सामग्री पर जाएँ

नख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नख, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) प्रणखति । इति दुर्गादासः ॥

नखम्, क्ली, पुं, (नह्यते इव शरीरे । नह बन्धे + “नहेर्हलोपश्च ।” उणां ५ । २३ । इति खः हलोपश्च ।) अङ्गुलीकण्टकः । नह इति हिन्दी भाषा । तत्तु उपधातुविशेषः गर्भस्थ- बालकस्य षष्ठमासे भवति । इति सुखबोधः ॥ तत्पर्य्यायः । पुनर्भवः २ कररुहः ३ नखरः ४ इत्यमरः । २ । ६ । ८३ ॥ कामाङ्कुशः ५ करजः ६ पाणिजः ७ अङ्गुलीसम्भूतः ८ पुनर्नवः ९ । इति राजनिर्घण्टः ॥ कराग्रजः १० करकण्टकः ११ स्मराङ्कुशः १२ रतिरथः १३ करचन्द्रः १४ कराङ्कुशः १५ । इति शब्दरत्नावली ॥ * ॥ रतिक्रीडायां नखाघातस्थानानि यथा, -- “नखाघातः प्रदातव्यो यथास्थानानि कर्म्मसु । पार्श्वयोः स्तनयोश्चैव ऊरौ चैव नितम्बके ॥ कक्षस्थले च कर्णान्ते कपाले बाहुमूलके । ग्रीवायां कण्ठदेशे च नखाघातं समाचरेत् ॥ तथा सर्व्वशरीरेषु नखं दद्यात् शनैः शनैः ॥” इति कामशास्त्रम् ॥ “न नखैर्विलिखेद्भूमिं गाञ्च सद्वेशयेन्नहि । न स्वाङ्गे नखवाद्यं वै कुर्य्यान्नाञ्जलिना पिबेत् ॥” इति कूर्म्मे उपविभागे १५ अध्यायः ॥

नखम्, क्ली, स्त्री, (नखमिव आकृतिरस्त्यस्येति । अच् ।) नखीनामगन्धद्रव्यम् । नखी इति ख्यातः । तत्पर्य्यायः । शुक्तिः २ शङ्खः ३ खुरः ४ कोलदलम् ५ । इत्यमरः । २ । ४ । १३० ॥ करजाख्यः ६ अश्वखुरः ७ नखः ८ व्याघ्रनखः ९ नखी १० । “द्विधा शङ्खनखाख्योऽन्यः शुक्त्याख्यो वदरीच्छदः ।” इति रत्नमालायाम् । १४४ ॥ कररुहः ११ सिम्बी १२ शफः १३ चलः १४ कोशी १५ करजः १६ हनुः १७ नागहनुः १८ पाणिजः १९ वदरीपत्रः २० रूप्यः २१ पण्य- विलासिनी २२ सन्धिनालः २३ पाणिरुहः २४ । इति राजनिर्घण्ठः ॥ व्याघ्रायुधम् २५ चक्रकार- कम् २६ शङ्खनखः २७ नखरी २८ । इति शब्द- रत्नावली ॥ अपि च । अथ नखनखीगन्ध- द्रव्यम् । “नखं व्याघ्रनखं व्याघ्रायुधं तञ्चक्रकारकम् । नखं स्वल्पं नखी प्रीक्ता हनुर्हट्टविलासिनी ॥ नखद्वयं ग्रहश्लेष्मवातास्रज्वरकुष्ठहृत् । लघूष्णं शुक्रलं वर्ण्यं स्वादुव्रणविषापहम् ॥ अलक्ष्मीमुखदौर्गन्ध्यं हृत्पाकरसयोः कटुः ॥” इति भावप्रकाशः ॥ स्वल्पनखस्य पर्य्यायः । नखी १ हनुः २ हट्ट- विलासिनी ३ । तयोर्गुणाः । ग्रहश्लेष्मवातास्र- ज्वरकुष्ठनाशित्वम् । लघुत्वम् । उष्णत्वम् । शुक्र- लत्वम् । वर्ण्यत्वम् । स्वादुत्वम् । व्रणविषालक्ष्मी- मुखदौर्गन्ध्यनाशित्वम् । पाकरसयोः कटुत्वञ्च । इति भावप्रकाशः ॥ कण्डुभूतविनाशित्वम् । इति राजनिर्घण्टः ॥ रक्षोघ्नत्वम् । इति राज- वल्लभः ॥ * ॥ “शैलरुहं व्याघ्रनखं हनुहट्टविलासिनी । शुषिराञ्जनकेशी च कपोताङ्घ्रिर्नली खुरः ॥ स्वल्पपत्रस्त्वसौ शुक्तिर्नखरी वदरीच्छदा । महांस्त्वसौ शङ्खनखः शङ्खाख्यो गन्धसारणः ॥” इति भरतधृतवाचस्पतिः ॥

