo4gas, or the Yo4ga star of the twelfth lunar asterism, supposed to be Leonis.
12. A sort of bird: see शराटि। n. (-वं)
1. Ascertainment, certainty.
2. Logic, reasoning, discussion.
3. Heaven. f. (-वा)
1. A sacrificial vase made in the shape of the Indian fig leaf, and of the wood of the Flacourtia sapida.
2. A plant, (Hedysarum gangeticum.)
3. A small tree from the fibres of which bow strings are made: see मूर्ब्बा।
4. The intro- ductory stanza of a song: it is distinct form the verses of the song, after each of which it is again repeated as a burden or chorus.
5. A virtuous woman. E. ध्रु to be fixed affix अच्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुव [dhruva], a.

(a) Fixed, firm, immovable, stable, permanent, constant, unchangeable; इति ध्रुवेच्छाम- नुशासती सुताम् Ku.5.5. (b) Perpetual, everlasting, eternal; ध्रुवेण भर्त्रा Ku.7.85; Ms.7.28.

Fixed (in astrology).

Certain, sure, inevitable; जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च Bg.2.27; यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते Chāṇ.63; Pt.1.419.

Retentive, tenacious; as in ध्रुवा स्मृति Ch. Up.7.26.2.

Strong, fixed, settled (as a day).

वः The polar star; शरत्प्रसन्नैर्ज्योतिर्भिर्विभावर्य इव ध्रुवम् (अन्वयुः) R.17.35; 18.34; ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन (सा दृष्टा) Ku.7.85.

The pole of any great circle.

The distance of a planet from the beginning of the sidereal zodiac, polar longitude.

The Indian figtree.

A post, stake.

The stem or trunk (of a tree lopped off).

The introductory stanza of a song (repeated as a kind of chorus; see Gīt.).

Time, epoch, era.

An epithet of Brahmā.

Of Viṣṇu.

Of Śiva.

A constant arc.

The tip of the nose.

A sacrificial vessel.

N. of the son of Uttānapāda and grandson of Manu. [Dhruva is the polar star, but personified in mythology as the son of Uttānapāda. The account of the elevation of an ordinary mortal to the position of the polar star runs thus: Uttānapāda had two wives, Suruchi and Sunīti, but the latter was disliked by him. Suruchi had a son named Uttama, and Sunīti gave birth to Dhruva. One day the boy tried, like his elder brother, to take a seat in his father's lap, but he was contemptuously treated both by the King and his favourite wife. The poor child went sobbing to its mother who told him in consolatory terms that fortune and favour were not attainable without hard exertions. At these words the youth left the paternal roof, retired to the woods, and, though quite a lad, performed such rigorous austerities that he was at last raised by Viṣṇu to the position of the Polar Star.]

Peg Nm.

N. of an astrological yoga (Nm.).

वम् The sky, atmosphere.

Heaven.

The fixed point (from which a departure takes place); P.I.4.24.

A certain Yoga (अमृतसिद्धि); सेनामाज्ञापयामासुर्नक्षत्रे$हनि च ध्रुवे Mb.14.63.18. (Com. रोहिण्यामुत्तररात्रये च अहनि वारे ध्रुवे रविवारे उत्तरार्के$मृतसिद्धि- योगे).

वा A sacrificial ladle (made of wood); साधारण्यान्न ध्रुवायां स्यात् Jaiminisūtras.

A virtuous woman.

A cow who stands still when being milked; सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती Av.12.1.45.

A bow-string.

clapping the hands together to show a particular measure of time in music; स्रुचि मौर्व्यां तालभेदे स्त्रियाम् Nm.

The upper quarter (ऊर्ध्व); किंदेवतो$स्यां ध्रुवायां दिशि Bṛi. Up.3.9.24. (MW's meaning is अधर- दिशा?) -वम् ind. Certainly, surely, verily; R.8.49; ध्रुवं स नीलोत्पलपत्रधारया समिल्लतां छेत्तुमृषिर्व्यवस्यति Ś.1.18.-Comp. -अक्षरः an epithet of Viṣṇu (ओम्). -आयर्तः the point on the crown of the head from which the hair radiate. -केतुः a kind of meteor. -गतिः a firm position.-तारा, -तारकम् the Polar star. -भागः the unchangeable longitude of fixed stars. -मण्डलम् the polar region. -यष्टिः the axis of the poles. -योनि a. having a firm resting place. -रत्ना N. of one of the मातृकाs (attending on Skanda). -शीलः a. having a fixed residence.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुव mf( आ)n. (prob. fr. धृ, but See. ध्रुand ध्रुव्)fixed , firm , immovable , unchangeable , constant , lasting , permanent , eternal RV. etc. ( e.g. the earth , a mountain , a pillar , a vow etc. ; with स्वा-ङ्गn. an inseparable member of the body Pa1n2. 6-2 , 177 ; with धेनुf. a cow which stands quiet when milked AV. xii , 1 , 45 ; with दिश्f. the point of the heavens directly under the feet [reckoned among the quarters of the sky See. 2. दिश्] AV. Br. Page521,3 ; with स्मृतिf. a strong or retentive memory ChUp. vii , 26 , 2 ; See. also under करणand नक्षत्र)