नखः, पुं, (नह्यतेऽनेनेति । नह + खः । हस्य लोपः ।) खण्डम् । इति हेमचन्द्रः । ३ । २५८ ॥ (नखीनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नख नपुं।

नखाख्यगन्धद्रव्यम्

समानार्थक:शुक्ति,शङ्ख,खुर,कोलदल,नख

2।4।130।2।5

धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी। शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

नख पुं-नपुं।

नखः

समानार्थक:पुनर्भव,कररुह,नख,नखर

2।6।83।1।3

पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्. प्रादेशतालगोकर्णास्तर्जन्यादियुते तते॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नख¦ सर्पणे भ्वा॰ पर॰ सक॰ सेट्। नखति अनखीत् अनाखीत्ननाख नेखतुः। अणोपदेशत्वात् न णत्वं प्रनखति।

नख¦ पु॰ न॰ न खं
“छिद्रमत्र नभ्राडित्यादि” पा॰ नञो ननलोपः नखन्यते खन--ड वा नह बन्धने
“नहेर्लोपश्च” ख वा उणा॰।

१ करजे कराङ्गुल्यग्रस्ये कण्टके अमरः।
“कामिनामनिभृतान्यपि रम्भास्तम्भकोमलतलेषु नखानि” माघः
“न च्छिन्द्यान्नखलोमानि दन्तैर्नोत्पाटयेन्नखान्” मनुः
“नखक्षतानीव वनस्थलीनाम्” कुमा॰
“ऐन्द्रिः किन्तनखैस्तस्या विददार स्तनौ द्विजः” रघुः
“न नखैर्विलिखेद्भू-मिम्” कूर्मपु॰। खाङ्गत्वेऽपि उपसमर्जने क्रोडा॰ स्त्रियांङीषोनिषेधे संज्ञायां
“नखमुखात् संज्ञायाम्” नियमात्ङीष्। शूर्पणखा गौरमुखा असंज्ञायान्तु ताम्रानखीकन्या सि॰ कौ॰। नखस्य मूलं कर्णा॰ जाहच्। नख-जाह तन्मूले न॰
“लोष्ट्रमर्द्दी तृणच्छेदी नखस्वादीच यो नरः” मनुना तस्य दन्तेन खादनं निषिद्धम्।

२ खण्डे पु॰ हेम॰

३ शुक्तिकायां गन्धद्रव्यभेदे न॰ स्त्री॰स्त्रियां बह्वा॰ ङीप्।
“द्विधा शङ्खनखाख्यान्याशुक्त्याख्या वदरीच्छदा” रत्नमा॰
“खल्पपत्रस्त्वसौ शुक्ति-र्नखरी वदरच्छदा। महांस्त्वसौ शङ्खनखः शङ्खाख्योगन्धसारणः” शब्दार्थचि॰
“नखद्वयं ग्रहश्लेष्मवातास्र-ज्वरकुष्ठहृत्। लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषा-पहम्। अलक्ष्मीमुखदौर्गन्ध्यहृत् पाकरसयोः कदु” भाव॰ तद्गुणा उक्ताः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नख¦ r. 1st cl. (नखति) To move. भ्वा० पर० सक० सेट् |

नख¦ mf. (-खः-खी) A finger nail. m. (-खः) A part, a portion. nf. (-खं-खी) A perfume, a dried substance, of a brown colour, and of the shape of a nail; apparently, a dried shell-fish, used as a perfume. f. (-खी) A vegetable perfume, different from the one above, though known by the same name, NAK'H4I. E. न privative, ख sense; or नह् to bind ख Una4di affix, the radical ह rejected. नखम् छिद्रम् अत्र |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखः [nakhḥ] खम् [kham], खम् 1 A nail of a finger or of a toe, claw, talon; नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः Bv.1.2; R.2.31;12.22. -खम् A kind of perfume; Nm.

The number 'twenty'.

A eunuch; L. D. B. -खः A part, portion. -Comp. -अङ्कः a scratch, nail-mark; Mv.5.19; कुचकलशयुगान्तर्मामकीनं नखाङ्कम् (आलोकमाना) Bv.2.32. -आघातः a scratch, nail-wound; Māl.5.23 नखाघातः प्रदातव्यो यथास्थानानि नर्मसु Kāmaśāstra.

आयुधः a tiger; प्राचण्ड्यं वहति नखायुधस्य मार्गः Māl.3.17.

a lion.

a cock.-आशिन् m. an owl. -कुट्टः a barber. -जाहम् the root of a nail. -दारणः a falcon, hawk. (-णम्) a pair of nail-scissors. -निकृन्तनम्, -रञ्जनी a pair of nail-scissors, nail-parer; यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातम् Ch. Up.6.1.6. -न्यासः inserting the claws. -पदम्, -व्रणः a nail-mark, or scratch; नखपदसुखान् प्राप्य वर्षाग्र- बिन्दून् Me.37. -मुचः a bow. -लेखकः a nail-painter.

लेखा a nail-mark.

nail-painting. -विषः a man; नखविषा नरादयः. -विष्किरः a bird of prey (tearing with claws); Ms.5.13. -शङ्खः a small shell.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नख mn. (fr. नघ्[?] See. नघमार; prob. not fr. न+ खin spite of Pa1n2. 6-3 , 75 ; ifc. f( ई). )a finger-nail , toe-nail , claw , talon , the spur of a cock RV. etc. ( खानि-कृ, or कॢप्, to cut the nails Kaus3. Mn. )

नख m. = 20 Su1ryas.

नख nf( ई). Unguis Odoratus VarBr2S. Hcat.

नख m. part , portion.[ cf. Gk. ? , stem ? ; Lat. unguis ; Lit. na4gas ; Slav. nogu8ti8 ; Angl.Sax. naegel ; Eng. nail ; Germ. Nagel.]

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nakha denotes either the ‘nail’ of a man,[] or the ‘claw’ of a wild beast, such as a tiger.[] The trimming (nikṛntana)[] of the nails was a regular part of the toilet of the Vedic Indian, especially on occasions of special sanctity, when it accompanied the cleansing of the teeth.[]

  1. Rv. i. 162, 9;
    x. 163, 5;
    Av. ii. 33, 6, etc.
  2. Rv. iv. 3, 3. Cf. x. 28, 10, of the eagle's talon.
  3. Chāndogya Upaniṣad, vi. 1, 6.
  4. Taittirīya Saṃhitā, ii. 5, 1, 7;
    Maitrāyaṇī Saṃhitā, iii. 6, 2, etc.;
    Śatapatha Brāhmaṇa, ii. 1, 3, 4.
"https://sa.wiktionary.org/w/index.php?title=नख&oldid=500522" इत्यस्माद् प्रतिप्राप्तम्