ध्रुव mf( आ)n. staying with( loc. ) RV. ix , 101 , 12

ध्रुव mf( आ)n. settled , certain , sure Mn. MBh. Ka1v. etc.

ध्रुव mfn. ifc. = पापL.

ध्रुव m. the polar star (personified as son of उत्तान-पादand grandson of मनु) Gr2S. MBh. etc.

ध्रुव m. celestial pole Su1ryas.

ध्रुव m. the unchangeable longitude of fixed stars , a constant arc ib.

ध्रुव m. a knot VS. v , 21 ; 30

ध्रुव m. a post , stake L.

ध्रुव m. the Indian fig-tree L.

ध्रुव m. tip of the nose (?) L.

ध्रुव m. a partic. water-bird ib.

ध्रुव m. the remaining( i.e. preserved) ग्रहwhich having been drawn in the morning is not offered till evening S3Br. Vait.

ध्रुव m. (in music) the introductory verse of a song (recurring as a kind of burthen) or a partic. time or measure( ताल-विशेष)

ध्रुव m. any epoch to which a computation of dates is referred W.

ध्रुव m. N. of an astrol. योग

ध्रुव m. of the syllable Om Ra1matUp.

ध्रुव m. of ब्रह्माL.

ध्रुव m. of विष्णुMBh.

ध्रुव m. of शिवS3ivag.

ध्रुव m. of a serpent supporting the earth Gr2S. TA1r.

ध्रुव m. of a वसुMBh. Hariv. Pur.

ध्रुव m. of a son of वसु-देवand रोहिणीBhP.

ध्रुव m. of an आङ्गिरस(supposed author of RV. x , 173 ) Anukr.

ध्रुव m. of a son of नहुषMBh.

ध्रुव m. of a follower of the पाण्डुs ib.

ध्रुव m. of a son of रन्ति-नार(or रन्ति-भार) Pur.

ध्रुव m. ( scil. वृत्ति)a partic. mode of life Baudh.

ध्रुव m. ( scil. स्त्री)a virtuous woman L.

ध्रुव m. Desmodium Gangeticum L.

ध्रुव m. Sanseviera Zeylanica L.

ध्रुव m. (in music) the introductory verse(See. above )

ध्रुव n. the fixed point (from which a departure takes place) Pa1n2. 1-4 , 24

ध्रुव n. the enduring sound (supposed to be heard after the अभिनिधान) RPra1t.

ध्रुव n. air , atmosphere L.

ध्रुव n. a kind of house Gal.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of उत्तानपाद and सुनीति (भा। प्। & वि। प्।) (म्।, ब्र्। & वा। प्। speak of सूनृता as his mother). A grandson of स्वायम्भुव Manu; hated by his father's more beloved wife, Suruci, took leave of his mother to go to the forest; met नारद and was blessed, advised and initiated by the sage; as a child of five went to Madhuvana on the bank of the यमुना; continued to meditate on the Lord's glory for a period of १०,000 years, sometime eating roots and fruits, and sometime fasting; sought refuge in विष्णु, standing on one foot to the great consternation of gods. फलकम्:F1:  भा. IV. ch. 8. (whole); Br. II. ३६. ८८-95; M. 4. ३५-36; १४३. ३८; वा. ६२. ७५-78.फलकम्:/F Hari appeared before him, and touching his baby cheeks, conferred on him divine speech; his praise of the Lord; assuring him a place in the mansion of the luminaries, Hari asked him to go home and rule righteously which he did for ३६,000 years. Dhruva's return was welcomed by the king and his queens; bowed to his parents and embraced उत्तान; was welcomed by the citizens; getting old, the king anointed Dhruva and retired to forest. फलकम्:F2:  भा. IV. ch. 9. (whole).फलकम्:/F Had two queens: one was भ्रमी who gave birth to Kalpa and Vatsara; the other इला whose son was Utkala. (According to ब्र्। प्। one wife was भूमी who gave birth to सृष्टि and Bhavya; accord- ing to म्। प्। धन्या, the daughter of Manas was one of his queens and her son was शिष्ट.). Heard the death of his brother Uttama at the hands of a यक्ष and led an expedition to the city of the यक्षस्: In the war innocents also were killed, whereupon his grand- sire, Manu came to the spot and advised to desist from it, especially as it would irritate Kubera. On this, he met Kubera who praised his valour and his sense of duty and offered some boons. Dhruva asked that he must ever remember the feet of the Lord. फलकम्:F3:  Ib. II. 7. ४३; IV. chh. १०, ११. (whole); Ib. II. 7. ४३; IV. २१. २८.फलकम्:/F Ruled the kingdom for ३६,000 years, performed यज्ञ, appointed his son on the throne and retired to विशाल (बदरिकाश्रम). Meditating on the Lord for 3,००० years, was taken to his eternal abode in the world of luminaries [page२-187+ ४०] in a divine car. By tapas he set his foot on Yama when he saw his mother going before him to Heaven; was obliged to हरी, the power of whose yoga he knew. फलकम्:F4:  Ib. IV. ch. १२. (whole); ३१. २२. [3-4]; M. 4. ३६-8.फलकम्:/F नारद narrated to प्राचेतस् the story of Dhruva and sang his praise. The Pole-star: earned a place in विष्णुपद: at the end of the tail of सिशुमार: फलकम्:F5:  भा. V. १७. 2; २०. ३७; २१. १४; २३. 1; Br. I. 1. ८५; II. २१. ९४, १७५; २२. 6-१०, ५८-9; २३. ९२; २४. १२२; २९. १८; III. ६१. ४९; IV. 2. १३५; M. १२४. ७५-83; १२५. 5-7; वा. 1. १०१; ५१. 6-१०; १०१. ४१, १३५; Vi. I. chh. ११ and १२; II. 7. १०-12; 8. ३९; १२. २४-34.फलकम्:/F with Indra, Agni and other deities, and in front of the सप्तऋषिस्: फलकम्:F6:  Br. III. 5. ८१; M. १२८. ७४; वा. 1. ९७; १९. 2; ५०. १४८, २२२; ५१. 6, १०; ५२. ९७-8; ५३. ९७, ११२.फलकम्:/F Helps the planets in their movements: responsible for the days, nights and seasons of the year: aids in the formation of clouds and fall of rains: फलकम्:F7:  M. १४२. १४.फलकम्:/F the year of Dhruva: In praise of. फलकम्:F8:  Ib. ch. १२७. (whole).फलकम्:/F
(II)--a Vasu, फलकम्:F1:  M. 5. २१-3; २०३. 3-4.फलकम्:/F married धरणी and gave birth to several cities. फलकम्:F2:  भा. VI. 6. ११-12; Br. III. 3. २०-2.फलकम्:/F Father of Bhava, काल and Loka- प्रकालन. फलकम्:F3:  वा. ६६. १९; Vi. I. १५. ११०-11.फलकम्:/F
(III)--a son of रन्तिभार (Ranti, the righteous-वा। प्।). भा. IX. २०. 6. वा. ९९. १२९.
(IV)--a son of Vasudeva and रोहिणी. भा. IX. २४. ४६.
(V)--a son of मेधातिथि and founder of the kingdom, Dhruvam, in प्लक्षद्वीप; attained heaven by tapas. Br. II. १४. ३७-9; ३०. ३९; वा. ३३. ३३; Vi. II. 4. 4-5.
(VI)--a वैकुण्ठ God. Br. II. ३६. ५७. [page२-188+ २५]
(VII)--a God of Lekha group. Br. II. ३६. ७५.
(VIII)--a son of Angada. Br. III. 7. २२०.
(IX)--one of the eleven Rudras. M. १५३. १९.
(X)--a son of Dharma and सुदेवी. M. १७१. ४६.
(XI)--a राजऋषि. वा. ५७. १२२.
(XII)--the presiding deity on Uttiramandira etc. (music). वा. ८६. ५६.
(XIII)--a son of विश्वामित्र. Br. III. ६६. ६८; वा. ९१. ९६.
(XIV)--a son of अन्तीनर. Vi. IV. १९. 4.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhruva^1 : m.: Name of the polar star.


A. Described as the best among the heavenly bodies (jyotiṣāṁ śreṣṭham) 12. 326. 53; identified as the son of king Uttānapāda (auttānapāda) 13. 3. 15.


B. Bad omen: Among the bad omens reported by Vyāsa to Dhṛtarāṣṭra one was related to the blazing Dhruva's movement towards left which foretold terrible happenings (dhruvaḥ prajvalito ghoram apasavyaṁ pravartate) 6. 3. 16.


C. Relation with Nārāyaṇa: Bhagavān (Nārāyaṇa) pointed out to Nārada that Dhruva, the best among the luminous heavenly bodies moving in the sky, was within him (dhruvaṁ ca jyotiṣāṁ śreṣṭhaṁ paśya nārada khecaraṁ (matsthaṁ) 12. 326. 53.


D. Relation with the star Viśvāmitra: Viśvāmitra, stationed between Dhruva Auttānapāda and the Brahmarṣis (the seven stars forming the constellation Ursa Major), shines constantly in the north (dhruvasyauttānapādasya brahmarṣīṇāṁ tathaiva ca/madhye jvalati yo nityam udīcīm āśrito diśam) 13. 3. 15.


E. Neglecting Dhruva harmful: Yājñavalkya told Janaka that those who fail to see Dhruva, having seen it once before, have only a year to live (saṁvatsaraviyogasya saṁbhaveyuḥ śarīriṇaḥ//yo 'rundhatīṁ na paśyeta dṛṣṭapūrvāṁ kadācana/tathaiva dhruvam ity āhuḥ) 12. 305. 8-9.


F. Simile: All ascetics of the Naranārāyaṇāśrama (12. 126. 2) sat round king Vīradyumna as do the seven sages round Dhruva 12. 126. 25. [For Dhruva also see Section 1. 7]


_______________________________
*3rd word in right half of page p255_mci (+offset) in original book.

previous page p254_mci .......... next page p256_mci

Dhruva^2 : nt.: Designation of the four nakṣatras (Rohiṇī, Pūrvā Phalgunī, Pūrvā Bhādrapadā and Pūrvāṣāḍhā).

When the Pāṇḍavas decided to get the wealth of king Marutta Āvikṣita, left on the mountain Himavant, they ordered their army to march out on the day (i. e. Sunday ?, see the next) which was presided over by the Dhruva nakṣatra (kṛtvā tu pāṇḍavāḥ sarve ratnāharaṇaniścayam/senām ājñāpayām āsur nakṣatre 'hani ca dhruve) 14. 62. 17 (Nī. on Bom. Ed. 14. 63. 18: dhruve nakṣatre rohiṇyām uttarātraye ca). [See Dhruva^3 ]


_______________________________
*1st word in left half of page p256_mci (+offset) in original book.

Dhruva^3 : nt.: Designation of the day presided over by Dhruva (? i. e. Sunday ?).

The Pāṇḍavas ordered their army to march out on the dhruva day (senām ājñāpayām āsur nakṣatre 'hani ca dhruve) 14. 62. 17 (Nī. on Bom. Ed. 14. 63. 18: ahani vāre dhruve ravivāre. But Nī.'s explanation amounts to anachronism). [See Dhruva^2 ]


_______________________________
*2nd word in left half of page p256_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhruva^1 : m.: Name of the polar star.


A. Described as the best among the heavenly bodies (jyotiṣāṁ śreṣṭham) 12. 326. 53; identified as the son of king Uttānapāda (auttānapāda) 13. 3. 15.


B. Bad omen: Among the bad omens reported by Vyāsa to Dhṛtarāṣṭra one was related to the blazing Dhruva's movement towards left which foretold terrible happenings (dhruvaḥ prajvalito ghoram apasavyaṁ pravartate) 6. 3. 16.


C. Relation with Nārāyaṇa: Bhagavān (Nārāyaṇa) pointed out to Nārada that Dhruva, the best among the luminous heavenly bodies moving in the sky, was within him (dhruvaṁ ca jyotiṣāṁ śreṣṭhaṁ paśya nārada khecaraṁ (matsthaṁ) 12. 326. 53.


D. Relation with the star Viśvāmitra: Viśvāmitra, stationed between Dhruva Auttānapāda and the Brahmarṣis (the seven stars forming the constellation Ursa Major), shines constantly in the north (dhruvasyauttānapādasya brahmarṣīṇāṁ tathaiva ca/madhye jvalati yo nityam udīcīm āśrito diśam) 13. 3. 15.


E. Neglecting Dhruva harmful: Yājñavalkya told Janaka that those who fail to see Dhruva, having seen it once before, have only a year to live (saṁvatsaraviyogasya saṁbhaveyuḥ śarīriṇaḥ//yo 'rundhatīṁ na paśyeta dṛṣṭapūrvāṁ kadācana/tathaiva dhruvam ity āhuḥ) 12. 305. 8-9.


F. Simile: All ascetics of the Naranārāyaṇāśrama (12. 126. 2) sat round king Vīradyumna as do the seven sages round Dhruva 12. 126. 25. [For Dhruva also see Section 1. 7]


_______________________________
*3rd word in right half of page p255_mci (+offset) in original book.

previous page p254_mci .......... next page p256_mci

Dhruva^2 : nt.: Designation of the four nakṣatras (Rohiṇī, Pūrvā Phalgunī, Pūrvā Bhādrapadā and Pūrvāṣāḍhā).

When the Pāṇḍavas decided to get the wealth of king Marutta Āvikṣita, left on the mountain Himavant, they ordered their army to march out on the day (i. e. Sunday ?, see the next) which was presided over by the Dhruva nakṣatra (kṛtvā tu pāṇḍavāḥ sarve ratnāharaṇaniścayam/senām ājñāpayām āsur nakṣatre 'hani ca dhruve) 14. 62. 17 (Nī. on Bom. Ed. 14. 63. 18: dhruve nakṣatre rohiṇyām uttarātraye ca). [See Dhruva^3 ]


_______________________________
*1st word in left half of page p256_mci (+offset) in original book.

Dhruva^3 : nt.: Designation of the day presided over by Dhruva (? i. e. Sunday ?).

The Pāṇḍavas ordered their army to march out on the dhruva day (senām ājñāpayām āsur nakṣatre 'hani ca dhruve) 14. 62. 17 (Nī. on Bom. Ed. 14. 63. 18: ahani vāre dhruve ravivāre. But Nī.'s explanation amounts to anachronism). [See Dhruva^2 ]


_______________________________
*2nd word in left half of page p256_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhruva in the Sūtras[१] denotes the pole star, being mentioned in connexion with the marriage ritual, in which the star is pointed out to the bride as an emblem of constancy. In the Maitrāyaṇī Upaniṣad,[२] a late work, the movement of the Dhruva (dhruvasya pracalanam) is mentioned, but this can hardly be interpreted as referring to an actual observed motion of the nominal pole star,[३] but rather to an extraordinary event, such as a destruction of the world, as Cowell understood the expression.[४] Jacobi[५] sees in the motion of the Dhruva the possibility of fixing a date, on the ground that the only star which could have been deemed a pole star, as ‘immovable,’ was one (a Draconis) of the third millenium B.C. But this attempt to extract chronology from the name of the star is of very doubtful validity.[६]

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध्रुव पु.
(ध्रुव्+क) सोम के एक प्याले का नाम, मा.श्रौ.सू. 2.3.4.21.

  1. Āśvalāyana Gṛhya Sūtra, i. 7, 22;
    Sāṅkhāyana Gṛhya Sūtra, i. 17, 2 et seq.;
    Lāṭyāyana Śrauta Sūtra, iii. 3, 6, etc. It is to be noted that the marriage Mantras, of which we have a great many, do not include any reference to the Dhruva;
    but it is not possible to say definitely whether the practice is really an old one or not
  2. See Max Müller, Sacred Books of the East, 15, 289;
    Weber, Indische Studien, 2, 396.
  3. As understood by Weber, Indian Literature, 98, n. 103;
    Bühler, Indian Antiquary, 23, 245, n. 21;
    Jacobi, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 49, 228, n. 2.
  4. In his edition of the Upaniṣad, p. 244.
  5. Indian Antiquary, 23, 157;
    Zeitschrift, loc. cit., 50, 69 et seq.;
    Journal of the Royal Asiatic Society,
    1909, 721 et seq.;
    1910, 461 et seq.
  6. Whitney, Journal of the American Oriental Society, 16, xc;
    Keith, Journal of the Royal Asiatic Society, 1909, 1102;
    1910, 465 et seq.
"https://sa.wiktionary.org/w/index.php?title=ध्रुव&oldid=500513" इत्यस्माद् पुनः प्राप्तिः